aSTakam
śāstā aṣṭakam
शास्ता अष्टकम्
Verse
हरिवरासनं विश्वंमोहनं हरितदीश्वराऽऽराध्यपादुकम् । अरिविमर्द्दनं नित्यनर्तनं हरिहरात्मजं देवमाश्राये ॥१॥
Verse
चरणकीर्तनं शक्तमानसं भरणलॊलुपं नर्तनालयम् । अरुणभासुरं भूतनायकं हरिहरात्मजंदेवमाश्राये ॥२॥
Verse
प्रणय सत्यका प्राणनायकं प्रणतकल्पकं सुप्रभाञ्चितं । प्रणवमन्दिरं कीर्तनप्रियं हरिहरात्मजंदेवमाश्राये ॥३॥
Verse
तुरगवाहनं सुन्दराननं वरगदायुधं दॆववर्णितम् । गुरुकृपाकरं कीर्तनप्रियं हरिहरात्मजंदेवमाश्राये ॥४॥
Verse
त्रिभुवनार्चितं देवतात्मकं त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिन्तितप्रदं हरिहरात्मजंदेवमाश्राये ॥५॥
Verse
भवभयापहं भावुकावहं भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणं हरिहरात्मजंदेवमाश्राये ॥६॥
Verse
कलमृदुस्मितं सुन्दराननं कलभकोमलं गात्रमोहनम् । कलभकेसरीवाजिवाहनं हरिहरात्मजंदेवमाश्राये ॥७॥
Verse
श्रितजनप्रियं चिन्तितप्रदं श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनॊहरं गीतलालसं हरिहरात्मजंदेवमाश्राये ॥८॥
