aSTakam
vyāsāṣṭakam
व्यासाष्टकम्
Verse
कलिमलास्तविवेकदिवाकरं समवलोक्य तमोवलितं जनम् । करुणया भुवि दर्शितविग्रहं मुनिवरं गुरुव्यासमहं भजे ॥१॥
Verse
भरतवंशसमुद्धरणेच्छया स्वजननीवचसा परिनोदितः । अजनयत्तनयत्रितयं प्रभुः शुकनुतं गुरुव्यासमहं भजे ॥२॥
Verse
मतिबलादि निरीक्ष्य कलौ नृणां लघुतरं कृपया निगमाम्बुधेः । समकरोदिह भागमनेकधा श्रुतिपतिं गुरुव्यासमहं भजे ॥३॥
Verse
सकलधर्मनिरूपणसागरं विविधचित्रकथासमलङ्कृतम् । व्यरचयच्च पुराणकदम्बकं कविवरं गुरुव्यासमहं भजे ॥४॥
Verse
श्रुतिविरोधसमन्वयदर्पणं निखिलवादिमतान्ध्यविदारणम् । ग्रथितवानपि सूत्रसमूहकं मुनिसुतं गुरुव्यासमहं भजे ॥५॥
Verse
यदनुभाववशेन दिवङ्गतः समधिगम्य महास्त्रसमुच्चयम् । कुरूचमूमजयद्विजयो द्रुतं द्युतिधरं गुरुव्यासमहं भजे ॥६॥
Verse
समरवृत्तविबोधसमीहया कुरुवरेण मुदा कृतयाचनः । सपतिसूतमदादमलेक्षणं कलिहरं गुरुव्यासमहं भजे ॥७॥
Verse
वननिवासपरौ कुरुदम्पति सुतशुचा तपसा च विकर्शितौ । मृततनूजगणं समदर्शयन् शरणदं गुरुव्यासमहं भजे ॥८॥
