stotrasangraha
guhapañcaratnam
गुहपञ्चरत्नम्
Verse
ओङ्कारनगरस्थं तं निगमान्तवनेश्वरम् । नित्यमेकं शिवं शान्तं वन्दे गुहमुमासुतम् ॥१॥
Verse
वाचामगोचरं स्कन्दं चिदुद्यानविहारिणम् । गुरुमूर्तिं महेशानं वन्दे गुहमुमासुतम् ॥२॥
Verse
सच्चिदनन्दरूपेशं संसारध्वान्तदीपकम् । सुब्रह्मण्यमनाद्यन्तं वन्दे गुहमुमासुतम् ॥३॥
Verse
स्वामिनाथं दयासिन्धुं भवाब्धेस्तारकं प्रभुम् । निष्कलङ्कं गुणातीतं वन्दे गुहमुमासुतम् ॥४॥
Verse
निराकारं निराधारं निर्विकारं निरामयम् । निर्द्वन्द्वं च निरालम्बं वन्दे गुहमुमासुतम् ॥५॥
Verse
॥इति श्री-गुहपञ्चरत्नं सम्पूर्णम्॥
