aSTakam
sudarśanaṣaṭakaṃ
सुदर्शनषटकं
Verse
सर्व कार्य सिद्ध्यर्थे श्री सुदर्शनषटकं ॥
Verse
सहस्रादित्य संकाशं सहस्रवदनं प्रभुम् । सहस्रदं सहस्रारं प्रपद्येहं सुदर्शनम् ॥१॥
Verse
हसंतम् हारकेयुर मुकुटाङ्गद भूषणैः । शोभनैर्भूषिततनुं प्रपद्येहं सुदर्शनम् ॥२॥
Verse
स्राकार सहितं मंत्रं वदतां शत्रु निग्रहम् । सर्वरोग प्रशमनं प्रपद्येहं सुदर्शनम् ॥३॥
Verse
रणत्किङ्किणि जालेन राक्षसघ्नं महात्भुतम् । व्याप्तकेशं विरूपाक्षं प्रपद्येहं सुदर्शनम् ॥४॥
Verse
हूंकार भैरवं भीमं प्रणतार्ति हरं प्रभुम् । सर्वदुष्ट प्रशमनं प्रपद्येहं सुदर्शनम् ॥५॥
Verse
फट्शारान्तमनिर्देश्यं दिव्यमंत्रेण संयुतम् । शुभं प्रसन्नवदनं प्रपद्येहं सुदर्शनम् ॥६॥
Verse
एतैष्षड्भिः स्तुतो देवः प्रसन्नः श्रीसुदर्शनः । रक्षां करोतु सर्वात्मा सर्वत्र विजयीभवेत् ॥७॥
