Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

prajñāvivardhana-kārttikeya-stotram

प्रज्ञाविवर्धन-कार्त्तिकेय-स्तोत्रम्

Verse

योगीश्वरो महासेनः कार्त्तिकेयोऽग्निनन्दनः । स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः ॥१॥

Verse

गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः । तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ॥२॥

Verse

शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः । सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥३॥

Verse

शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् । सर्वागमप्रणेता च वाञ्छितार्थप्रदायकः ॥४॥

Verse

अष्टाविंशतिनामानि मदीयानीति यः पठेत् । प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥५॥

Verse

महामन्त्रमयानीति मम नामानुकीर्तनम् । महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥६॥

Verse

पुष्यनक्षत्रम् आरभ्य दशवारं पठेन्नरः । पुष्यनक्षत्र-पर्यन्तेऽश्वत्थमूले दिने दिने । पुरश्चरण-मात्रेण सर्वपापैः प्रमुच्यते ॥७॥

Verse

॥इति श्री-रुद्रयामलरहस्ये प्रज्ञाविवर्धन-कार्त्तिकेय-स्तोत्रं सम्पूर्णम्॥

subrahmaṇyapañcaratnam
subrahmaṇyaṣoḍaśanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms