aSTakam
śrīdharmaśāstuḥ aṣṭakam
श्रीधर्मशास्तुः अष्टकम्
Verse
बन्धूकबन्धुररुचिं कलधौतभासं पञ्चाननं दुरितवञ्चनधीरमीशम् । पार्श्वद्वयाकलितशक्तिकटाक्षचारुं नीलॊत्पलार्चिततनुं प्रणतॊऽस्मि देवम् ॥१॥
Verse
कल्याणवेषरुचिरं करुणानिधानं कन्दर्पकोटिसदृशं कमनीयभासम् । कान्ताद्वयाकलितपार्श्वमघारिमाद्यं शास्तारमेव सततं प्रणतोऽस्मि नित्यम् ॥२॥
Verse
यो वा स्मरेदरुणकुङ्कुमपङ्कशोण- गुंजापिनद्धकचभारलसत्किरीटम् । शास्तारमेव सततं स तु सर्वलोकान् विस्मापयॆन्निजविलोकनतॊ नितान्तम् ॥३॥
Verse
पञ्चेषुकैटभविरोधितनूभवं तं आरूढदन्तिपरमादृतमन्दहासम् । हस्ताम्बुजैरविरतं निजभक्तहंसे ष्वृद्धिं परां हि ददतं भुवनैकवन्द्यम् ॥४॥
Verse
गुंजामणिस्रगुपलक्षितकेशहस्तं कस्तूरिकातिलकमोहनसर्वलोकम् । पञ्चाननाम्बुजलसत् घनकर्णपाशं शास्तारमम्बुरुहलोचनमीशमीडे ॥५॥
Verse
पञ्चाननं दशभुजं धृतहेतिदण्डं धारावतादपि च रूष्णिकमालिकाभिः । इच्छानुरूपफलदोऽस्म्यहमेव भक्ते- ष्वित्थं प्रतीतविभवं भगवन्तमीडे ॥६॥
Verse
स्मेराननाद् भगवतः स्मरशासनाच्च मायागृहीतमहिलावपुषो हरेश्च । यः संगमे समुदभूत् जगतीह तादृग् देवं नतोऽस्मि करुणालयमाश्र येऽहम् ॥७॥
Verse
यस्यैव भक्तजनमत्र गृणन्ति लोके किं वा मयः किमथवा सुरवर्धकिर्वा । वेधाः किमेष ननु शम्बर एष वा किं इत्येव तं शरणमाशुतरं व्रजामि ॥८॥
