pujavidhanam
śrī-umā-maheśvara-pūjā
श्री-उमा-महेश्वर-पूजा
Verse
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Verse
प्राणान् आयम्य।
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे [[ayana]] [[ritu]] -ऋतौ [[masa]] -मासे [[paksha]] पक्षे [[tithi]] शुभतिथौ [[vasara]] -वासरयुक्तायां [[nakshatra]] -नक्षत्र- [[yoga]] -योग- [[karana]] -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् [[tithi]] शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
Verse
यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-उमामहेश्वरपूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
Verse
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)
Verse
Verse
Verse
Verse
Verse
Verse
Verse
मुक्तामालापरीताङ्गं दुकूलपरिवेष्टितम् पञ्चाननमुमाकान्तमनन्तेन्दुरविप्रभम्
Verse
चन्द्रार्धशेखरं नित्यं जटामकुटमण्डितम् त्रिपुण्ड्ररेखाविलसद्भालभागमनामयम्
Verse
भस्मोद्धूलितसर्वाङ्गं रुद्राक्षाभरणान्वितम् मन्दस्मितमुखाम्भोजमाधारं जगतां प्रभुम्
Verse
वेदैरनन्तैरनिशं स्तूयमानमनेकधा वेदात्मकं वेदवेद्यं विष्णुब्रह्मादिवन्दितम्
Verse
विष्णुनेत्रार्चितं भक्तकल्पद्रुममुमापतिम् अप्रतिद्वन्द्वमद्वन्द्वं सर्ववृन्दारकार्चितम्
Verse
सर्वोत्तममनाद्यन्तं सर्वदेवनिषेवितम् ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्
Verse
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं चिदात्मकम् निष्कलं निर्गुणं शान्तं निरवद्यं निरञ्जनम्
Verse
अप्रमेयं जगज्जन्मस्थितिसंहारकारणम् विश्वबाहुं विश्वपादं विश्वाक्षं विश्वशम्भुवम्
Verse
विश्वं नारायणाराध्यमक्षरं परमं पदम् विश्वतः परमं नित्यं विश्वस्येशमनामयम्
Verse
लक्ष्मीसेवितपादाब्जां शचीसेवितपादुकाम् सरस्वत्यादिभिर्नित्यं स्तूयमानपदाम्बुजाम्
Verse
अधरोष्ठाधरीभूतपक्वबिम्बफलामिमाम् मुखकान्तिकलोद्धूतपूर्णचन्द्रां शिवात्मिकाम्
Verse
तिरस्कृतालिमालां तामलकावलिभिः सदा पीनवक्षोजनिर्धूतचक्रवाकवराङ्गनाम्
Verse
नित्यां तिरस्कृताम्भोजनयनां विश्वमातरम् सीमन्तधिक्कृताशेषकामभल्लामहर्निशम्
Verse
भ्रुकुटीनिर्जितानङ्गचापां भक्तजनेष्टदाम् बाहुनालप्रभोद्धतहेमनालां विलासिनीम्
Verse
रोमराजितिरोभूतसम्भ्रमभ्रमरावलिम् नाभिरन्ध्रतिरोभूतघनावर्तोमिवर्तुलाम्
Verse
उत्तमोरुतिरोभूतरम्भास्तम्भां शुभावहाम् पादयुग्मप्रभापूरनिर्जितारुणपङ्कजाम्
Verse
ब्रह्मेन्द्रोपेन्द्रजननीं महेशार्धाङ्गभागिनीम् महेशाश्लिष्टवामाङ्गां वरदाभयदां सदा
Verse
प्रसन्नवदनाम्भोजां स्मितपूर्वाभिभाषिणीम् सर्वशृङ्गारवेषाढ्यां नानाभरणभूषिताम्
Verse
देवैर्वेदैश्च वेदान्तैः स्तूयमानात्मवैभवाम्। ध्यायामि। ॐ उमामहेश्वराभ्यां नमः।
Verse
महादेव कृपासिन्धो विश्ववन्द्यपदाम्बुज आवाहयामि देवेश प्रसीद परमेश्वर
Verse
लक्ष्म्यादिदेववनितापरिषेवितपादुके आवाहयामि देवेशि प्रसीद परमेश्वरि उमामहेश्वरौ इहागच्छतं इह तिष्ठतम्।
Verse
गृहाण सोम विश्वात्मन्नासनं रत्ननिर्मितम् अनन्तासन विश्वेश करुणासागर प्रभो
Verse
उमे सोमसमाश्लिष्टे सोमार्धकृतशेखरे नानारत्नसमाकीर्णमासनं प्रतिगृह्यताम् इदमासनम्। ॐ उमामहेश्वराभ्यां नमः।
Verse
अर्घ्यं गृहाण देवेश सपुष्पं गन्धसंयुतम् शिवानन्तगुणग्राम सर्वाभीष्टप्रदायक
Verse
गृहाणार्घ्यं शिवे नित्यं सर्वावयवशोभिनि शिवप्रिये शिवाकारे नित्यं भक्तवरप्रदे हस्तयोः इदम् अर्घ्यम्। ॐ उमामहेश्वराभ्यां नमः।
Verse
पाद्यं गृहाण गौरीश हेमपात्रस्थितं नवम् गृहाण देवि पाद्यं त्वं वेदवेदान्तसंस्तुते पादयोः इदं पाद्यम्। ॐ उमामहेश्वराभ्यां नमः।
Verse
गृहाणाचमनं शम्भो कल्पितं निर्मल प्रभो निर्मले निर्मलाकारे गृहाणाचमनीयकम् मुखे इदम् आचमनीयम्। ॐ उमामहेश्वराभ्यां नमः।
Verse
मधुपर्कं गृहाणेश सच्चिदानन्दविग्रह मधुपर्कप्रदानेन प्रीतो भव महेश्वर
Verse
मधुपर्कमिदं देवि स्वीकुरु प्रियशङ्करे मधुपर्कप्रदानेन प्रीता भव सुशोभने अयं मधुपर्कः। ॐ उमामहेश्वराभ्यां नमः।
Verse
शिव शम्भोऽमृतस्नानं स्वीकुरुष्व कृपानिधे सर्वतीर्थमयस्वामिन् सर्वपावनपावन
Verse
शिवे पञ्चामृतस्नानं स्वीकृरुष्व शिवप्रिये सृष्टतीर्थोत्तमे शुद्धे तीर्थराजनिषेविते इदं पञ्चामृतस्नानम्। ॐ उमामहेश्वराभ्यां नमः।
Verse
शम्भो शुद्धोदकस्नानं स्वीकुरुष्व सुरोत्तम प्रसीद कृपया भक्तं पाहि मां पार्वतीपते
Verse
शिवे शुद्धोदकस्नानं गृह्यतां मीनलोचने प्रसीद देवि दीनं त्वं पाहि मां शरणागतम् इदं शुद्धोदकस्नानम्। ॐ उमामहेश्वराभ्यां नमः।
Verse
सोत्तरींयं सङ्गृहाण दुकूलमिदमुत्तमम् पाहि पाहि कृपासिन्धो करुणावरुणालय
Verse
सोत्तरीयं गृहाणेदं दुकूलं शङ्करप्रिये प्रसीद पाहि मां दीनमनन्यशरणं शिवे इमे वस्त्रोपवस्त्रे। ॐ उमामहेश्वराभ्यां नमः।
Verse
उपवीतं गृहाणेश शम्भो चन्द्रार्धशेखर गृह्यतामुपवीतं यन्नवतन्तुविनिर्मितम् इमे यज्ञोपवीते। ॐ उमामहेश्वराभ्यां नमः।
Verse
प्रसीद पार्वतीनाथ शरणागतवत्सल गृहाण चन्दनं देवि कस्तूरीकुङ्कुमाञ्चितम्
Verse
देवि देवाधिदेवेशि यथाशक्त्युपकल्पितम् गृहाण चन्दनं देव नानागन्धोपकल्पितम् अयं गन्धः, ॐ उमामहेश्वराभ्यां नमः।
Verse
विश्वाभरण विश्वेश रत्नाभरणभूषित गृहाणाभरणानीश निरीश निगमाश्रय
Verse
विश्वं विश्वात्मिके पाहि विश्वनाथप्रिये सदा गृहाणाभरणान्यम्ब सर्वाभरणभूषिते इदं आभूषणं ॐ उमामहेश्वराभ्यां नमः।
Verse
सर्वप्रिये जगद्वन्द्ये जगदानन्ददे शिवे गृहाण बिल्वपत्राणि पुष्पाणि च महेश्वर इमानि पुष्पाणि। ॐ उमामहेश्वराभ्यां नमः।
Verse
सुगन्धीनि नवानीश सबिल्वकुसुमप्रिय गृहाण बिल्वपत्राणि नूतनानि शिवप्रिये एतानि बिल्वपत्राणि ॐ उमामहेश्वराभ्यां नमः।
Verse
Verse
नागपुन्नागमन्दारमालिकासमलङ्कृते दशाङ्गं गुग्गुलुं धूपं सगोघृतमनुत्तमम्
Verse
गृहाण पार्वतीनाथ घ्राणतर्पणमादरात् दशाङ्गं गुग्गुलुं धूपं सगोघृतमनुत्तमम् अयं धूपः। ॐ उमामहेश्वराभ्यां नमः।
Verse
गृहाण भक्तवरदे लक्ष्मीवाण्यादिसेविते साज्यं त्रिवर्तिविस्फूर्जद्दीपं शिव शिवापते
Verse
गृहाणानन्तसूर्याग्निचन्द्रप्रभ नमोऽस्तु ते साज्यं त्रिवर्तिविस्पूर्जद्दीपमीशानवल्लभे एष दीपः ॐ उमामहेश्वराभ्यां नमः।
Verse
गृहाण चन्द्रसूर्याग्निमण्डलाधिकसुप्रभे शम्भो गोघृतसंयुक्तं परमान्नं मनोहरम्
Verse
सशर्करं गृहाणेश नित्यतृप्त महेश्वर शिवे गोवृतसंयुक्तं परमान्नं मनोहरम् एतानि नानाविध-नैवेद्यानि ॐ उमामहेश्वराभ्यां नमः।
Verse
सशर्करं गृहाणाम्ब परमान्नप्रदायिनि शम्भो गृहाण गन्धाढ्यमिदमाचमनीयकम्
Verse
शुद्धे शुद्धिप्रदे देवि शिववामाङ्गरूपिणि शिवे गृहाण गन्धाढ्यमिदमाचमनीयकम् इदं आचमनीयं ॐ उमामहेश्वराभ्यां नमः।
Verse
नीराजनं गृहाणेश बहुदीपविरजितम् स्वप्रकाश प्रकाशात्मन्प्रकाशितदिगन्तर
Verse
नीराजनं गृहाणाम्ब सूर्यचन्द्राग्निलोचने प्रभापूरित सर्वाङ्गे मङ्गले मङ्गलास्पदे इदं नीराजनं ॐ उमामहेश्वराभ्यां नमः।
Verse
शम्भो गृहाण ताम्बूलमेलाकर्पूरसंयुतम् प्रसीद भगवन् शम्भो सर्वज्ञामितविक्रम
Verse
शिवे गृहाण ताम्बूलमेलाकर्पूरसंयुतम् प्रसीद सस्मिते देवि शिवालिङ्गितविग्रहे इदं ताम्बूलम्। ॐ उमामहेश्वराभ्यां नमः।
Verse
गृहाण परमेशान सरत्ने छत्रचामरे दर्पणं व्यजनं चेश सर्वदुःखविनाशक
Verse
गृहाणेमे सुराराध्ये सरत्ने छत्रचामरे दर्पणं व्यजनं चाद्ये विद्याधारे नमोऽस्तु ते इदं छत्रं, इदं चामरं, इदं व्यजनम्, इदं दर्पणः। ॐ उमामहेश्वराभ्यां नमः।
Verse
प्रदक्षिणनमस्कारान्गृहाण परमेश्वर नर्तनं च महादेव नाट्यप्रिय नमोऽस्तु ते
Verse
प्रदक्षिणनमस्कारान्गृहाण परमेश्वरि नर्तनं च महादेवि शिवनाट्यम्प्रिये शिवे
Verse
अनया पूजया भगवान् उमामहेश्वरः प्रीयताम्॥
Verse
पितामहशिरच्छेदप्रवीणकरपल्लव नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर
Verse
निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि
Verse
शैलराजस्य जामातः शशिरेखावतंसक नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर
Verse
शैलराजात्मजे मातः शातकुम्भनिभप्रभे नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि
Verse
भूतनाथपुराराते भुजङ्गकृतभूषण नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर
Verse
पादप्रणतभक्तानां पारिजातगुणाधिके नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि
Verse
हालास्येश दयामूर्त्ते हालाहललसद्गल नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर
Verse
नितम्बिनि महेशस्य कदम्बवननायिके नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि
Verse
इति श्रीहालास्यमाहात्म्ये सङ्घिलकृतम् उमामहेश्वराष्टकं सम्पूर्णम्।
