sahasranAma
śrī rādhākṛṣṇa sahastranāmastotram
श्री राधाकृष्ण सहस्त्रनामस्तोत्रम्
Verse
श्रीराधाकृष्णसहस्त्रनामस्तोत्रम् ध्यानम् स्वभावतोऽपास्तसमस्तदोष - मशेषकल्याणगुणैकराशिम् । व्यूहाङ्गिनं ब्रह्म परं वरेण्यं ध्यायेम कृष्णं कमलेक्षणं हरिम् ॥
Verse
अङ्गे तु वामे वृषभानुजां मुदा विराजमानामनुरूपसौभगाम् । सखीसहस्त्रैः परिसेवितां सदा स्मरेम देवीं सकलेष्टकामदाम् ॥
Verse
सनत्कुमार उवाच ततस्त्त्वं नारद पुनः पृष्टवान् वै सदाशिवम् । नाम्नां सहस्त्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे । ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम् ॥
Verse
कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् । पठेन्नामसहस्त्रं तु युगलाख्यं महामुने ॥
Verse
स्तोत्रम् देवकीनन्दनः शौरिर्वासुदेवो बलानुजः । गदाग्रजः कंसमोहः कंससेवकमोहनः ॥१॥
Verse
भिन्नार्गलो भिन्नलोहः पितृबाह्यः पितृस्तुतः । मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥२॥
Verse
व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः । लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥३॥
Verse
गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः । बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥४॥
Verse
बलदोलाशयशयः श्यामलः सर्वसुन्दरः । पद्मनाभो हृषीकेश क्रीडामनुजबालकः ॥५॥
Verse
लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः । यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥६॥
Verse
नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः । रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥७॥
Verse
माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः । बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥८॥
Verse
तृणावर्तप्राणहारी यशोदाविस्मयप्रदः । त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥९॥
Verse
ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् । अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥१०॥
Verse
वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् । गोपीकरावलम्बी च गोपबालकसुप्रियः ॥११॥
Verse
बलानुयायी बलवान् श्रीदामप्रिय आत्मवान् । गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥१२॥
Verse
नवनीतहरो बालो नवनीतप्रियाशनः । बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥१३॥
Verse
यशोदातर्जितः कम्पी मायारुदितशोभनः । दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥१४॥
Verse
सुबद्धोलूखलो नम्रशिरा गोपीकदर्थितः । वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥१५॥
Verse
देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः । व्रजकोलाहलकरो व्रजानन्दविवर्धनः ॥१६॥
Verse
गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् । वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥१७॥
Verse
बालक्रीडो बालरतिर्बालकः कनकाङ्गदी । पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥१८॥
Verse
किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः । वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥१९॥
Verse
अघासुरविनाशी च विनिद्रीकृतबालकः । आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥२०॥
Verse
गोपालमण्डलीमध्यः सर्वगोपालभूषणः । कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥२१॥
Verse
कृतबाहुश्रृङ्गयष्टिर्गुञ्जालंकृतकण्ठकः । मयूरपिच्छमुकुटो वनमालविभूषितः ॥२२॥
Verse
गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः । कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥२३॥
Verse
आजानुबाहुर्भगवान् निद्रारहितलोचनः । कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥२४॥
Verse
विरञ्चिमोहनवपुर्गोपवत्सवपुर्धरः । ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥२५॥
Verse
ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः । गिरिपूजोपदेष्टा च धृतगोवर्धनाचलः ॥२६॥
Verse
पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः । सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥२७॥
Verse
कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् । धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥२८॥
Verse
मयासुरात्मजध्वंसी केशिकण्ठविदारकः । गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥२९॥
Verse
गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः । यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः ॥३०॥
Verse
जलेशमानमथनो नन्दगोपालजीवनः । गन्धर्वशापमोक्ता च शङ्खचूडशिरोहरः ॥३१॥
Verse
वंशीवटी वेणुवादी गोपीचिन्तापहारकः । सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥३२॥
Verse
व्यङ्ग्यधर्मप्रवक्ता च गोपीमण्डलमोहनः । रासक्रीडारसास्वादी रसिको राधिकाधवः ॥३३॥
Verse
किशोरीप्राणनाथश्च वृषभानुसुताप्रियः । सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥३४॥
Verse
गोपिकागीतचरितो गोपीनर्तनलालसः । गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥३५॥
Verse
गोपिकामर्जितमुखो गोपीव्यजनवीजितः । गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥३६॥
Verse
गोपिकाहृदयालम्बी गोपीवहनतत्परः । गोपिकामदहारी च गोपिकापरमार्जितः ॥३७॥
Verse
गोपिकाकृतसल्लीलो गोपिकासंस्मृतप्रियः । गोपिकावन्दितपदो गोपिकावशवर्तनः ॥३८॥
Verse
राधापराजितः श्रीमान् निकुञ्जेषु विहारवान् । कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥३९॥
Verse
यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः । शशिसंस्तम्भनः शूरः कामी कामविमोहनः ॥४०॥
Verse
कामाद्यः कामनाथश्च काममानसभेदनः । कामदः कामरूपश्च कामिनीकामसंचयः ॥४१॥
Verse
नित्यक्रीडो महालीलः सर्व सर्वगतस्तथा । परमात्मा पराधीशः सर्वकारणकारणः ॥४२॥
Verse
गृहीतनारदवचो ह्यक्रूरपरिचिन्तितः । अक्रूरवन्दितपदो गोपिकातोषकारकः ॥४३॥
Verse
अक्रूरवाक्यसंग्राही मथुरावासकारणः । अक्रूरतापशमनो रजकायुःप्रणाशनः ॥४४॥
Verse
मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः । कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥४५॥
Verse
सुदामगृहगामी च सुदामपरिपूजितः । तन्तुवायकसम्प्रीतः कुब्जाचन्दनलेपनः ॥४६॥
Verse
कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः । सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥४७॥
Verse
कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः । सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥४८॥
Verse
कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः । कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥४९॥
Verse
मल्लरूपो महाकालः कामरूपी बलान्वितः । कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥५०॥
Verse
चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः । वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥५१॥
Verse
देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः । यादवेन्द्र सतां नाथो यादवारिप्रमर्दनः ॥५२॥
Verse
शौरिशोकविनाशी च देवकीतापनाशनः । उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥५३॥
Verse
उग्रसेनाभिषेकी च उग्रसेनदयापरः । सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥५४॥
Verse
सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः । सर्वगोपालधनदो गोपीगोपाललालसः ॥५५॥
Verse
शौरिदत्तोपवीती च उग्रसेनदयाकरः । गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥५६॥
Verse
संकर्षणसहाध्यायी सुदामसुहृदेव च । विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥५७॥
Verse
चक्री पाञ्चजनी चैव सर्वनारकिमोचनः । यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥५८॥
Verse
कुब्जाविलासी सुभगो दीनबन्धुरनूपमः । अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥५९॥
Verse
जरासंधजयी विद्वान् यवनान्तो द्विजाश्रयः । मुचुकुन्दप्रियकरो जरासंधपलायितः ॥६०॥
Verse
द्वारकाजनको गूढो ब्रह्मण्यः सत्यसंगरः । लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥६१॥
Verse
रुक्मिणीप्रियसंदेशो रुक्मशोकविवर्धनः । चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥६२॥
Verse
रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः । बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥६३॥
Verse
रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् । भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥६४॥
Verse
शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः । सत्राजित्तनयाकन्तो मित्रविन्दापहारकः ॥६५॥
Verse
सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः । नरकासुरघाती च लीलाकन्याहरो जयी ॥६६॥
Verse
मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः । वैनतेयी स्वर्गगामी अदित्यै कुण्डलप्रदः ॥६७॥
Verse
इन्द्रर्चितो रमाकान्तो वज्रिभार्याप्रपूजितः । पारिजातापहारी च शक्रमानापहारकः ॥६८॥
Verse
प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः । गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥६९॥
Verse
द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः । पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥७०॥
Verse
अवैष्णवविप्रदाही सुदक्षिणभयावहः । जरासंधविदारी च धर्मनन्दनयज्ञकृत् ॥७१॥
Verse
शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः । विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥७२॥
Verse
रुक्मिणीमानहारी च रुक्मिणीमानवर्धनः । देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥७३॥
Verse
दुर्वासाभयहारी च पाञ्चालीस्मरणागतः । पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥७४॥
Verse
पार्थमानापहारी च पार्थजीवनदायकः । पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥७५॥
Verse
श्चेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः । सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥७६॥
Verse
महासेनजयी चैव शिवसैन्यविनाशनः । बाणसुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥७७॥
Verse
तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्धनः । रामस्वरूपधारी च सत्यभामामुदावहः ॥७८॥
Verse
रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः । स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥७९॥
Verse
वीरायुधहरः कालः कालिकेशो महाबलः । बर्बरीकशिरोहारी बर्बरीकशिरःप्रदः ॥८०॥
Verse
धर्मपुत्रजयी शूरदुर्योधनमदान्तकः । गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥८१॥
Verse
राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः । सदा मधुवनानन्दी सदा वृन्दावनप्रियः ॥८२॥
Verse
अशोकवनसंनद्धः सदा तिलकसङ्गतः । सदा गोवर्धनरतिः सदा गोकुलवल्लभः ॥८३॥
Verse
भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः । नन्दग्रामकृतावासो वृषभानुगृहप्रियः ॥८४॥
Verse
गृहीतकामिनीरूपो नित्यं रासविलासकृत् । वल्लवीजनसंगोप्ता वल्लवीजनवल्लभः ॥८५॥
Verse
देवशर्मकृपाकर्ता कल्पपादपसंस्थितः । शिलानुगन्धनिलयः पादचारी घनच्छविः ॥८६॥
Verse
अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः । त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥८७॥
Verse
षड्धुरध्वंसकर्ता च निकुम्भप्राणहारकः । वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥८८॥
Verse
बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः । शिवसंकटहारी च वृकासुरविनाशनः ॥८९॥
Verse
भृगुसत्कारकारी च शिवसात्त्विकताप्रदः । गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥९०॥
Verse
वेदस्तुतो वेदवेत्ता यदुवंशविवर्धनः । यदुवंशविनाशी च उद्धवोद्धारकारकः ॥९१॥
Verse
राधा च राधिका चैव आनन्दा वृषभानुजा । वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥९२॥
Verse
प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी । ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥९३॥
Verse
जितचन्द्रा जितमृगा जितसिंहा जितद्विपा । जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥९४॥
Verse
जितबिम्बा जितशुका जितपद्मा कुमारिका । श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥९५॥
Verse
नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा । आमोदिनी मोदवती नन्दनन्दनभूषिता ॥९६॥
Verse
दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता । कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥९७॥
Verse
चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा । श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥९८॥
Verse
भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया । कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥९९॥
Verse
वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी । भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥१००॥
Verse
श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी । श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥१०१॥
Verse
वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा । कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥१०२॥
Verse
भक्तिग्राह्मा भक्तिरूपा लावण्यसरसी उमा । ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥१०३॥
Verse
नित्यलीला नित्यकामा नित्यश्रृङ्गारभूषिता । नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥१०४॥
Verse
गोपिकामण्डलीयुक्ता नित्यं गोपालसंगता । गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥१०५॥
Verse
महालीलाप्रकृष्टा च नागरी नगचारिणी । नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥१०६॥
Verse
पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा । कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥१०७॥
Verse
शीलसौन्दर्यनिलया नन्दनन्दनलालिता । अशोकवनसंवासा भाण्डीरवनसंगता ॥१०८॥
Verse
कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया । अजागम्या भवागम्या गोवर्धनकृतालया ॥१०९॥
Verse
यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी । शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥११०॥
Verse
कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया । देवद्रुमफला सेव्या वृन्दावनरसालया ॥१११॥
Verse
कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा । कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥११२॥
Verse
मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा । कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥११३॥
Verse
तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी । त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥११४॥
Verse
दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका । देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥११५॥
Verse
शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका । कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥११६॥
Verse
कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता । विश्वाधारा कृपाधारा जीवाधारातिनायिका ॥११७॥
Verse
शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः। दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥११८॥
Verse
दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना । परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥११९॥
Verse
कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः । कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥१२०॥
Verse
कृष्णासक्ता कृष्णभक्ता चन्द्रवलिनिषेविता । कलाषोडशसम्पूर्णा कृष्णदेहार्धधारिणी ॥१२१॥
Verse
कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी । कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥१२२॥
Verse
कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा । सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥१२३॥
Verse
कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा । नगधात्री यशोदात्री महादेवी शुभङ्करी ॥१२४॥
Verse
श्रीशेषदेवजननी अवतारगणप्रसूः । उत्पलाङ्कारविन्दाङ्का प्रासादाङ्दाद्वितीयका ॥१२५॥
Verse
रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता । छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥१२६॥
Verse
दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता । कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥१२७॥
Verse
कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी । पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥१२८॥
Verse
कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता । सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥१२९॥
Verse
अणिमादिगुणैश्वर्या देववृन्दविमोहिनी । सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥१३०॥
Verse
कृष्णाभिसारसंकेता मालिनी नृत्यपण्डिता । गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥१३१॥
Verse
श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता । श्रीकृष्णालिंगनरता गोविन्दविरहाक्षमा ॥१३२॥
Verse
अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा । बीजत्रयमयीमूर्तिः कृष्णानुग्रहवाञ्छिता ॥१३३॥
Verse
विमलादिनिषेव्या च ललिताद्यर्चिता सती । पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥१३४॥
Verse
वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा । दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥१३५॥
Verse
सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी । ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्धमात्रिका ॥१३६॥
Verse
गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा । कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥१३७॥
Verse
श्रीकृष्णहृदयावासा मुक्ताकनकनासिका । सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥१३८॥
Verse
स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता । अशेषरासकुतुका रम्भोरूस्तनुमध्यमा ॥१३९॥
Verse
पराकृतिः परानन्दा परस्वर्गविहारिणी । प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥१४०॥
Verse
कैशोरवयसा बाला प्रमदाकुलशेखरा । कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥१४१॥
Verse
शिखिपिच्छसच्चूडा स्वर्णचम्पकभूषिता । कुंकुमालक्तकस्तूरीमण्डिता चापराजिता ॥१४२॥
Verse
हेमहारान्विता पुष्पहाराढ्या रसवत्यपि । माधुर्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥१४३॥
Verse
भ्रूभङगाङ्गकोदंडकटाक्षरसंधिनी । शेषदेवाशिरस्था च नित्यस्थलविहारिणी ॥१४४॥
Verse
कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी । अष्टभाववती चाष्टनायिका लक्षणान्विता ॥१४५॥
Verse
सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी । रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥१४६॥
Verse
केतकीकुसुमाभासा सदा सिन्धुवनस्थिता । हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥१४७॥
Verse
स्तनकुम्भी नरढ्या च क्षीणापुण्या यशस्विनी । वैराजसूर्यजननी श्रीशा भुवनमोहिनी ॥१४८॥
Verse
महाशोभा महामाया महाकान्तिर्महास्मृतिः । महामोहा महाविद्या महाकीर्तिर्महारतिः ॥१४९॥
Verse
महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः । महागौरी महासम्पन्महाभोगविलासिनी ॥१५०॥
Verse
समया भक्तिदाशोका वात्सल्यरसदायिनी । सुहद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥१५१॥
Verse
भावभक्तिप्रदा शुद्भप्रेमभक्तिविधायिनी । गोपरामभिरामा च क्रिडारामा परेश्वरी ॥१५२॥
Verse
नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी । एकानेकजगद्व्याप्ता विश्वलीलाप्रकाशिनी ॥१५३॥
Verse
सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः । विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥१५४॥
Verse
विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा । आरामस्था वनस्था च सूर्यपुत्र्यवगाहिनी ॥१५५॥
Verse
प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा । स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥१५६॥
Verse
अमृता ह्यद्भुता श्रीमन्नारायनसमीडिता । अक्षरापि च कूटस्था महापुरुषसम्भवा ॥१५७॥
Verse
औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी । शिरीषपुष्पमृदुला गाङेगयमुकुरप्रभा ॥१५८॥
Verse
नीलोत्पलजिताक्षी च सद्रत्नकबरान्विता । प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥१५९॥
Verse
कृष्णाङ्गगोपनाभेदा लीलावरणनायिका । सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥१६०॥
Verse
कृष्णचित्ता रासचिता प्रेमचित्ता हरिप्रिया । अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥१६१॥
Verse
राससिन्धुशशाङ्का च रासमण्डलमण्डिनी । नतव्रता श्रीहरीच्छासुमूर्तिः सुरवन्दिता ॥१६२॥
Verse
गोपीचूडामणिर्गोपीगणेड्या विरजाधिका । गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥१६३॥
Verse
गोपधामा सुदामाम्बा गोपाली गोपमोहिनी । गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥१६४॥
Verse
वीणादिघोषनिरता रासोत्सवविकासिनी । कृष्णचेष्टापरिज्ञाता कोटिकन्दर्पमोहिनी ॥१६५॥
Verse
श्रीकृष्णगुणगानाढ्या देवसुन्दरिमोहिनी । कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥१६६॥
Verse
कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिनी । क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥१६७॥
Verse
प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता । कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥१६८॥
Verse
स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता । हेमाद्रिकान्तिरुचिरा प्रेमाढ्या मदमन्थरा ॥१६९॥
Verse
कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा । रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥१७०॥
Verse
कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मविनिन्दिनी । कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥१७१॥
Verse
रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका । शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥१७२॥
Verse
सुप्रभावा शुभाचारा स्वर्नदीनर्मदाम्बिका । गोमतीचन्द्रभागेड्या सरयूताम्रपर्णिसूः ॥१७३॥
Verse
निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना । ॥
Verse
फलश्रुतिः ॥
Verse
एतन्नामसहस्त्रं तु युग्मरूपस्य नारद ॥१७४॥
Verse
पठनीयं प्रयत्नेन वृन्दावनरसावहे । महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥१७५॥
Verse
दारिद्र्यशमनं रोगनाशनं कामदं महत् । पापापहं वैरिहरं राधामाधवभक्तिदम् ॥१७६॥
Verse
नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । राधासंगसुधासिन्धौ नमो नित्यविहारिणे ॥१७७॥
Verse
राधादेवी जगत्कर्त्री जगत्पालनतत्परा । जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥१७८॥
Verse
तस्या नामसहस्त्रं वै मया प्रोक्तं मुनीश्वर । भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥१७९॥
Verse
॥
Verse
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे श्रीराधाकृष्णसहस्त्रनामास्तोत्रं सम्पूर्णम् ॥
