Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śāstā aṣṭakam

शास्ता अष्टकम्

Verse

हरिवरासनं विश्वंमोहनं हरितदीश्वराऽऽराध्यपादुकम् । अरिविमर्द्दनं नित्यनर्तनं हरिहरात्मजं देवमाश्राये ॥१॥

Verse

चरणकीर्तनं शक्तमानसं भरणलॊलुपं नर्तनालयम् । अरुणभासुरं भूतनायकं हरिहरात्मजंदेवमाश्राये ॥२॥

Verse

प्रणय सत्यका प्राणनायकं प्रणतकल्पकं सुप्रभाञ्चितं । प्रणवमन्दिरं कीर्तनप्रियं हरिहरात्मजंदेवमाश्राये ॥३॥

Verse

तुरगवाहनं सुन्दराननं वरगदायुधं देववर्णितम् । गुरुकृपाकरं कीर्तनप्रियं हरिहरात्मजंदेवमाश्राये ॥४॥

Verse

त्रिभुवनार्चितं देवतात्मकं त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिन्तितप्रदं हरिहरात्मजंदेवमाश्राये ॥५॥

Verse

भवभयापहं भावुकावहं भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणं हरिहरात्मजंदेवमाश्राये ॥६॥

Verse

कलमृदुस्मितं सुन्दराननं कलभकोमलं गात्रमोहनम् । कलभकेसरीवाजिवाहनं हरिहरात्मजंदेवमाश्राये ॥७॥

Verse

श्रितजनप्रियं चिन्तितप्रदं श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनॊहरं गीतलालसं हरिहरात्मजंदेवमाश्राये ॥८॥

maṅgalāṣṭakam (kālidāsaviracitam)
śrīdharmaśāstuḥ aṣṭakam

Read next

More on शास्ता

  • व्यासाष्टकम्Ashtakam
  • शबरिगिरीशाष्टकम्Ashtakam
  • वेङ्कटेशाष्टकम् १Ashtakam
  • वेङ्कटेशाष्टकम् २Ashtakam
  • श्रीसुधाघटेशाष्टकम्Ashtakam
  • शास्ता अष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms