Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

śrī-siddhivināyaka-pūjā

श्री-सिद्धिविनायक-पूजा

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे दक्षिणायने वर्ष-ऋतौ (सिंह/कन्या)-भाद्रपद-मासे शुक्लपक्षे चतुर्थ्यां शुभतिथौ [[vasara]] वासरयुक्तायाम् [[nakshatra]] नक्षत्र [[yoga]] नाम योग (वणिजा/भद्रा)-करण युक्तायां च एवं गुण विशेषण विशिष्टायाम् अस्याम् चतुर्थ्यां शुभतिथौ अस्माकं सकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम् धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री-सिद्धिविनायक-प्रसादसिद्ध्यर्थं यथाशक्ति-ध्यानावाहनादिषोडशोपचारैः श्री-सिद्धिविनायक-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

असुनीते पुनरिति ऋचं पठित्वा गर्भाधानादिपञ्चदशसंस्कार सिद्धयर्थं पञ्चदशप्रणवावृत्तीः करिष्ये इति सङ्कल्प्य पञ्चदशवारं प्रणवमावर्त्य तच्चक्षुर्देवहितम् इति मन्त्रेण देवस्याज्येन नेत्रोन्मीलनं कृत्वा पञ्चोपचारैः पूजनं कुर्यात्। आसनविधिं कृत्वा पुरुषसूक्त-न्यासान् विधाय पूजनमारभेत्॥

Verse

करिष्ये गणनाथस्य व्रतं सम्पत्करं शुभम् भक्तानामिष्टवरदं सर्वमङ्गल-कारणम्

Verse

एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् पाशाङ्कुशधरं देवं ध्यायेत् सिद्धिविनायकम्

Verse

दन्ताक्षमाला-परशु-पूर्णमोदक-हस्तकम् मोदकासक्त-शुण्डाग्रम् एकदन्तं विनायकम् अस्मिन् बिम्बे/प्रतिमायां/चित्रपटे श्री-सिद्धिविनायकं ध्यायामि।

Verse

आवाहयामि विघ्नेश सुरराजार्चितेश्वर अनाथनाथ सर्वज्ञ पूजार्थं गणनायक

Verse

स॒हस्र॑शीर्‌षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात् स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम् अस्मिन् बिम्बे/प्रतिमायां/चित्रपटे श्री-सिद्धिविनायकम् आवाहयामि।

Verse

विचित्ररत्नरचितं दिव्यास्तरणसंयुतम् स्वर्णसिंहासनं चारु गृहाण सुरपूजित

Verse

पुरु॑ष ए॒वेदꣳ सर्वम्᳚। यद्भू॒तं यच्च॒ भव्यम्᳚ उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति श्री-सिद्धिविनायकाय नमः, आसनं समर्पयामि।

Verse

सर्वतीर्थसमानीतं पाद्यं गन्धादिसंयुतम् विघ्नराज गृहाणेनदं भगवन् भक्तवत्सल

Verse

ए॒तावा॑नस्य महि॒मा। अतो॒ ज्यायाꣴ॑श्च॒ पूरु॑षः पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑। त्रि॒पाद॑स्या॒मृतं॑ दि॒वि श्री-सिद्धिविनायकाय नमः, पाद्यं समर्पयामि।

Verse

अर्घ्यं च फलसंयुक्तं गन्धपुष्पाक्षतैर्युतम् गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणानिधे

Verse

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः। पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ ततो॒ विश्व॒ङ्व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि श्री-सिद्धिविनायकाय नमः, अर्घ्यं समर्पयामि।

Verse

विनायक नमस्तुभ्यं त्रिदशैरभिवन्दित गङ्गाहृतेन तोयेन शीघ्रमाचमनं कुरु

Verse

तस्मा᳚द्वि॒राड॑जायत। वि॒राजो॒ अधि॒ पूरु॑षः स जा॒तो अत्य॑रिच्यत। प॒श्चाद्भूमि॒मथो॑ पु॒रः श्री-सिद्धिविनायकाय नमः, आचमनीयं समर्पयामि।

Verse

दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम् गृहाण सर्वलोकेश गणनाथ नमोऽस्तु ते

Verse

यत्पुरु॑षेण ह॒विषा᳚। दे॒वा य॒ज्ञमत॑न्वत व॒स॒न्तो अ॑स्याऽऽसी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः श्री-सिद्धिविनायकाय नमः, मधुपर्कं समर्पयामि।

Verse

पयो दधि घृतं चैव शर्करामधुसंयुतम् पञ्चामृतं गृहाणेदं स्नानाय गणनायक

Verse

श्री-सिद्धिविनायकाय नमः, पञ्चामृतस्नानम् समर्पयामि।

Verse

गङ्गादिसर्वतीर्थेभ्य आनीतं तोयमुत्तमम् भक्त्या समर्पितं तुभ्यं स्नानायाभीष्टदायक

Verse

स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम् श्री-सिद्धिविनायकाय नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।

Verse

रक्तवस्त्रयुगं देव दिव्यं काञ्चनसम्भवम् सर्वप्रद गृहाणेदं लम्बोदर हरात्मज

Verse

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑। पुरु॑षं जा॒तम॑ग्र॒तः तेन॑ दे॒वा अय॑जन्त। सा॒ध्या ऋष॑यश्च॒ ये श्री-सिद्धिविनायकाय नमः, वस्त्रं समर्पयामि।

Verse

राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम् गृहाण चारु सर्वज्ञ भक्तानां वरदो भव

Verse

तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। सम्भृ॑तं पृषदा॒ज्यम् प॒शूꣴस्ताꣴश्च॑क्रे वाय॒व्यान्॑। आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये श्री-सिद्धिविनायकाय नमः, यज्ञोपवीतं समर्पयामि।

Verse

उद्यद्भास्करसङ्काशं सन्ध्यावदरुणं प्रभो वीरालङ्करणं दिव्यं सिन्दूरं प्रतिगृह्यताम् श्री-सिद्धिविनायकाय नमः, सिन्दूरं समर्पयामि।

Verse

नानाविधानि दिव्यानि नानारत्नोज्ज्वलानि च भूषणानि गृहाणेश पार्वतीप्रियनन्दन श्री-सिद्धिविनायकाय नमः, आभरणानि समर्पयामि।

Verse

कस्तूरीरोचनाचन्द्रकुङ्कुमैश्च समन्वितम् विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्

Verse

तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। ऋचः॒ सामा॑नि जज्ञिरे छन्दाꣳसि जज्ञिरे॒ तस्मा᳚त्। यजु॒स्तस्मा॑दजायत श्री-सिद्धिविनायकाय नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।

Verse

रक्ताक्षतांश्च देवेश गृहाण द्विरदानन ललाटपटले चन्द्रस्तस्योपरि विधार्यताम् श्री-सिद्धिविनायकाय नमः, अक्षतान् समर्पयामि।

Verse

माल्यादीनि सुगन्धीनि मालत्यादीनि मे प्रभो मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्

Verse

करवीरैर्जातिकुसुमैश्चम्पकैर्बकुलैः शुभैः शतपत्रैश्च कह्लारैरर्चयेद् गणनायकम्

Verse

तस्मा॒दश्वा॑ अजायन्त। ये के चो॑भ॒याद॑तः गावो॑ ह जज्ञिरे॒ तस्मा᳚त्। तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ श्री-सिद्धिविनायकाय नमः, पुष्पाणि समर्पयामि। पुष्पैः पूजयामि।

Verse

१.पार्वतीनन्दनाय नमः — पादौ पूजयामि

Verse

२.गणेशाय नमः — गुल्फौ पूजयामि

Verse

३.जगद्धात्रे नमः — जङ्घे पूजयामि

Verse

४.जगद्वल्लभाय नमः — जानुनी पूजयामि

Verse

५.उमापुत्राय नमः — ऊरू पूजयामि

Verse

६.विकटाय नमः — कटिं पूजयामि

Verse

७.गुहाग्रजाय नमः — गुह्यं पूजयामि

Verse

८.महत्तमाय नमः — मेढ्रं पूजयामि

Verse

९.नाथाय नमः — नाभिं पूजयामि

Verse

१०.उत्तमाय नमः — उदरं पूजयामि

Verse

११.विनायकाय नमः — वक्षः पूजयामि

Verse

१२.पाशच्छिदे नमः — पार्श्वौ पूजयामि

Verse

१३.हेरम्बाय नमः — हृदयं पूजयामि

Verse

१४.कपिलाय नमः — कण्ठं पूजयामि

Verse

१५.स्कन्दाग्रजाय नमः — स्कन्धौ पूजयामि

Verse

१६.हरसुताय नमः — हस्तान् पूजयामि

Verse

१७.ब्रह्मचारिणे नमः — बाहून् पूजयामि

Verse

१८.सुमुखाय नमः — मुखं पूजयामि

Verse

१९.एकदन्ताय नमः — दन्तौ पूजयामि

Verse

२०.विघ्ननेत्रे नमः — नेत्रे पूजयामि

Verse

२१.शूर्पकर्णाय नमः — कर्णौ पूजयामि

Verse

२२.फालचन्द्राय नमः — फालं पूजयामि

Verse

२३.नागाभरणाय नमः — नासिकां पूजयामि

Verse

२४.चिरन्तनाय नमः — चुबुकं पूजयामि

Verse

२५.स्थूलौष्ठाय नमः — ओष्ठौ पूजयामि

Verse

२६.गलन्मदाय नमः — गण्डौ पूजयामि

Verse

२७.कपिलाय नमः — कचान् पूजयामि

Verse

२८.शिवप्रियाय नमः — शिरः पूजयामि

Verse

२९.सर्वमङ्गलासुताय नमः — सर्वाण्यङ्गानि पूजयामि

Verse

१.सुमुखाय नमः — मालती -पत्रं समर्पयामि

Verse

२.उमापुत्राय नमः — माची -पत्रं समर्पयामि

Verse

३.हेरम्बाय नमः — बृहती -पत्रं समर्पयामि

Verse

४.लम्बोदराय नमः — बिल्व -पत्रं समर्पयामि

Verse

५.द्विरदाननाय नमः — दूर्वा -पत्रं समर्पयामि

Verse

६.धूमकेतवे नमः — दुर्धूर -पत्रं समर्पयामि

Verse

७.बृहते नमः — बदरी -पत्रं समर्पयामि

Verse

८.अपवर्गदाय नमः — अपामार्ग -पत्रं समर्पयामि

Verse

९.द्वैमातुराय नमः — तुलसी -पत्रं समर्पयामि

Verse

१०.चिरन्तनाय नमः — चूत -पत्रं समर्पयामि

Verse

११.कपिलाय नमः — करवीर -पत्रं समर्पयामि

Verse

१२.विष्णुस्तुताय नमः — विष्णुक्रान्त -पत्रं समर्पयामि

Verse

१३.अमलाय नमः — आमलकी -पत्रं समर्पयामि

Verse

१४.महते नमः — मरुवक -पत्रं समर्पयामि

Verse

१५.सिन्धूराय नमः — सिन्धूर -पत्रं समर्पयामि

Verse

१६.गजाननाय नमः — जाती -पत्रं समर्पयामि

Verse

१७.गण्डगलन्मदाय नमः — गण्डली -पत्रं समर्पयामि

Verse

१८.शङ्करीप्रियाय नमः — शमी -पत्रं समर्पयामि

Verse

१९.भृङ्गराजत्कटाय नमः — भृङ्गराज -पत्रं समर्पयामि

Verse

२०.अर्जुनदन्ताय नमः — अर्जुन -पत्रं समर्पयामि

Verse

२१.अर्कप्रभाय नमः — अर्क -पत्रं समर्पयामि

Verse

१.पञ्चास्य -गणपतये नमः — पुन्नाग -पुष्पं समर्पयामि

Verse

२.महा -गणपतये नमः — मन्दार -पुष्पं समर्पयामि

Verse

३.धीर -गणपतये नमः — दाडिमी -पुष्पं समर्पयामि

Verse

४.विष्वक्सेन -गणपतये नमः — वकुल -पुष्पं समर्पयामि

Verse

५.आमोद -गणपतये नमः — अमृणाल -पुष्पं समर्पयामि

Verse

६.प्रमथ -गणपतये नमः — पाटली -पुष्पं समर्पयामि

Verse

७.रुद्र -गणपतये नमः — द्रोण -पुष्पं समर्पयामि

Verse

८.विद्या -गणपतये नमः — दुर्धूर -पुष्पं समर्पयामि

Verse

९.विघ्न -गणपतये नमः — चम्पक -पुष्पं समर्पयामि

Verse

१०.दुरित -गणपतये नमः — रसाल -पुष्पं समर्पयामि

Verse

११.कामितार्थ -गणपतये नमः — केतकी -पुष्पं समर्पयामि

Verse

१२.सम्मोह -गणपतये नमः — माधवी -पुष्पं समर्पयामि

Verse

१३.विष्णु -गणपतये नमः — श्यामक -पुष्पं समर्पयामि

Verse

१४.ईश -गणपतये नमः — अर्क -पुष्पं समर्पयामि

Verse

१५.गजास्य -गणपतये नमः — कह्लार -पुष्पं समर्पयामि

Verse

१६.सर्वसिद्धि -गणपतये नमः — सेवन्तिका -पुष्पं समर्पयामि

Verse

१७.वीर -गणपतये नमः — बिल्व -पुष्पं समर्पयामि

Verse

१८.कन्दर्प -गणपतये नमः — करवीर -पुष्पं समर्पयामि

Verse

१९.उच्छिष्ट -गणपतये नमः — कुन्द -पुष्पं समर्पयामि

Verse

२०.ब्रह्म -गणपतये नमः — पारिजात -पुष्पं समर्पयामि

Verse

२१.ज्ञान -गणपतये नमः — जाती -पुष्पं समर्पयामि

Verse

१.गणाधिपाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

२.पाशाङ्कुशधराय नमः — दूर्वायुग्मं समर्पयामि।

Verse

३.आखुवाहनाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

४.विनायकाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

५.ईशपुत्राय नमः — दूर्वायुग्मं समर्पयामि।

Verse

६.सर्वसिद्धि-प्रदाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

७.एकदन्ताय नमः — दूर्वायुग्मं समर्पयामि।

Verse

८.इभवक्त्राय नमः — दूर्वायुग्मं समर्पयामि।

Verse

९.मूषिकवाहनाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

१०.कुमारगुरवे नमः — दूर्वायुग्मं समर्पयामि।

Verse

११.कपिलवर्णाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

१२.ब्रह्मचारिणे नमः — दूर्वायुग्मं समर्पयामि।

Verse

१३.मोदकहस्ताय नमः — दूर्वायुग्मं समर्पयामि।

Verse

१४.सुरश्रेष्ठाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

१५.गजनासिकाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

१६.कपित्थफल-प्रियाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

१७.गजमुखाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

१८.सुप्रसन्नाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

१९.सुराग्रजाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

२०.उमापुत्राय नमः — दूर्वायुग्मं समर्पयामि।

Verse

२१.स्कन्दप्रियाय नमः — दूर्वायुग्मं समर्पयामि।

Verse

Verse

दशाङ्गं गुग्गुलुं धूपं सुगन्धं च मनोहरम् गृहाण सर्वदेवेश उमापुत्र नमोऽस्तु ते

Verse

यत्पुरु॑षं॒ व्य॑दधुः। क॒ति॒धा व्य॑कल्पयन् मुखं॒ किम॑स्य॒ कौ बा॒हू। कावू॒रू पादा॑वुच्येते श्री-सिद्धिविनायकाय नमः, धूपमाघ्रापयामि।

Verse

सर्वज्ञ सर्वलोकेश त्रैलोक्यतिमिरापह गृहाण मङ्गलं दीपं रुद्रप्रिय नमोऽस्तु ते

Verse

ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत्। बा॒हू रा॑ज॒न्यः॑ कृ॒तः ऊ॒रू तद॑स्य॒ यद्वैश्यः॑। प॒द्भ्याꣳ शू॒द्रो अ॑जायत

Verse

उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑। प॒शूꣴश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश॥ मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त्। अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय॥

Verse

श्री-सिद्धिविनायकाय नमः, अलङ्कारदीपं सन्दर्शयामि। दीपानन्तरम् आचमनीयं समर्पयामि।

Verse

ॐ भूर्भुवः॒ सुवः॑। + ब्र॒ह्मणे॒ स्वाहा᳚।

Verse

नानाखाद्यमयं दिव्यं नैवेद्यं ते निवेदितम् मया भक्त्या शिवापुत्र गृहाण गणनायक

Verse

च॒न्द्रमा॒ मन॑सो जा॒तः। चक्षोः॒ सूर्यो॑ अजायत मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑। प्रा॒णाद्वा॒युर॑जायत

Verse

श्री-सिद्धिविनायकाय नमः, ( ) निवेदयामि, अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।

Verse

एलोशीरलवङ्गादिकर्पूरपरिवासितम् प्राशनार्थं कृतं तोयं गृहाण गणनायक मध्ये मध्ये पानीयं समर्पयामि। उत्तरापोशनं मुखप्रक्षालनं च समर्पयामि।

Verse

मलयाचलसम्भूतं कर्पूरेण समन्वितम् करोद्वर्तनकं चारु गृह्यतां जगतः पते करोद्वर्तनम् समर्पयामि।

Verse

बीजपूराम्रपनसखजूरीकदलीफलम् नारिकेलफलं दिव्यं गृहाण गणनायक

Verse

इदं फलं मया देव स्थापितं पुरतस्तव तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि श्री-सिद्धिविनायकाय नमः, फलं समर्पयामि।

Verse

एकविंशतिसङ्ख्याकान् मोदकान् घृतपाचितान् नैवेद्यं सफलं दद्यान्नमस्ते विघ्ननाशिने श्री-सिद्धिविनायकाय नमः, मोदकान् समर्पयामि।

Verse

पूगीफलं महद्दिव्यं नागवल्ल्या दलैर्युतम् कर्पूरैलासमायुक्तं ताम्बूलं प्रतिगृह्यताम्

Verse

नाभ्या॑ आसीद॒न्तरि॑क्षम्। शी॒र्ष्णो द्यौः सम॑वर्तत प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त्। तथा॑ लो॒काꣳ अ॑कल्पयन् श्री-सिद्धिविनायकाय नमः, कर्पूरताम्बूलं समर्पयामि।

Verse

वज्रमाणिक्यवैदूर्यमुक्ताविद्रुममण्डितम् पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम्

Verse

श्री-सिद्धिविनायकाय नमः, भूषणानि समर्पयामि।

Verse

दूर्वायुग्मं गृहीत्वा तु गन्धपुष्पाक्षतैर्युतम् पूजयेत्सिद्धिविघ्नेशं प्रत्येकं पूर्वनामभिः

Verse

गणाधिप नमस्तेऽस्तु उमापुत्राघनाशन एकदन्तेभवक्रेति तथा मूषकवाहन

Verse

विनायकेशपुत्रेति सर्वसिद्धिप्रदायक कुमारगुरवे नित्यं पूजनीयः प्रयत्नतः

Verse

इति दूर्वार्पणम्॥

Verse

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमू‍र्तये॑ नमो॒ नमः॥

Verse

विघ्नेश्वर विशालाक्ष सर्वाभीष्टफलप्रद प्रदक्षिणं करोमि त्वां सर्वान्कामान् प्रयच्छ मे

Verse

चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैव च त्वमेव सर्वतेजांसि आर्तिक्यं प्रतिगृह्यताम्

Verse

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚। आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑। नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ श्री-सिद्धिविनायकाय नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि। कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि। रक्षां धारयामि। पुष्पैः पूजयामि।

Verse

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑। श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते

Verse

यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।

Verse

ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा। ओं᳚ तथ्स॒त्यम्‌। ओं᳚ तथ्सर्वम्᳚‌। ओं᳚ तत्पुरो॒र्नमः॥

Verse

अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु। त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः। त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्‌॥

Verse

यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः॒ परः॑ स म॒हेश्व॑रः श्री-सिद्धिविनायकाय नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।

Verse

नमस्ते विघ्नसंहत्रे नमस्ते ईप्सितप्रद नमस्ते देवदेवेश नमस्ते गणनायक

Verse

विनायकेशपुत्रस्त्वं गजराज सुरोत्तम देहि मे सकलान् कामान् वन्दे सिद्धिविनायक

Verse

स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम् श्री-सिद्धिविनायकाय नमः, नमस्कारान् समर्पयामि।

Verse

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते। यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः श्री-सिद्धिविनायकाय नमः, छत्रचामर-नृत्त-गीत-वाद्यादि समस्तराजोपचारान् समर्पयामि।

Verse

यन्मयाऽऽचरितं देव व्रतमेतत् सुदुर्लभम् गणेश त्वं प्रसन्नः सन् सफलं कुरु सर्वदा

Verse

विनायक गणेशान सर्वदेवनमस्कृत पार्वतीप्रिय विघ्नेश मम विघ्नान्निवारय

Verse

नमो नमो गणेशाय नमस्ते विश्वरूपिणे निर्विघ्नं कुरु मे कामं नमामि त्वां गजानन

Verse

अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदं तं भक्तानाम् एकदन्तमुपास्महे

Verse

विनायक वरं देहि महात्मन् मोदकप्रिय अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा

Verse

प्रार्थनाः समर्पयामि।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-सिद्धिविनायक-प्रीत्यर्थं श्री-सिद्धिविनायक-पूजान्ते क्षीरार्घ्यप्रदानं करिष्ये॥

Verse

अर्घ्यं गृहाण हेरम्ब वरप्रद विनायक गन्धपुष्पाक्षतैर्युक्तं भक्त्या दत्तं मया प्रभो श्री-सिद्धिविनायकाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

नमस्ते भिन्नदन्ताय नमस्ते हरसूनवे इदमर्घ्यं प्रदास्यामि गृहाण गणनायक श्री-सिद्धिविनायकाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

नमस्तुभ्यं गणेशाय नमस्ते विघ्ननायक पुनरर्घ्यं प्रदास्यामि गृहाण गणनायक श्री-सिद्धिविनायकाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

अद्यपूर्वोक्त-एवङ्गुण-विशेषण-विशिष्टायामस्यां चतुर्थ्यां शुभतिथौ श्री-सिद्धिविनायक-पूजा-फलसिद्ध्यर्थं ब्राह्मणपूजाम् उपायन-दानं च करिष्ये॥

Verse

श्री-महागणपति-स्वरूपस्य ब्राह्मणस्य इदमासनम्। गन्धादि-सकलाराधनैः स्वर्चितम्॥

Verse

[अथैकविंशतिं गृह्य मोदकान् घृतपाचितान् स्थापयित्वा गणाध्यक्षसमीपे कुरुनन्दन

Verse

दश विप्राय दातव्याः स्थापयेद् दश आत्मनि एकं गणाधिपे दद्यात् सघृतं मोदकं शुभम्]

Verse

दशानां मोदकानां च फलदक्षिणया युतम् विप्राय फलसिद्धयर्थं वायनं प्रददाम्यहम्

Verse

विनायकस्य प्रतिमां वस्त्रयुग्मेन वेष्टिताम् तुभ्यं सम्प्रददे विप्र प्रीयतां में गजाननः

Verse

गणेशः प्रतिगृह्णाति गणेशो वै ददाति च गणेशस्तारकोभाभ्यां गणेशाय नमो नमः

Verse

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे

Verse

श्री-विनायक-चतुर्थी-पुण्यकाले अस्मिन् मया क्रियमाण-श्री-सिद्धिविनायक-पूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं श्री-सिद्धिविनायक-प्रीतिं कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।

Verse

अनया पूजया श्री-सिद्धिविनायकः प्रीयताम्।

Verse

Verse

Verse

Verse

यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम्

Verse

अनया पूजया श्री-सिद्धिविनायकः प्रीयताम्॥

Verse

कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि

Verse

ॐ तत्सद्ब्रह्मार्पणमस्तु।

śrī-kṛṣṇajanmāṣṭamī-pūjā
śrī-umā-maheśvara-pūjā

Read next

More on श्री-सिद्धिविनायक-पूजा

  • श्री-सङ्कष्टचतुर्थीव्रत-सिद्धिविनायक-पूजाPuja Vidhanam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms