Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

budhapañcaviṃśatināmastotram

बुधपञ्चविंशतिनामस्तोत्रम्

Verse

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः । प्रियङ्गुकलिकाश्यामः कञ्जनेत्रो मनोहरः ॥१॥

Verse

ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः । विरुद्धकार्यहन्ता च सौम्यो बुद्धिविवर्धनः ॥२॥

Verse

चन्द्रात्मजो विष्णुरूपी ज्ञानिज्ञो ज्ञानिनायकः । ग्रहपीडाहरो दारपुत्रधान्यपशुप्रदः ॥३॥

Verse

लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः । पञ्चविंशतिनामानि बुधस्यैतानि यः पठेत् ॥४॥

Verse

स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति । तद्दिने वा पठेद् यस्तु लभते स मनोगतम् ॥५॥

Verse

॥इति श्री-पद्मपुराणे श्री-बुधपञ्चविंशतिनामस्तोत्रं सम्पूर्णम्॥

aṅgārakastotram
bṛhaspatistotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms