Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

hariharātmajāṣṭakam

हरिहरात्मजाष्टकम्

Verse

हरिवरासनं विश्वमोहनं हरिदधीश्वरम् आराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनं हरिहरात्मजं देवमाश्रये ॥१॥

Verse

चरणकीर्तनं भक्तमानसं भरणलोलुपं नर्तनालसम् । अरुणभासुरं भूतनायकं हरिहरात्मजं देवमाश्रये ॥२॥

Verse

प्रणयसत्यकं प्राणनायकं प्रणतकल्पकं सुप्रभञ्चितम् । प्रणवमन्दिरं कीर्तनप्रियं हरिहरात्मजं देवमाश्रये ॥३॥

Verse

तुरगवाहनं सुन्दराननं वरगदायुधं वेदवर्णितम् । गुरुकृपाकरं कीर्तनप्रियं हरिहरात्मजं देवमाश्रये ॥४॥

Verse

त्रिभुवनार्चितं देवतात्मकं त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिन्तितप्रदं हरिहरात्मजं देवमाश्रये ॥५॥

Verse

भवभयापहं भावुकावकं भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणं हरिहरात्मजं देवमाश्रये ॥६॥

Verse

कलमृदुस्मितं सुन्दराननं कलभकोमलं गात्रमोहनम् । कलभकेसरीं वाजिवाहनं हरिहरात्मजं देवमाश्रये ॥७॥

Verse

श्रितजनप्रियं चिन्तितप्रदं श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनोहरं गीतलालसं हरिहरात्मजं देवमाश्रये ॥८॥

Verse

॥इति श्री-हरिहरात्मजाष्टकं सम्पूर्णम्॥

subrahmaṇyaṣoḍaśanāmastotram
śāstādaśakam

Read next

More on हरिहरात्मजाष्टकम्

  • हरिहरात्मजाष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms