aSTottaranAma
subrahmaṇyāṣṭottaraśatanāmastotram
सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्
Verse
स्कन्दो गुहो षण्मुखश्च फालनेत्रसुतः प्रभुः पिङ्गलः कृत्तिकासूनुर्शिखिवाहो द्विषड्भुजः ॥१-९॥
Verse
द्विषण्णेत्रः शक्तिधरो पिशिताशप्रभंजनः तारकासुरसंहारी रक्षोबलविमर्द्दनः ॥१०-१४॥
Verse
मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः देवसेनापतिर्प्राज्ञः कृपालुर्भक्तवत्सलः ॥१५-२२॥
Verse
उमासूनुर्शक्तिधरः कुमारः क्रौञ्चदारणः सेनानी अग्निजन्मा च विशाखः शंकरात्मजः ॥२३-३०॥
Verse
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः ॥३१-३७॥
Verse
गंगासुतो शरोद्भूतः आहूतः पावकात्मजः जृंभो विजृंभो उज्जृंभः कमलासनसंस्तुतः ॥३८-४५॥
Verse
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः चतुर्वर्णः पञ्चवर्णो प्रजापतिरहस्पतिः ॥४६-५३॥
Verse
अग्निगर्भो शमीगर्भः विश्वरेता सुरारिहा हरिद्वर्णो शुभकरः वासवो वटुवेषभृत् ॥५४-६१॥
Verse
पूषा गभस्तिर्गहनो चन्द्रवर्णो कलाधरः मायाधरो महामायी कैवल्यश्शंकरात्मजः ॥६२-७०॥
Verse
विश्वयोनिरमेयात्मा तेजोनिधिरनामयः परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः ॥७१-७८॥
Verse
पुलिन्दकन्याभर्ता च महासारस्वतप्रदः आश्रिताखिलदाता च चोरघ्नो रोगनाशनः ॥७९-८३॥
Verse
अनन्तमूर्तिरनन्तो शिखण्डीकृतकेतनः डंभः परमडंभश्च महाडंभो वृषाकपिः ॥८४-९०॥
Verse
कारणोपात्तदेहश्च कारणातीतविग्रहः अनीश्वरोऽमृत: प्राणो प्राणायामपरायणः ॥९१-९६॥
Verse
विरुद्धहन्ता वीरघ्नो रक्तश्यामगलो महत् सुब्रह्मण्यो गुहो गुण्यो ब्रह्मण्यो ब्राह्मणप्रियः ॥९७-१०५॥
Verse
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥१०६-१०८॥
