Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

śāstādaśakam

शास्तादशकम्

Verse

लोकवीरं महापूज्यं सर्वरक्षकरं विभुम् । पार्वती-हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥१॥

Verse

विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोर्प्रियं सुतम् । क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥२॥

Verse

मतमातङ्गगमनं कारुण्यामृतपूरितम् । सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥३॥

Verse

अस्मद्कुलेश्वरं देवम् अस्मच्छत्रुविनाशकम् । अस्मदिष्टप्रददरं शास्तारं प्रणमाम्यहम् ॥४॥

Verse

पाण्ड्येशवंशतिलकं केरळे केलिविग्रहम् । आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥५॥

Verse

त्र्यम्बकपुरादीशं गणाधिपसमन्वितम् । गजारूढमहं वन्दे शास्तारं प्रणमाम्यहम् ॥६॥

Verse

शिववीर्यसमुद्भूतं श्रीनिवासतनूद्भवम् । शिखिवाहानुजं वन्दे शास्तारं प्रणमाम्यहम् ॥७॥

Verse

यस्य धन्वन्तरिर्माता पिता देवो महेश्वरः । तं शास्तारमहं वन्दे महारोगनिवारणम् ॥८॥

Verse

भूतनाथ सदानन्द सर्वभूतदयापर । रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः ॥९॥

Verse

आश्यामकोमलविशालतनुं विचित्रं वसोऽवसान अरुणोत्फलदामहस्तम् । उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये ॥१०॥

Verse

॥इति श्री-शास्तादशकं सम्पूर्णम्॥

hariharātmajāṣṭakam
navagrahastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms