stotrasangraha
aṅgārakastotram
अङ्गारकस्तोत्रम्
Verse
अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः । कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥१॥
Verse
ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः । विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥२॥
Verse
सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥३॥
Verse
रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः । नामान्येतानि भौमस्य यः पठेत् सततं नरः ॥४॥
Verse
ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति । धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् । वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः ॥५॥
Verse
योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः । सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥६॥
Verse
॥इति श्री-स्कान्दपुराणे श्री-अङ्गारकस्तोत्रं सम्पूर्णम्॥
