Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

subrahmaṇyāṣṭottaraśatanāmastotram

सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

Verse

शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् । दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥

Verse

स्कन्दो गुहः षण्मुखश्च फालनेत्रसुतः प्रभुः । पिङ्गलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥१॥

Verse

द्विषण्णेत्रः शक्तिधरः पिशिताशप्रभञ्जनः । तारकासुरसंहारी रक्षोबलविमर्दनः ॥२॥

Verse

मत्तः प्रमत्तोन्मत्तश्च सुरसैन्यसुरक्षकः । देवसेनापतिः प्राज्ञः कृपालुर्भक्तवत्सलः ॥३॥

Verse

उमासुतः शक्तिधरः कुमारः क्रौञ्चदारणः । सेनानीरग्निजन्मा च विशाखः शङ्करात्मजः ॥४॥

Verse

शिवस्वामी गणस्वामी सर्वस्वामी सनातनः । अनन्तमूर्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥५॥

Verse

गङ्गासुतः शरोद्भूत आहूतः पावकात्मजः । जृम्भः प्रजृम्भ उज्जृम्भः कमलासनसंस्तुतः ॥६॥

Verse

एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः । चतुर्वर्णः पञ्चवर्णः प्रजापतिरहःपतिः ॥७॥

Verse

अग्निगर्भः शमीगर्भो विश्वरेता सुरारिहा । हरिद्वर्णः शुभकरो वटुश्च पटुवेषभृत् ॥८॥

Verse

पूषा गभस्तिर्गहनश्चन्द्रवर्णः कलाधरः । मायाधरो महामायी कैवल्यः शङ्करात्मजः ॥९॥

Verse

विश्वयोनिरमेयात्मा तेजोयोनिरनामयः । परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः ॥१०॥

Verse

पुलिन्दकन्याभर्ता च महासारस्वतावृतः । आश्रिताखिलदाता च चोरघ्नो रोगनाशनः ॥११॥

Verse

अनन्तमूर्तिरानन्दः शिखण्डी-कृतकेतनः । डम्भः परमडम्भश्च महाडम्भो वृषाकपिः ॥१२॥

Verse

कारणोत्पत्ति-देहश्च कारणातीत-विग्रहः । अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः ॥१३॥

Verse

विरुद्धहन्तो वीरघ्नो रक्तश्यामगलोऽपि च । सुब्रह्मण्यो गुहः प्रीतो ब्रह्मण्यो ब्राह्मणप्रियः । वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥१४॥

Verse

॥इति श्री-सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

sarasvatyaṣṭottaraśatanāmastotram
kārttikeyāṣṭottaraśatanāmastotram

Read next

More on सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्

  • सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms