sahasranAma
sudarśana sahasranāma stotram
सुदर्शन सहस्रनाम स्तोत्रम्
Verse
श्री गणेशाय अथनमः ॥
Verse
श्री सुदर्शन परब्रह्मणे नमः ॥
Verse
श्री सुदर्शन सहस्रनाम स्तोत्रम् ॥
Verse
कैलास शिखरे रम्ये मुक्तामाणिक्य मण्डपे । रक्तसिंहासनासीनं प्रमथैः परिवारितम् ॥१॥
Verse
बद्धाञ्जलिपुटा भूत्वा पप्रच्छ विनयान्विता । भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ॥२॥
Verse
पार्वती यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् । सौदर्शनं रुते शास्त्रं नास्तिचान्यदिति प्रभो ॥३॥
Verse
तत्र काचित् विवक्षास्थि तमर्थं प्रति मे प्रभो । एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाच ताम् ॥४॥
Verse
अहिर्बुद्ध्न्य संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने । इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ॥५॥
Verse
पुनः प्रोवाच सर्वज्ञं ज्ञानमुद्राधरं पतिम् ॥
Verse
पार्वत्युवाच लोके सौदर्शनं मन्त्रं यन्त्रंतत्तत् प्रयोगवत् ॥६॥
Verse
सर्वं विज्ञातुमभ्यत्र यथावत् समनुष्ठितुम् । अतिवेलमशक्तानां तं मार्गं भृशमीछ्ताम् ॥७॥
Verse
को मार्गः का कथिस्तेषाम् कार्यसिद्धिः कथं भवेत् । एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेतमुम् ॥८॥
Verse
ईश्वर उवाच अहं ते कथयिश्यामि सर्व सिद्धिकरं शुभम् । अनायासेन यज्जप्त्वा नरस्सिद्धिमवाप्नुयात् ॥९॥
Verse
तश्च सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् । नियमात् पठतां नॄणां चिन्तितार्थ प्रदायकम् ॥१०॥
Verse
तस्य नामसहस्रस्य सोऽहमेव ऋषिः स्मृतः । छन्दोनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥११॥
Verse
श्रीं बीजं ह्रीं तु शक्तिस्सा क्लीं कीलकमुदाहृतम् । समस्ताभीष्ट सिध्यर्थे विनियोग उदाहृतः ॥१२॥
Verse
शङ्खं चक्रं च चापादि ध्यानमस्य समीरितम् ॥
Verse
ध्यानं शङ्खं चक्रं च चापं परशुमसिमिशुं शूल पाशाङ्कुशाब्जम् बिभ्राणं वज्रखेटौ हल मुसल गदा कुंदमत्युग्र दंष्ट्रम् । ज्वाला केशं त्रिनेत्रं ज्वल दलननिभं हार केयूर भूषम् ध्यायेत् षट्कोण संस्थं सकल रिपुजन प्राण संहारि चक्रम् ॥
Verse
॥
Verse
हरिः ॐ ॥
Verse
श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः । श्रीमदान्त्य हरः श्रीमान् श्रीवत्सकृत लक्षणः ॥१॥
Verse
श्रीनिधिः श्रीवरः स्रग्वी श्रीलक्ष्मी करपूजितः । श्रीरतः श्रीविभुः सिंधुकन्यापतिः अधोक्षजः ॥२॥
Verse
अच्युतश्चाम्बुजग्रीवः सहस्रारः सनातनः । समर्चितो वेदमूर्तिः समतीत सुराग्रजः ॥३॥
Verse
षट्कोण मध्यगो वीरः सर्वगोऽष्टभुजः प्रभुः । चण्डवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥४॥
Verse
शाश्वतः सकलः श्यामः श्यामलः शकटार्थनः । दैत्यारिः शारदस्कन्धः सकटाक्षः शिरीषगः ॥५॥
Verse
शरपारिर्भक्तवश्यः शशाङ्को वामनोव्ययः । वरूथीवारिजः कञ्जलोचनो वसुधादिपः ॥६॥
Verse
वरेण्यो वाहनोऽनन्तः चक्रपाणिर्गदाग्रजः । गभीरो गोलकाधीशो गदापणिस्सुलोचनः ॥७॥
Verse
सहस्राक्षः चतुर्बाहुः शङ्खचक्र गदाधरः । भीषणो भीतिदो भद्रो भीमाभीष्ट फलप्रदः ॥८॥
Verse
भीमार्चितो भीमसेनो भानुवंश प्रकाशकः । प्रह्लादवरदः बाललोचनो लोकपूजितः ॥९॥
Verse
उत्तरामानदो मानी मानवाभीष्ट सिद्धिदः । भक्तपालः पापहारी बलदो दहनध्वजः ॥१०॥
Verse
करीशः कनको दाता कामपाल पुरातनः । अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलादिपः ॥११॥
Verse
क्रूरकर्मा क्रूररूपि क्रूरहारी कुशेशयः । मन्दरो मानिनीकांतो मधुहा माधवप्रियः ॥१२॥
Verse
सुप्रतप्त स्वर्णरूपी बाणासुर भुजांतकृत् । धराधरो दानवारिर्दनुजेन्द्रारि पूजितः ॥१३॥
Verse
भाग्यप्रदो महासत्त्वो विश्वात्मा विगतज्वरः । सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥१४॥
Verse
प्रणतार्तिहरः श्रेष्टः शरण्यः पापनाशनः । पावको वारणाद्रीशो वैकुण्ठो विगतकल्मषः ॥१५॥
Verse
वज्रदंष्ट्रो वज्रनखो वायुरूपी निराश्रयः । निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिपावनः ॥१६॥
Verse
नीरूपो नारदनुतो नकुलाचल वासकृत् । नित्यानन्दो बृहद्भानुः बृहदीशः पुरातनः ॥१७॥
Verse
निधिनामधिपोऽनन्दो नरकार्णव तारकः । अगाधोऽविरलो मर्त्यो ज्वालाकेशः ककार्च्चितः ॥१८॥
Verse
तरुणस्तनुकृत् भक्तः परमः चित्तसम्भवः । चिन्त्यस्सत्वनिधिः साग्रस्चिदानन्दः शिवप्रियः ॥१९॥
Verse
शिन्शुमारश्शतमखः शातकुम्भ निभप्रभः । भोक्तारुणेशो बलवान् बालग्रह निवारकः ॥२०॥
Verse
सर्वारिष्ट प्रशमनो महाभय निवारकः । बन्धुः सुबन्धुः सुप्रीतस्सन्तुष्टस्सुरसन्नुतः ॥२१॥
Verse
बीजकेश्यो बको भानुः अमितार्चिर्पाम्पतिः । सुयज्ञो ज्योतिषश्शांतो विरूपाक्षः सुरेश्वरः ॥२२॥
Verse
वह्निप्राकार संवीतो रक्तगर्भः प्रभाकरः । सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ॥२३॥
Verse
महासुरः शिरच्छेता पाकशासन वंदितः । शतमूर्ति सहस्रारो हिरण्य ज्योतिरव्ययः ॥२४॥
Verse
मण्डली मण्डलाकारः चंद्रसूर्याग्नि लोचनः । प्रभञ्जनः तीक्ष्णधारः प्रशांतः शारदप्रियः ॥२५॥
Verse
भक्तप्रियो बलिहरो लावण्योलक्षणप्रियः । विमलो दुर्लभस्सोम्यस्सुलभो भीमविक्रमः ॥२६॥
Verse
जितमन्युः जितारातिः महाक्षो भृगुपूजितः । तत्त्वरूपः तत्त्ववेदिः सर्वतत्व प्रतिष्ठितः ॥२७॥
Verse
भावज्ञो बंधुजनको दीनबंधुः पुराणवित् । शस्त्रेशो निर्मतो नेता नरो नानासुरप्रियः ॥२८॥
Verse
नाभिचक्रो नतामित्रो नधीश करपूजितः । दमनः कालिकः कर्मी कान्तः कालार्थनः कविः ॥
Verse
२९॥
Verse
वसुंधरो वायुवेगो वराहो वरुणालयः । कमनीयकृतिः कालः कमलासन सेवितः । कृपालुः कपिलः कामी कामितार्थ प्रदायकः ॥३०॥
Verse
धर्मसेतुर्धर्मपालो धर्मी धर्ममयः परः । ज्वालाजिम्हः शिखामौळीः सुरकार्य प्रवर्तकः ॥३१॥
Verse
कलाधरः सुरारिघ्नः कोपहा कालरूपदृक् । दाताऽऽनंदमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ॥३२ । सर्वयज्ञमयो यज्ञो यज्ञभुक् यज्ञभावनः । वह्निध्वजो वह्निसखो वञ्जुळद्रुम मूलकः ॥३३॥
Verse
दक्षहा दानकारी च नरो नारायणप्रियः । दैत्यदण्डधरो दान्तः शुभ्राङ्गः शुभदायकः ॥३४॥
Verse
लोहिताक्षो महारौद्रौ मायारूपधरः खगः । उन्नतो भानुजः साङ्गो महाचक्रः पराक्रमी ॥३५॥
Verse
अग्नीशोऽग्निमयः द्वग्निलोचनोग्नि समप्रभः । अग्निमानग्निरसनो युद्धसेवी रविप्रियः ॥३६॥
Verse
आश्रित घौघ विध्वंसी नित्यानंद प्रदायकः । असुरघ्नो महाबाहूर्भीमकर्मा शुभप्रदः ॥३७॥
Verse
शशांक प्रणवाधारः समस्थाशी विषापहः । तर्को वितर्को विमलो बिलको बादरायणः ॥३८॥
Verse
बदिरग्नस्चक्रवाळः षट्कोणांतर्गतस्शिखीः । दृतधन्वा शोडषाक्षो दीर्घबाहूर्दरीमुखः ॥
Verse
३९॥
Verse
प्रसन्नो वामजनको निम्नो नीतिकरः शुचिः । नरभेदि सिंहरूपी पुराधीशः पुरन्दरः ॥४०॥
Verse
रविस्तुतो यूतपालो युतपारिस्सतांगतिः । हृषिकेशो द्वित्रमूर्तिः द्विरष्टायुदभृत् वरः ॥४१॥
Verse
दिवाकरो निशानाथो दिलीपार्चित विग्रहः । धन्वंतरिस्श्यामळारिर्भक्तशोक विनाशकः ॥४२॥
Verse
रिपुप्राण हरो जेता शूरस्चातुर्य विग्रहः । विधाता सच्चिदानंदस्सर्वदुष्ट निवारकः ॥४३॥
Verse
उल्को महोल्को रक्तोल्कस्सहस्रोल्कस्शतार्चिषः । बुद्धो बौद्धहरो बौद्ध जनमोहो बुधाश्रयः ॥४४ ॥
Verse
पूर्णबोधः पूर्णरूपः पूर्णकामो महाद्युतिः । पूर्णमंत्रः पूर्णगात्रः पूर्णषाड्गुण्य विग्रहः ॥४५॥
Verse
पूर्णनेमिः पूर्ननाभिः पूर्णाशी पूर्णमानसः । पूर्णसारः पूर्णशक्तिः रङ्गसेवि रणप्रियः ॥४६॥
Verse
पूरिताशोऽरिष्टदाति पूर्णार्थः पूर्णभूषणः । पद्मगर्भः पारिजातः परमित्रस्शराकृतिः ॥४७॥
Verse
भूबृत्वपुः पुण्यमूर्ति भूभृतां पतिराशुकः । भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ॥४८॥
Verse
गविष्टो गजमानीशो गमनागमन प्रियः । ब्रह्मचारि बंधुमानी सुप्रतीकस्सुविक्रमः ॥
Verse
४९॥
Verse
शंकराभीष्टदो भव्यः साचिव्यस्सव्यलक्षणः । महाहंसस्सुखकरो नाभाग तनयार्चितः ॥५०॥
Verse
कोटिसूर्यप्रभो दीप्तो विद्युत्कोटि समप्रभः । वज्रकल्पो वज्रसखो वज्रनिर्घात निस्वनः ॥५१॥
Verse
गिरीशो मानदो मान्यो नारायण करालयः । अनिरुद्धः परामर्षी उपेन्द्रः पूर्णविग्रहः ॥५२॥
Verse
आयुधेशस्शतारिघ्नः शमनः शतसैनिकः । सर्वासुर वधोद्युक्तः सूर्य दुर्मान भेदकः ॥५३॥
Verse
राहुविप्लोषकारी च काशीनगर दाहकः । पीयुषांशु परंज्योतिः सम्पूर्ण क्रतुभुक् प्रभुः ॥५४॥
Verse
मान्धातृ वरदस्शुद्धो हरसेव्यस्शचीष्टदः । सहिष्णुर्बलभुक् वीरो लोकभृल्लोकनायकः ॥५५॥
Verse
दुर्वासोमुनि दर्पघ्नो जयतो विजयप्रियः । पुराधीशोऽसुरारातिः गोविन्द करभूषणः ॥५६॥
Verse
रथरूपी रथाधीशः कालचक्र कृपानिधिः । चक्ररूपधरो विष्णुः स्थूलसूक्ष्मश्शिखिप्रभः ॥५७॥
Verse
शरणागत संत्राता वेताळारिर्महाबलः । ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ॥५८॥
Verse
विद्युत् केशो विहारेशः पद्मयोनिः चतुर्भुजः । कामात्मा कामदः कामी कालनेमि शिरोहरः ॥
Verse
५९॥
Verse
शुभ्रस्शुचीस्शुनासीरः शुक्रमित्रः शुभाननः । वृषकायो वृषारातिः वृषभेंद्र सुपूजितः ॥६०॥
Verse
विश्वम्भरो वीतिहोत्रो वीर्यो विश्वजनप्रियः । विश्वकृत् विश्वभो विश्वहर्ता साहसकर्मकृत् ॥६१॥
Verse
बाणबाहूहरो ज्योतिः परात्मा शोकनाशनः । विमलादिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ॥६२॥
Verse
म्लेच्छ प्रहारी दुष्टघ्नः सूर्यमण्डलमध्यगः । दिगम्बरो वृशाद्रीशो विविधायुध रूपकः ॥६३॥
Verse
सत्ववान् सत्यवागीशः सत्यधर्म परायणः । रुद्रप्रीतिकरो रुद्र वरदो रुग्विभेदकः ॥६४॥
Verse
नारायणो नक्रभेदी गजेन्द्र परिमोक्षकः । धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ॥६५॥
Verse
गदामित्रः पृथुभुजो रसातल विभेदकः । तमोवैरी महातेजाः महाराजो महातपाः ॥६६॥
Verse
समस्तारिहरः शांत क्रूरो योगेश्वरेश्वरः । स्थविरस्स्वर्ण वर्णाङ्गः शत्रुसैन्य विनाशकृत् ॥६७॥
Verse
प्राज्ञो विश्वतनुत्राता शृतिस्मृतिमयः कृति । व्यक्ताव्यक्त स्वरूपांसः कालचक्रः कलानिधिः ॥
Verse
६८॥
Verse
महाध्युतिरमेयात्मा वज्रनेमिः प्रभानिधिः । महास्फुलिंग धारार्चिः महायुद्ध कृतच्युतः ॥६९॥
Verse
कृतज्ञस्सहनो वाग्मी ज्वालामाला विभूषणः । चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ॥७०॥
Verse
चातुर्यगमनश्चक्री चातुर्वर्ग प्रदायकः । विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ॥७१॥
Verse
युगकृत् युगपालश्च युगसंधिर्युगांतकृत् । सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ॥७२॥
Verse
त्रिनेत्रस्त्रिजगद्वंध्यः तृणीकृत महासुरः । त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिः त्रिजगत्प्रियः ॥७३॥
Verse
सर्वयंत्रमयो मंत्रस्सर्वशत्रु निबर्हणः । सर्वगस्सर्ववित् सौम्यस्सर्वलोकहितंकरः ॥७४॥
Verse
आदिमूलः सद्गुणाढ्यो वरेण्यस्त्रिगुणात्मकः । ध्यानगम्यः कल्मषघ्नः कलिगर्व प्रभेदकः ॥७५॥
Verse
कमनीय तनुत्राणः कुण्डली मण्डिताननः । सुकुण्ठीकृत चण्डेशः सुसंत्रस्थ षडाननः ॥७६॥
Verse
विषाधीकृत विघ्नेशो विगतानंद नंदिकः । मथित प्रमथव्यूहः प्रणत प्रमदाधिपः ॥
Verse
७७॥
Verse
प्राणभिक्षा प्रदोऽनंतो लोकसाक्षी महास्वनः । मेधावी शाश्वथोऽक्रूरः क्रूरकर्माऽपराजितः ॥७८॥
Verse
अरी दृष्टोऽप्रमेयात्मा सुंदरश्शत्रुतापनः । योग योगीश्वराधीशो भक्ताभीष्ट प्रपूरकः ॥७९॥
Verse
सर्वकामप्रदोऽचिंत्यः शुभाङ्गः कुलवर्धनः । निर्विकारोऽन्तरूपो नरनारायणप्रियः ॥८०॥
Verse
मंत्र यंत्र स्वरूपात्मा परमंत्र प्रभेदकः । भूतवेताळ विध्वंसी चण्ड कूष्माण्ड खण्डनः ॥८१॥
Verse
यक्ष रक्षोगण ध्वंसी महाकृत्या प्रदाहकः । सकलीकृत मारीचः भैरव ग्रह भेदकः ॥८२॥
Verse
चूर्णिकृत महाभूतः कबलीकृत दुर्ग्रहः । सुदुर्ग्रहो जम्भभेदी सूचीमुख निषूदनः ॥८३॥
Verse
वृकोदरबलोद्धर्त्ता पुरंदर बलानुगः । अप्रमेय बलः स्वामी भक्तप्रीति विवर्धनः ॥८४॥
Verse
महाभूतेश्वरश्शूरो नित्यस्शारदविग्रहः । धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकश्शिवः ॥८५॥
Verse
विधूमज्वलनो भानुर्भानुमान् भास्वताम् पतिः । जगन्मोहन पाटीरस्सर्वोपद्रव शोधकः ॥८६॥
Verse
कुलिशाभरणो ज्वालावृतस्सौभाग्य वर्धनः । ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥८७॥
Verse
संतापनो वज्रसारस्सुमेधाऽमृत सागरः । संतान पञ्जरो बाणताटङ्को वज्रमालिकः ॥८८॥
Verse
मेखालग्निशिखो वज्र पञ्जरस्ससुराङ्कुशः । सर्वरोग प्रशमनो गांधर्व विशिखाकृतिः ॥
Verse
८९॥
Verse
प्रमोह मण्डलो भूत ग्रह शृङ्खल कर्मकृत् । कलावृतो महाशङ्खु धारणस्शल्य चंद्रिकः ॥९०॥
Verse
छेदनो धारकस्शल्य क्षूत्रोन्मूलन तत्परः । बन्धनावरणस्शल्य कृन्तनो वज्रकीलकः ॥९१॥
Verse
प्रतीकबंधनो ज्वाला मण्डलस्शस्त्रधारणः । इन्द्राक्षीमालिकः कृत्या दण्डस्चित्तप्रभेदकः ॥९२॥
Verse
ग्रह वागुरिकस्सर्व बन्धनो वज्रभेदकः । लघुसंतान संकल्पो बद्धग्रह विमोचनः ॥९३॥
Verse
मौलिकाञ्चन संधाता विपक्ष मतभेदकः । दिग्बंधन करस्सूची मुखाग्निस्चित्तपातकः ॥९४॥
Verse
चोराग्नि मण्डलाकारः परकङ्काळ मर्दनः । तांत्रीकस्शत्रुवंशघ्नो नानानिगळ मोचनः ॥९५॥
Verse
समस्थलोक सारङ्गः सुमहा विषदूषणः । सुमहा मेरुकोदण्डः सर्व वश्यकरेश्वरः ॥९६॥
Verse
निखिलाकर्षणपटुः सर्व सम्मोह कर्मकृत् । संस्थम्बन करः सर्व भूतोच्चाटन तत्परः ॥९७॥
Verse
अहितामय कारी च द्विषन्मारण कारकः । एकायन गदामित्र विद्वेषण परायणः ॥९८॥
Verse
सर्वार्थ सिद्धिदो दाता विधाता विश्वपालकः । विरूपाक्षो महावक्षाः वरिष्टो माधवप्रियः ॥
Verse
९९॥
Verse
अमित्रकर्शन शांतः प्रशांतः प्रणतार्तिहा । रमणीयो रणोत्साहो रक्ताक्षो रणपण्डितः ॥१००॥
Verse
रणांतकृत् रताकारः रताङ्गो रविपूजितः । वीरहा विविधाकारः वरुणाराधितो वशीः । सर्व शत्रु वधाकाङ्क्षी शक्तिमान् भक्तमानदः ॥१०१॥
Verse
सर्वलोकधरः पुण्यः पुरुषः पुरुषोत्तमः । पुराणः पुण्डरीकाक्षः परमर्म प्रभेदकः ॥१०२॥
Verse
वीरासनगतो वर्मी सर्वाधारो निरङ्कुशः । जगत्_रक्षो जगन्मूर्तिः जगदानंद वर्धनः ॥१०३॥
Verse
शारदः शकटारातिः शङ्करस्शकटाकृतिः । विरक्तो रक्तवर्णाढ्यो रामसायक रूपदृत् ॥१०४॥
Verse
महावराह् दंष्ट्रात्मा नृसिंह नगरात्मकः । समदृङ्मोक्षदो वंध्यो विहारी वीतकल्मषः ॥१०५॥
Verse
गम्भीरो गर्भगो गोप्ता गभस्तिर्गुह्यगोगुरुः । श्रीधरः श्रीरतस्श्रांतः शत्रुघ्नस्शृतिगोचरः ॥१०६॥
Verse
पुराणो विततो वीरः पवित्रस्चरणाह्वयः । महाधीरो महावीर्यो महाबल पराक्रमः ॥१०७॥
Verse
सुविग्रहो विग्रहघ्नः सुमानी मानदायकः । मायी मायापहो मंत्री मान्यो मानविवर्धनः ॥१०८॥
Verse
शत्रुसंहारकस्शूरः शुक्रारिश्शङ्करार्चितः । सर्वाधारः परंज्योतिः प्राणः प्राणभृतच्युतः ॥१०९॥
Verse
चंद्रधामाऽप्रतिद्वंदः परमात्मा सुदुर्गमः । विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥११०॥
Verse
समस्थ जगदाधारो विजेता विक्रमः क्रमः । आदिदेवो ध्रुवो दृश्यः सात्त्विकः प्रीतिवर्धनः ॥१११॥
Verse
सर्वलोकाश्रयस्सेव्यः सर्वात्मा वंशवर्धनः । दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥११२॥
Verse
सद्गतिस्सत्वसम्पन्नः नित्यसंकल्प कल्पकः । वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥११३॥
Verse
अंतरिक्षगतिः कल्यः कलिकालुष्य मोचनः । सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥११४॥
Verse
शितधारस्शिखि रौद्रो भद्रो रुद्रसुपूजितः । दरिमुखाग्निजम्भघ्नो वीरहा वासवप्रियः ॥११५॥
Verse
दुस्तरस्सुदुरारोहो दुर्ज्ञेयो दुष्टनिग्रहः । भूतावासो भूतहंता भूतेशो भूतभावनः ॥११६॥
Verse
भावज्ञो भवरोगघ्नो मनोवेगी महाभुजः । सर्वदेवमयः कांतः स्मृतिमान् सर्वपावनः ॥११७॥
Verse
नीतिमन् सर्वजित् सौम्यो महर्षीरपराजितः । रुद्राम्बरीष वरदो जितमायः पुरातनः ॥११८॥
Verse
अध्यात्म निलयो भोक्ता सम्पूर्णस्सर्वकामदः । सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥११९॥
Verse
निरञ्जनो जितभ्रांशुः अग्निगर्भोऽग्नि गोचरः । सर्वजित् सम्भवो विष्णुः पूज्यो मंत्रवितक्रियः ॥१२०॥
Verse
शतावर्त्तः कलानाथः कालः कालमयो हरिः । अरूपो रूपसम्पन्नो विश्वरूपो विरूपकृत् ॥१२१॥
Verse
स्वाम्यात्मा समरश्लाघी सुव्रतो विजयांवितः । चण्ड्घ्नस्चण्डकिरणः चतुरस्चारणप्रियः ॥१२२॥
Verse
पुण्यकीर्तिः परामर्षी नृसिंहो नाभिमध्यगः । यज्ञात्म यज्ञसंकल्पो यज्ञकेतुर्महेश्वरः ॥१२३॥
Verse
जितारिर्यज्ञनिलयश्शरण्यश्शकटाकृतिः । उत्त्मोऽनुत्त्मोनङ्गस्साङ्गस्सर्वाङ्ग शोभनः ॥१२४॥
Verse
कालाग्निः कालनेमिघ्नः कामि कारुण्यसागरः । रमानंदकरो रामो रजनीशांतरस्थितः ॥१२५॥
Verse
संवर्धन समरांवेषी द्विषत्प्राण परिग्रहः । महाभिमानी संधाता सर्वाधीशो महागुरुः ॥१२६ सिद्धः सर्वजगद्योनिः सिद्धार्थस्सर्वसिद्धिदः । चतुर्वेदमयश्शास्था सर्वशास्त्र विशारदः ॥१२७ ॥
Verse
तिरस्कृतार्क तेजस्को भास्कराराधितश्शुभः । व्यापी विश्वम्भरो व्यग्रः स्वयंज्योतिरनंतकृत् ॥१२८॥
Verse
जयशीलो जयाकांक्षी जातवेदो जयप्रदः । कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥१२९॥
Verse
कुङ्कुमारुण सर्वाङ्ग कमलाक्षः कवीश्वरः । सुविक्रमो निष्कळङ्को विश्वक्सेनो विहारकृत् ॥१३०॥
Verse
कदम्बासुर विध्वंसी केतनग्रह दाहकः । जुगुप्साग्नस्तीक्ष्णधारो वैकुण्ठ भुजवासकृत् ॥१३१॥
Verse
सारज्ञः करुणामूर्तिः वैष्णवो विष्णुभक्तिदः । सुक्रुतज्ञो महोदारो दुष्कृतघ्नस्सुविग्रहः ॥१३२॥
Verse
सर्वाभीष्ट प्रदोऽन्तो नित्यानंदो गुणाकरः । चक्री कुंदधरः खड्गी परश्वत धरोऽग्निभृत् ॥१३३॥
Verse
दृताङ्कुशो दण्डधरः शक्तिहस्थस्सुशङ्खभ्रुत् । धन्वी दृतमहापाशो हलि मुसलभूषणः ॥१३४॥
Verse
गदायुधधरो वज्री महाशूल लसत्भुजः । समस्तायुध सम्पूर्णस्सुदर्शन महाप्रभुः ॥१३५॥
Verse
॥
Verse
फलशृतिः ॥
Verse
इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् । सर्वसिद्धिकरं सर्व यंत्र मंत्रात्मकं परम् ॥१३६॥
Verse
एतन्नाम सहस्रं तु नित्यं यः पठेत् सुधीः । शृणोति वा श्रावयति तस्य सिद्धिः करस्तिता ॥१३७॥
Verse
दैत्यानां देवशत्रूणां दुर्जयानां महौजसाम् । विनाशार्थमिदं देवि हरो रासाधितं मया ॥१३८॥
Verse
शत्रुसंहारकमिदं सर्वदा जयवर्धनम् । जल शैल महारण्य दुर्गमेषु महापति ॥१३९॥
Verse
भयङ्करेषु शापत्सु सम्प्राप्तेषु महत्सुच । यस्सकृत् पठनं कुर्यात् तस्य नैव भवेत् भयम् ॥१४०॥
Verse
ब्रह्मघ्नश्च पशुघ्नश्च मातापितॄ विनिंदकः । देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥१४१॥
Verse
जप्त्वा सकृतिदं स्तोत्रं मुच्यते सर्वकिल्बिषैः । तिष्ठन् गच्छन् स्वपन् भुञ्जन् जाग्रन्नपि हसन्नपि ॥१४२॥
Verse
सुदर्शन नृसिंहेति यो वदेत्तु सकृन्नरः । स वै न लिप्यते पापैः भुक्तिं मुक्तिं च विंदति ॥१४३॥
Verse
आदयो व्यादयस्सर्वे रोगा रोगादिदेवताः । शीघ्रं नश्यंति ते सर्वे पठनात्तस्य वै नृणाम् ॥१४४॥
Verse
बहूनात्र किमुक्तेन जप्त्वेदं मंत्र पुष्कलम् । यत्र मर्त्यश्चरेत् तत्र रक्षति श्रीसुदर्शनः ॥१४५॥
Verse
इति श्री विहगेश्वर उत्तरखण्डे उमामहेश्वरसंवादे मंत्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रं नाम षोडश प्रकाशः ॥
