aSTakam
hariharātmajāṣṭakam
हरिहरात्मजाष्टकम्
Verse
हरिवरासनं विश्वमोहनम् हरिदटीश्वरम् आराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनम् हरिहरात्मजं देवमाश्रये ॥१॥
Verse
चरणकीर्तनं भक्तमानसम् भरणलोलुपं नर्तनालसम् । अरुणभासुरं भूतनायकम् हरिहरात्मजं देवमाश्रये ॥२॥
Verse
प्रणयसत्यकं प्राणनयकम् प्रणतकल्पकं सुप्रभञ्चितम् । प्रणवमन्दिरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥३॥
Verse
तुरगवहनं सुन्दराननम् वरगदायुधं वेदवर्णितम् । गुरुकृपाकरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥४॥
Verse
त्रिभुवनार्चितं देवतात्मकम् त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिन्तितप्रदम् हरिहरात्मजं देवमाश्रये ॥५॥
Verse
भवभयापहं भावुकावकम् भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणम् हरिहरात्मजं देवमाश्रये ॥६॥
Verse
कलमृदुस्मितं सुन्दराननम् कलभकोमलं गात्रमोहनम् । कलभकेसरीमाजिवाहनम् हरिहरात्मजं देवमाश्रये ॥७॥
Verse
श्रितजनप्रियं चिन्तितप्रदम् श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनोहरं गीतलालसम् हरिहरात्मजं देवमाश्रये ॥८॥
Verse
॥ इति श्री हरिहरात्मजाष्टकम् सम्पूर्णम् ॥
