Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

subrahmaṇyaṣoḍaśanāmastotram

सुब्रह्मण्यषोडशनामस्तोत्रम्

Verse

सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगं सदा । अभीप्सितार्थ-सिद्‌ध्यर्थं प्रवक्ष्ये नामषोडशम् ॥१॥

Verse

प्रथमो ज्ञानशक्त्यात्मा द्वितीयो स्कन्द एव च । अग्निभूश्च तृतीयः स्याद् बाहुलेयश्चतुर्थकः ॥२॥

Verse

गाङ्गेयः पञ्चमो विद्यात् षष्ठः शरवणोद्भवः । सप्तमः कार्त्तिकेयः स्यात् कुमारः स्यादथाष्टकः ॥३॥

Verse

नवमः षण्मुखश्चैव दशमः कुक्कुटध्वजः । एकादशः शक्तिधरो गुहो द्वादश एव च ॥४॥

Verse

त्रयोदशो ब्रह्मचारी षाण्मातुरश्चतुर्दशः । क्रौञ्चभित् पञ्चदशकः षोडशः शिखिवाहनः ॥५॥

Verse

एतट्षोडशनामानि जपेत् सम्यक् सदादरम् । विवाहे दुर्गमे मार्गे दुर्जये च तथैव च ॥६॥

Verse

कवित्वे च महाशस्त्रे विज्ञानार्थी फलं लभेत् । कन्यार्थी लभते कन्यां जयार्थी लभते जयम् ॥७॥

Verse

पुत्रार्थी पुत्रलाभं च धनार्थी लभते धनम् । आयुरारोग्यवश्यश्च धनधान्य-सुखावहम् ॥८॥

Verse

॥इति श्री-शङ्करसंहितायां शिवरहस्यखण्डे श्री-सुब्रह्मण्यषोडशनामस्तोत्रं सम्पूर्णम्॥

prajñāvivardhana-kārttikeya-stotram
hariharātmajāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms