Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

subrahmaṇyapañcaratnam

सुब्रह्मण्यपञ्चरत्नम्

Verse

षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् । रुद्रस्य सूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥१॥

Verse

जाज्वल्यमानं सुरवृन्दवन्द्यं कुमार-धारातट-मन्दिरस्थम् । कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥२॥

Verse

द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसीदधानम् । शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥३॥

Verse

सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् । सुधार-शक्त्यायुध-शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥४॥

Verse

इष्टार्थसिद्धिप्रदमीशपुत्रं मिष्टान्नदं भूसुरकामधेनुम् । गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥५॥

Verse

यः श्लोकपञ्चकमिदं पठतीह भक्त्या ब्रह्मण्यदेव-विनिवेशित-मानसः सन् । प्राप्नोति भोगमखिलं भुवि यद्यदिष्टम् अन्ते स गच्छति मुदा गुहसाम्यमेव ॥

Verse

॥इति श्री-सुब्रह्मण्यपञ्चरत्नं सम्पूर्णम्॥

guhapañcaratnam
prajñāvivardhana-kārttikeya-stotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms