Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

śrī-kṛṣṇajanmāṣṭamī-pūjā

श्री-कृष्णजन्माष्टमी-पूजा

Verse

व्रतपूर्वदिने दन्तधावनपूर्वकं कृतैकभक्तो व्रतदिने कृतनित्यक्रियो देवताः प्रार्थयेत्—

Verse

सूर्यः सोमो यमः कालसन्ध्या भूतान्यहःक्षपा पवनो दिक्पतिर्भूमिराकाशं खेचरा नराः ब्रह्मशासनमास्थाय कल्पन्तामिह सन्निधिम्

Verse

इत्युक्त्वा सफलं पुष्पाक्षतजलपूर्णं ताम्रपात्रमादाय मासपक्षाद्युल्लिख्य अमुकफलकामं पापक्षयकामो वा कृष्णप्रीतये कृष्णजन्माष्टमीव्रतं करिष्ये इति सङ्कल्प्य।

Verse

वासुदेवं समुद्दिश्य सर्वपापप्रशान्तये उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम्

Verse

अद्य कृष्णाष्टमी देवी नभश्चन्द्रं सरोहिणीम् अर्चयित्वोपवासेन भोक्ष्येऽहमपरेऽहनि

Verse

एनसो मोक्षकामोऽस्मि यद्गोविन्दवियोनिजम् तन्मे मुञ्चतु मां त्राहि पतितं शोकसागरे

Verse

आजन्ममरणं यावद् यन्मया दुष्कृतं कृतम् तत्प्रणाशय गोविन्द प्रसीद पुरुषोत्तम

Verse

इत्युक्त्वा पात्रस्थं जलं निक्षिपेत्।

Verse

ततः कदली-स्तम्भ-वासोभि-राम्र-पल्लव-युत-सजल-पूर्ण-कलशेर्दीपैः पुष्प-मालाभिर्युतमगुरु-धूपित-मग्नि-खड्ग-कृष्णच्छाग-रक्षामणि-द्वार-न्यस्त-मुसलादि-युतं मङ्गलोपेतं षष्ठया देव्याधिष्ठितं देवक्याः सूतिकागृहं विधाय तस्य समन्ताद्भित्तिषु कुसुमाञ्जलीन् देवगन्धर्वादीन् खड्ग-चर्मधर-वसुदेव-देवकी-नन्द-यशोदा-गर्ग-गोपी-गोपान्-कंस-नियुक्तान् गो-धेनु-कुञ्जरान्-यमुनां तन्मध्ये कालियमन्यच्च तत्कालीनं गोकुलचरितं यथासम्भवं लिखित्वा सूतिकागृहमध्ये प्रछदपटावृतं मञ्चकं स्थापयित्वा मध्याह्ने नद्यादौ तिलैः स्नात्वा अर्धरात्रे श्रीकृष्णं सपरिवारं सुपूजयेत्॥

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे दक्षिणायने वर्ष-ऋतौ (कर्कटक/सिंह)-श्रावण-मासे कृष्णपक्षे अष्टम्यां शुभतिथौ [[vasara]]-वासरयुक्तायाम् [[nakshatra]]-नक्षत्रयुक्तायां [[yoga]]-योग [[karana]]-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् नवम्यां शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम् धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम् मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्रावण-कृष्ण-जन्माष्टमी-पुण्यकाले देवकी-सहित-श्रीकृष्ण-प्रीत्यर्थं देवकी-सहित-श्रीकृष्ण-प्रसाद-सिध्यर्थं कल्पोक्त-प्रकारेण देवकी-सहित-श्रीकृष्ण-पूजां करिष्ये।

Verse

तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

गायद्भिः किन्नराद्यैः सततपरिवृता वेणुवीणानिनादैः भृङ्गारादर्श-कुन्तप्रवर-कृतकरैः किङ्करैः सेव्यमाना पर्यङ्के स्वास्तृते या मुदिततरमुखी पुत्रिणी सम्यगास्ते सा देवी देवमाता जयति सुवदना देवकी दिव्यरूपा इति देवकीं ध्यात्वा।

Verse

ध्यायामि बालकं सुप्तं मात्रङ्के स्तनपायिनम् श्रीवत्स-वक्षसं शान्तं नीलोत्पल-दलच्छविम् एवं देवक्या सहितं श्रीकृष्णं ध्यात्वा।

Verse

ॐ नमो देव्यै श्रियै नमः इति श्रियं ध्यात्वा, आवाह्य।

Verse

ॐ नमो वसुदेवाय नमः इति देवकीसहितं वसुदेवं ध्यात्वा, आवाह्य।

Verse

ॐ नमो नन्दाय नमः इति यशोदासहितं नन्दं ध्यात्वा, आवाह्य।

Verse

ॐ नमो बलदेवाय नमः इति श्रीकृष्णसहितं बलदेवं ध्यात्वा, आवाह्य।

Verse

ॐ नमश्चण्डिकायै नमः इति चण्डिकां ध्यात्वा आवाह्य।

Verse

ततः श्रीकृष्णपूजां कुर्यात्। ध्यानम्—

Verse

कृष्णं चतुर्भुजं देवं शङ्खचक्रगदाधरम् पीताम्बरयुगोपतं लक्ष्मीयुक्तं विभूषितम्

Verse

लसत्कौस्तुभ-शोभाढ्यं मेघश्यामं सुलोचनम् ध्यायामि पुण्डरीकाक्षं जगदानन्दकारकम् श्रीकृष्णं ध्यायामि।

Verse

स॒हस्र॑शीर्‌षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात् स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम्

Verse

आगच्छ देवदेवेश जगद्योने रमापते बिम्बे चास्मिन्नधिष्ठाने सन्निधेहि कृपां कुरु श्रीकृष्णमावाहयामि।

Verse

पुरु॑ष ए॒वेदꣳ सर्वम्᳚। यद्भू॒तं यच्च॒ भव्यम्᳚ उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति

Verse

देवदेव जगन्नाथ गरुडासनसंस्थित गृहाणासनकं दिव्यं जगद्धातर्नमोऽस्तु ते सपरिवाराय कृष्णाय नमः, आसनं समर्पयामि।

Verse

ए॒तावा॑नस्य महि॒मा। अतो॒ ज्यायाꣴ॑श्च॒ पूरु॑षः पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑। त्रि॒पाद॑स्या॒मृतं॑ दि॒वि

Verse

नानातीर्थाहृतं शुद्धं निर्मलं पुष्पमिश्रितम् पाद्यं गृहाण दैत्यारे विश्वरूप नमोऽस्तु ते सपरिवाराय कृष्णाय नमः, पाद्यं समर्पयामि।

Verse

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः। पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ ततो॒ विश्व॒ङ्व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि

Verse

गन्धपुष्पाक्षतोपेतं फलेन च समन्वितम् अर्घ्यं गृहाण देवेश मया दत्तं हि भक्तितः सपरिवाराय कृष्णाय नमः, अर्घ्यं समर्पयामि।

Verse

तस्मा᳚द्वि॒राड॑जायत। वि॒राजो॒ अधि॒ पूरु॑षः स जा॒तो अत्य॑रिच्यत। प॒श्चाद्भूमि॒मथो॑ पु॒रः

Verse

गङ्गादिसर्वतीर्थेभ्यो मयाऽऽनीतं सुशीतलम् गृहाणाचमनं देव विश्वकाय नमोऽस्तु ते सपरिवाराय कृष्णाय नमः, आचमनीयं समर्पयामि।

Verse

यत्पुरु॑षेण ह॒विषा᳚। दे॒वा य॒ज्ञमत॑न्वत व॒स॒न्तो अ॑स्याऽऽसी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः

Verse

दधि क्षौद्रं घृतं शुद्धं कपिलायाः सुगन्धि यत् सुस्वादु मधुरं शौरे मधुपर्कं गृहाण भोः सपरिवाराय कृष्णाय नमः, मधुपर्कं समर्पयामि। सपरिवाराय कृष्णाय नमः, आचमनीयं समर्पयामि।

Verse

पञ्चामृतेन स्नपनं करिष्यामि सुरोत्तम क्षीरोदधिनिवासाय लक्ष्मीकान्ताय ते नमः सपरिवाराय कृष्णाय नमः, पञ्चामृतस्नानं समर्पयामि।

Verse

स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम्

Verse

मन्दाकिनी गौतमी च यमुना च सरस्वती ताभ्यः स्नानार्थमानीतं गृहाण शिशिरं जलम् सपरिवाराय कृष्णाय नमः, स्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।

Verse

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑। पुरु॑षं जा॒तम॑ग्र॒तः तेन॑ दे॒वा अय॑जन्त। सा॒ध्या ऋष॑यश्च॒ ये

Verse

शुद्ध-जाम्बूनद-प्रख्ये तटिद्भासुर-रोचिषी मयोपपादिते तुभ्यं वाससी च गृहाण भोः सपरिवाराय कृष्णाय नमः, वस्रं समर्पयामि।

Verse

तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। सम्भृ॑तं पृषदा॒ज्यम् प॒शूꣴस्ताꣴश्च॑क्रे वाय॒व्यान्॑। आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये

Verse

दामोदर नमस्तेऽस्तु त्राहि मां भवसागरात् ब्रह्मसूत्रं मया दत्तं गृहाण पुरुषोत्तम सपरिवाराय कृष्णाय नमः, यज्ञोपवीतं समर्पयामि।

Verse

किरीटकुण्डलादीनि काञ्चीवलययुग्मकम् कौस्तुभं वनमालां च भूषणानि भजस्व भोः सपरिवाराय कृष्णाय नमः, आभरणानि समर्पयामि।

Verse

तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। ऋचः॒ सामा॑नि जज्ञिरे छन्दासि जज्ञिरे॒ तस्मा᳚त्। यजु॒स्तस्मा॑दजायत

Verse

मलयाचलसम्भूतं गन्धसारं मनोहरम् हृदयानन्दनं चारु प्रीत्यर्थे प्रतिगृह्यताम् सपरिवाराय कृष्णाय नमः, चन्दनं समर्पयामि।

Verse

तस्मा॒दश्वा॑ अजायन्त। ये के चो॑भ॒याद॑तः गावो॑ ह जज्ञिरे॒ तस्मा᳚त्। तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑

Verse

मालतीचम्पकादीनि यूथिकावकुलानि च तुलसीपत्रमिश्राणि गृहाण सुरसत्तम सपरिवाराय कृष्णाय नमः, पुष्पाणि समर्पयामि।

Verse

१.गोविन्दाय नमः — पादौ पूजयामि

Verse

२.माधवाय नमः — जङ्घे पूजयामि

Verse

३.मधुसूदनाय नमः — कटिं पूजयामि

Verse

४.पद्मनाभाय नमः — नाभिं पूजयामि

Verse

५.हृषीकेशाय नमः — हृदयं पूजयामि

Verse

६.सङ्कर्षणाय नमः — स्तनौ पूजयामि

Verse

७.वामनाय नमः — बाहू पूजयामि

Verse

८.दैत्यसूदनाय नमः — हस्तौ पूजयामि

Verse

९.हरिकेशाय नमः — कण्ठं पूजयामि

Verse

१०.चारुमुखाय नमः — मुखं पूजयामि

Verse

११.त्रिविक्रमाय नमः — नासिकां पूजयामि

Verse

१२.पुण्डरीकाक्षाय नमः — नेत्रे पूजयामि

Verse

१३.नृसिंहाय नमः — श्रोत्रे पूजयामि

Verse

१४.उपेन्द्राय नमः — ललाटं पूजयामि

Verse

१५.हरये नमः — शिरः पूजयामि

Verse

१६.श्रीकृष्णाय नमः — सर्वाणि अङ्गानि पूजयामि

Verse

ॐ केशवाय नमः

Verse

ॐ नारायणाय नमः

Verse

ॐ माधवाय नमः

Verse

ॐ गोविन्दाय नमः

Verse

ॐ विष्णवे नमः

Verse

ॐ मधुसूदनाय नमः

Verse

ॐ त्रिविक्रमाय नमः

Verse

ॐ वामनाय नमः

Verse

ॐ श्रीधराय नमः

Verse

ॐ हृषीकेशाय नमः

Verse

ॐ पद्मनाभाय नमः

Verse

ॐ दामोदराय नमः

Verse

ॐ सङ्कर्षणाय नमः

Verse

ॐ वासुदेवाय नमः

Verse

ॐ प्रद्युम्नाय नमः

Verse

ॐ अनिरुद्धाय नमः

Verse

ॐ पुरुषोत्तमाय नमः

Verse

ॐ अधोक्षजाय नमः

Verse

ॐ नृसिंहाय नमः

Verse

ॐ अच्युताय नमः

Verse

ॐ जनार्दनाय नमः

Verse

ॐ उपेन्द्राय नमः

Verse

ॐ हरये नमः

Verse

ॐ श्रीकृष्णाय नमः

Verse

Verse

यत्पुरु॑षं॒ व्य॑दधुः। क॒ति॒धा व्य॑कल्पयन् मुखं॒ किम॑स्य॒ कौ बा॒हू। कावू॒रू पादा॑वुच्येते

Verse

वनस्पतिरसोद्भूतं कालागरुसमन्वितम् धूपं गृहाण गोविन्द गुणसागर गोपते सपरिवाराय कृष्णाय नमः, धूपमाघ्रापयामि।

Verse

ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत्। बा॒हू रा॑ज॒न्यः॑ कृ॒तः ऊ॒रू तद॑स्य॒ यद्वैश्यः॑। प॒द्भ्याꣳ शू॒द्रो अ॑जायत

Verse

यज्ञेश्वराय देवाय तथा यज्ञोद्भवाय च यज्ञानां पतये नाथ गोविन्दाय नमो नमः

Verse

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया दीपं गृहाण देवेश त्रैलोक्यतिमिरापह सपरिवाराय कृष्णाय नमः, दीपं दर्शयामि।

Verse

ॐ भूर्भुवः॒ सुवः॑। + ब्र॒ह्मणे॒ स्वाहा᳚।

Verse

च॒न्द्रमा॒ मन॑सो जा॒तः। चक्षोः॒ सूर्यो॑ अजायत मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑। प्रा॒णाद्वा॒युर॑जायत

Verse

विश्वेश्वराय विश्वाय तथा विश्वोद्भवाय च विश्वस्य पतये तुभ्यं गोविन्दाय नमो नमः

Verse

शाल्योदनं पायसं च सिताघृतविमिश्रितम् नानापक्वान्नसंयुक्तं नैवेद्यं प्रतिगृह्यताम् सपरिवाराय कृष्णाय नमः, सूपसहितं शाल्योदनं शाकोपदंसं निवेदयामि।

Verse

मध्ये मध्ये अमृतपानीयं समर्पयामि । उत्तरापोशनं समर्पयामि। हस्तप्रक्षालनं समर्पयामि । पादप्रक्षालनं समर्पयामि । गण्डूषं समर्पयामि। हस्तप्रक्षालनं समर्पयामि । आचमनीयं समर्पयामि। सपरिवाराय कृष्णाय नमः, शष्कुली-लवनचिपिट-गुडचिपिट-गुड-शुण्ठी-नवनीतादीनि, जम्बूफल-तिन्त्रिणीफल-प्रभृतीनि नानाफलानि च निवेदयामि।

Verse

नाभ्या॑ आसीद॒न्तरि॑क्षम्। शी॒र्ष्णो द्यौः सम॑वर्तत प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त्। तथा॑ लो॒काꣳ अ॑कल्पयन्

Verse

पूगीफलसमायुक्तं नागवल्ली-दलैर्युतम् कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् सपरिवाराय कृष्णाय नमः, कर्पूरताम्बूलं निवेदयामि।

Verse

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚। आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑। नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚

Verse

नीराजयेत्ततो भक्त्या मङ्गलं समुदीरयन् जय-मङ्गल-निर्घोषैर्देवदेवं समर्चयेत् सपरिवाराय कृष्णाय नमः, कर्पूरनीराजनं दर्शयामि।

Verse

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑। श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते

Verse

यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।

Verse

ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा। ओं᳚ तथ्स॒त्यम्। ओं᳚ तथ्सर्वम्᳚। ओं᳚ तत्पुरो॒र्नमः॥

Verse

अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु। त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः। त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्॥

Verse

सपरिवाराय कृष्णाय नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।

Verse

दत्त्वा पुष्पाञ्जलिं चैव प्रदक्षिणपुरस्सरम् प्रणमेद् दण्डवद्भूमौ भक्तिप्रह्वः पुनः पुनः

Verse

स्तुत्वा नानाविधैः स्तोत्रैः प्रार्थयेत जगत्पतिम् नमस्तुभ्यं जगन्नाथ देवकीतनय प्रभो

Verse

वसुदेवात्मजानन्त यशोदानन्दवर्धन गोविन्द गोकुलाधार गोपीकान्त नमोऽस्तु ते

Verse

सपरिवाराय कृष्णाय नमः, प्रदक्षिणनमस्कारान् समर्पयामि।

Verse

ततो जातकर्मनालच्छेदषष्ठीपूजानामकरणकर्माणि सङ्क्षेपेण कार्याणि।

Verse

ततस्तु दापयेदर्घ्यम् इन्दोरुदयतः शुचिः कृष्णाय प्रथमं दद्याद् देवकीसहिताय च

Verse

नालिकेरेण शुद्धेन दद्यादर्घ्यं विचक्षणः कृष्णाय परया भक्त्या शङ्खे कृत्वा विधानतः

Verse

जातः कंसवधार्थाय भूभारोत्तारणाय च पाण्डवानां हितार्थाय धर्मसंस्थापनाय च

Verse

कौरवाणां विनाशाय दैत्यानां निधनाय च गृहाणार्घ्यं मया दत्तं देवकीजनित प्रभो सपरिवाराय कृष्णाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्। पूजिताभ्यः सर्वाभ्यो देवताभ्यः तत्तन्नाममन्त्रेण अर्घ्यं दद्यात्

Verse

८.ॐ उग्रसेनादि-यादवेभ्यो नमः — इदमर्घ्यम्

Verse

११.ॐ तत्कालप्रसूताभ्यः गोपगोपिकाभ्यो नमः — इदमर्घ्यम्

Verse

इति पृथक्पृथगर्घ्यं दत्त्वा॥

Verse

ततश्चन्द्रोदये रोहिणीयुतं चन्द्रं स्थण्डिले प्रतिमायां वा नाममन्त्रेण सम्पूज्य।

Verse

ततस्तु रोहिणीयुक्तं चन्द्रं सम्पूज्य भक्तितः स्तुत्वा तु स्तोत्रमन्त्रेण चन्द्रायार्घ्यं प्रदापयेत्

Verse

आप्यायस्वेति मन्त्रेण देवसमीपे चन्दनबिम्बे रोहिणीसहितं चन्द्रमावाह्य षोडशोपचारैः सम्पूजयेत्॥ चन्द्रप्रार्थना–

Verse

ज्योत्स्नायाः पतये तुभ्यं ज्योतिषां पतये नमः नमस्ते रोहिणीकान्त सुधावास नमोऽस्तु ते

Verse

नमो मण्डलदीपाय शिरोरत्नाय धूर्जटे कलाभिर्वर्धमानाय नमश्चन्द्राय चारवे इति प्रणमेत्।

Verse

ज्योत्स्नापते नमस्तुभ्यं नमस्ते ज्योतिषां पते नमस्ते रोहिणीकान्त नमस्ते युवमोहन इति स्तुत्वा।

Verse

शङ्खे कृत्वा ततस्तोयं सपुष्पफलचन्दनम् जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत्

Verse

क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव रोहिणीश गृहाणार्घ्यं रमाभ्रातर्मनःपते रोहिणीसहिताय चन्द्राय नमः इदमर्घ्यम् (त्रिः)

Verse

इत्यर्घ्यं दत्त्वा देवकीसहिताय कृष्णाय छत्रचामराद्युपचारं कृत्वा पूजां समाप्य कृष्णावतारघट्टं पठेत्॥

Verse

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते। यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः सपरिवाराय कृष्णाय नमः, छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

Verse

अनघं वामनं शौरिं वैकुण्ठं पुरुषोत्तमम् वासुदेवं हृषीकेशं माधवं मधुसूदनम्

Verse

वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् दामोदरं पद्मनाभं केशवं गरुडध्वजम्

Verse

गोविन्दमच्युतं कृष्णमनन्तमपराजितम् अधोक्षजं जगद्बीजं सर्गस्थित्यन्तकारणम्

Verse

अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम्

Verse

पीताम्बरधरं नित्यं वनमालाविभूषितम् श्रीवत्साङ्कं जगत्सेतुं श्रीकृष्णं श्रीधरं हरिम्

Verse

शरणं त्वां प्रपद्येऽहं सर्वकामार्थसिद्धये प्रणममामि सदा देवं वासुदेवं जगत्पतिम्

Verse

इति मन्त्रैः प्रणम्य॥

Verse

त्राहि मां सर्वलोकेश हरे संसारसागरात् त्राहि मां सर्वपापघ्न दुःखशोकार्णवात्प्रभो सर्वलोकेश्वर त्राहि पतितं मां भवार्णवे

Verse

देवकीनन्दन श्रीश हरे संसारसागरात् त्राहि मां सर्वदुःखघ्न रोगशोकार्णवाद्धरे

Verse

दुर्वृत्तात्त्रायसे विष्णो ये स्मरन्ति सकृत्सकृत् सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात्

Verse

पुष्कराक्ष निमग्नोऽहं मायाव्यज्ञानसागरे त्राहि मां देवदेवेश त्वत्तो नान्योऽस्ति रक्षिता

Verse

यद्बाल्ये यच्च कौमारे यौवने यच्च वार्धके तत्पुण्यं वृद्धिमायातु पापं हर हलायुध इति मन्त्रैः प्रार्थयेत्॥

Verse

ततः स्तोत्रं पठन् पुराणश्रवणादिना जागरं कुर्यात्॥

Verse

द्वितीयेऽह्नि प्रातःकाले स्नानादिनित्यकर्म कृत्वा पूर्ववद् देवं पूजयित्वा ब्राह्मणान् भोजयेत्॥

Verse

तेभ्यः सुवर्णधेनुवस्त्रादि दत्त्वा कृष्णो मे प्रीयतामिति वदेत्॥

Verse

यं देवं देवकी देवी वसुदेवादजीजनत् भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः

Verse

नमस्ते वासुदेवाय गोब्राह्मणहिताय च शान्तिरस्तु शिवं चास्तु इत्युक्त्वा मां विसर्जयेत्

Verse

इति प्रतिमामुद्वास्य तां ब्राह्मणाय दत्त्वा पारणं कृत्वा व्रतं समापयेत्॥

Verse

सर्वस्मै सर्वेश्वराय सर्वेषां पतये सर्वसम्भवाय गोविन्दाय नमो नम इति पारणे॥

Verse

भूताय भूतपतये नम इति समापने मन्त्रः॥

Verse

इति पूजाविधिः॥

Verse

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे

Verse

श्री-कृष्णजन्माष्टमी-पुण्यकाले अस्मिन् मया क्रियमाण-सपरिवार-कृष्णपूजायां यद्देयमुपायनदानं तत्प्रतिनिधित्वेन हिरण्यं सपरिवार-श्री-कृष्ण-प्रीतिं कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।

Verse

अनया पूजया सपरिवार-श्रीकृष्णः प्रीयताम्।

Verse

कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि

Verse

ॐ तत्सद्ब्रह्मार्पणमस्तु।

yajurveda-upākarma
śrī-siddhivināyaka-pūjā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms