Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīdharmaśāstuḥ aṣṭakam

श्रीधर्मशास्तुः अष्टकम्

Verse

बन्धूकबन्धुररुचिं कलधौतभासं पञ्चाननं दुरितवञ्चनधीरमीशम् । पार्श्वद्वयाकलितशक्तिकटाक्षचारुं नीलॊत्पलार्चिततनुं प्रणतॊऽस्मि देवम् ॥१॥

Verse

कल्याणवेषरुचिरं करुणानिधानं कन्दर्पकोटिसदृशं कमनीयभासम् । कान्ताद्वयाकलितपार्श्वमघारिमाद्यं शास्तारमेव सततं प्रणतोऽस्मि नित्यम् ॥२॥

Verse

यो वा स्मरेदरुणकुङ्कुमपङ्कशोण- गुंजापिनद्धकचभारलसत्किरीटम् । शास्तारमेव सततं स तु सर्वलोकान् विस्मापयेन्निजविलोकनतॊ नितान्तम् ॥३॥

Verse

पञ्चेषुकैटभविरोधितनूभवं तं आरूढदन्तिपरमादृतमन्दहासम् । हस्ताम्बुजैरविरतं निजभक्तहंसे ष्वृद्धिं परां हि ददतं भुवनैकवन्द्यम् ॥४॥

Verse

गुंजामणिस्रगुपलक्षितकेशहस्तं कस्तूरिकातिलकमोहनसर्वलोकम् । पञ्चाननाम्बुजलसत् घनकर्णपाशं शास्तारमम्बुरुहलोचनमीशमीडे ॥५॥

Verse

पञ्चाननं दशभुजं धृतहेतिदण्डं धारावतादपि च रूष्णिकमालिकाभिः । इच्छानुरूपफलदोऽस्म्यहमेव भक्ते- ष्वित्थं प्रतीतविभवं भगवन्तमीडे ॥६॥

Verse

स्मेराननाद् भगवतः स्मरशासनाच्च मायागृहीतमहिलावपुषो हरेश्च । यः संगमे समुदभूत् जगतीह तादृग् देवं नतोऽस्मि करुणालयमाश्र येऽहम् ॥७॥

Verse

यस्यैव भक्तजनमत्र गृणन्ति लोके किं वा मयः किमथवा सुरवर्धकिर्वा । वेधाः किमेष ननु शम्बर एष वा किं इत्येव तं शरणमाशुतरं व्रजामि ॥८॥

śāstā aṣṭakam
rādhikādhipāṣṭakam (nimbārkācāryakṛtam)

Read next

More on श्रीधर्मशास्तुः

  • श्रीधर्मशास्तुः अष्टकम्Ashtakam
  • श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms