Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrī vedavyāsāṣṭakam

श्री वेदव्यासाष्टकम्

Verse

कलिमलास्तविवेकदिवाकरं समवलोक्य तमोवलितं जनम् । करुणया भुवि दर्शितविग्रहं मुनिवरं तमहं सततं भजे ॥१॥

Verse

भरतवंशसमुद्धरणेच्छया स्वजननीवचसा परिनोदितः । अजनयत्तनयत्रितयं प्रभुर्मुनिवरं तमहं सततं भजे ॥२॥

Verse

मतिबलादि निरीक्ष्य कलौ नृणां लघुतरं कृपया निगमांबुधेः । समकरोदिह भागमनेकधा मुनिवरं तमहं सततं भजे ॥३॥

Verse

सकलधर्मनिरूपणसागरं विविधचित्रकथासमलंकृतम् । व्यरचयच्च पुराणकदंबकं मुनिवरं तमहं सततं भजे ॥४॥

Verse

श्रुतिविरोधसमन्वयदर्पणं निखिलवादिमतान्ध्यविदारणम् । ग्रथितवानपि सूत्रसमूहकं मुनिवरं तमहं सततं भजे ॥५॥

Verse

यदनुभाववशेन दिवंगतः समधिगम्य महास्त्रसमुच्चयम् । कुरुचमूमजयद्विजयो द्रुतम् मुनिवरं तमहं सततं भजे ॥६॥

Verse

समरवृत्तबोधसमीह्ययां कुरुवरेण मुदा कृतयाचनः । सपदि सूतमदादमलेक्षणं मुनिवरं तमहं सततं भजे ॥७॥

Verse

वननिवासपरौ कुरुदंपती सुतशुचा तपसा च विकर्शितौ । मृततनूजगणं समदर्शयन् मुनिवरं तमहं सततं भजे ॥८॥

Verse

व्यासाष्टकमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् । यः पठेन्मनुजो नित्यं स भवेच्छास्त्रपारगः ॥९॥

saṅkaṭā nāmāṣṭakam
maṅgalāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms