Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

śukracaturviṃśatināmastotram

शुक्रचतुर्विंशतिनामस्तोत्रम्

Verse

शृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् । रहस्यं सर्वभूतानां शुक्रप्रीतिकरं शुभम्॥ १ ॥१॥

Verse

येषां सङ्कीर्तनान्नित्यं सर्वान् कामानवाप्नुयात् । तानि शुक्रस्य नामानि कथयामि शुभानि च ॥२॥

Verse

शुक्रः शुभग्रहः श्रीमान् वर्षकृद् वर्षविघ्नकृत् । तेजोनिधिर्ज्ञानदाता योगी योगविदां वरः ॥३॥

Verse

दैत्यसञ्जीवनो धीरो दैत्यनेतोशना कविः । नीतिकर्ता ग्रहाधीशो विश्वात्मा लोकपूजितः ॥४॥

Verse

शुक्लमाल्याम्बरधरः श्रीचन्दनसमप्रभः । अक्षमालाधरः काव्यः तपोमूर्तिर्धनप्रदः ॥५॥

Verse

चतुर्विंशतिनामानि अष्टोत्तरशतं यथा । देवस्याग्रे विशेषेण पूजां कृत्वा विधानतः ॥६॥

Verse

य इदं पठति स्तोत्रं भार्गवस्य महात्मनः । विषमस्थोऽपि भगवान् तुष्टः स्यान्नात्र संशयः ॥७॥

Verse

स्तोत्रं भृगोरिदमनन्तगुणप्रदं यो भक्त्या पठेच्च मनुजो नियतः शुचिः सन् । प्राप्नोति नित्यमतुलां श्रियमीप्सितार्थान् राज्यं समस्तधनधान्ययुतां समृद्धिम् ॥८॥

Verse

॥इति श्री-स्कान्दपुराणे श्री-शुक्रचतुर्विंशतिनामस्तोत्रं सम्पूर्णम्॥

bṛhaspatistotram
daśarathakṛta śanaiścarāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms