stotrasangraha
bṛhaspatistotram
बृहस्पतिस्तोत्रम्
Verse
गुरुर्बृहस्पतिर्जीवः सुराचार्यो विदां वरः । वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥१॥
Verse
सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः । दयाकरः सौम्यमूर्तिः सुरार्च्यः कुड्मलद्युतिः ॥२॥
Verse
लोकपूज्यो लोकगुरुर्नीतिज्ञो नीतिकारकः । तारापतिश्चाङ्गिरसो वेदवेद्यः पितामहः ॥३॥
Verse
भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् । अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥४॥
Verse
जीवेद् वर्षशतं मर्त्यः पापं नश्यति नश्यति । यः पूजयेद्गुरुदिने पीतगन्धाक्षताम्बरैः ॥५॥
Verse
पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् । ब्राह्मणान् भोजयित्वा च पीडाशान्तिर्भवेद् गुरोः ॥६॥
Verse
॥इति श्रीस्कान्दपुराणे श्री-बृहस्पतिस्तोत्रं सम्पूर्णम्॥
