pujavidhanam
śrī-sarasvatī-pūjā
श्री-सरस्वती-पूजा
Verse
(मूलम्—पूजा-सङ्ग्रहः (राधाकृष्ण-शास्त्रिणः))
Verse
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Verse
प्राणान् आयम्य।
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे दक्षिणायने वर्ष -ऋतौ (कन्या/तुला)-आश्वयुज -मासे शुक्ल पक्षे नवम्यां शुभतिथौ [[vasara]] -वासरयुक्तायां [[nakshatra]] -नक्षत्र- [[yoga]] -योग- [[karana]] -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् नवम्यां शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
Verse
श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीत्यर्थं महानवमी-पुण्यकाले
Verse
यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
Verse
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)
Verse
Verse
Verse
Verse
Verse
Verse
Verse
सरस्वतीं सत्यवासां सुधांशुसमविग्रहाम् स्फटिकाक्षस्रजं पद्मं पुस्तकं च शुकं करैः
Verse
चतुर्भिर्दधतीं देवीं चन्द्रबिम्ब-समाननाम् वल्लभामखिलार्थानां वल्लकीवादनप्रियाम्
Verse
भारतीं भावये देवीं भाषाणामधिदेवताम् भावितां हृदये सद्भिर्भामिनीं परमेष्ठिनः अस्मिन् पुस्तक-मण्डले दुर्गालक्ष्मी-युक्तां सरस्वतीं ध्यायामि।
Verse
चतुर्भुजां चन्द्रवर्णां चतुराननवल्लभाम् आवाहयामि वाणि त्वामाश्रितार्ति-विनाशिनीम् अस्मिन् पुस्तक-मण्डले दुर्गालक्ष्मी-युक्तां सरस्वतीमावाहयामि।
Verse
आसनं सङ्गृहाणेदमाश्रिते सकलामरैः आदृते सर्वमुनिभिरार्तिदे सुरवैरिणाम् श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, आसनं समर्पयामि।
Verse
पाद्यमाद्यन्तशून्यायै वेद्यायै वेदवादिभिः दास्यामि वाणि वरदे देवराजसमर्चिते श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, पाद्यं समर्पयामि।
Verse
अघहन्त्रि गृहाणेदम् अर्घ्यमष्टाङ्गसंयुतम् अम्बाखिलानां जगताम् अम्बुजासनसुन्दरि श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, अर्घ्यं समर्पयामि।
Verse
आचम्यतां तोयमिदमाश्रितार्थप्रदायिनि आत्मभूवदनावासे आधिहारिणि ते नमः श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, आचमनीयं समर्पयामि।
Verse
मधुपर्कं गृहाणेदं मधुसूदनवन्दिते मन्दस्मिते महादेवि महादेवसमर्चिते श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, मधुपर्कं समर्पयामि।
Verse
पञ्चामृतं गृहाणेदं पञ्चाननसमर्चिते पयोदधिघृतोपेतं पञ्चपातकनाशिनि श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, पञ्चामृतं समर्पयामि।
Verse
नमस्ते हंसवाहिन्यै नमस्ते धातृपत्निके गन्धोदकेन सम्पूर्णं स्नानं च प्रतिगृह्यताम् श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, गन्धोदकस्नानं समर्पयामि।
Verse
साध्वीनामग्रतो गण्ये साधुसङ्घसमादृते सरस्वति नमस्तुभ्यं स्नानं स्वीकुरु सम्प्रति श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
Verse
दुकूलद्वितयं देवि दुरितापहवैभवे विधिप्रिये गृहाणेदं सुधानिधिसमं शिवे श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, वस्त्रं समर्पयामि।
Verse
उपवीतं गृहाणेदमुपमाशून्यवैभवे हिरण्यगर्भमहिषि हिरण्मयगुणैः कृतम् श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, उपवीतं समर्पयामि।
Verse
वर्णरूपे गृहाणेदं स्वर्णवर्यपरिष्कृतम् अर्णवोद्धृतरत्नाढ्यं कर्णभूषादिभूषणम् श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, आभरणानि समर्पयामि।
Verse
विन्यस्तं नेत्रयोः कान्त्यै सौवीराञ्जनमुत्तमम् सङ्गृहाण सुरश्रेष्ठे वागीश्वरि नमोऽस्तु ते श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, नेत्राञ्जनं समर्पयामि। [ ]
Verse
कुङ्कुमाञ्जन-सिन्दूर-कञ्चुकादिकमम्बिके सौभाग्यद्रव्यमखिलं सुरवन्द्ये गृहाण मे श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, सौभाग्यद्रव्यं समर्पयामि।
Verse
अन्धकारिप्रियाराध्ये गन्धमुत्तमसौरभम् गृहाण वाणि वरदे गन्धर्वपरिपूजिते श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, गन्धं समर्पयामि।
Verse
अक्षतांस्त्वं गृहाणेमान् अहतानमरार्चिते अक्षतेऽद्भुतरूपाढ्ये यक्षराजादिवन्दिते श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, अक्षतान् समर्पयामि।
Verse
पुन्नाग-जाती-मल्ल्यादि-पुष्पजातं गृहाण मे पुमर्थदायिनि परे पुस्तकाढ्य-कराम्बुजे श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, पुष्पाणि समर्पयामि।
Verse
१.पावनायै नमः — पादौ पूजयामि
Verse
२.गिरे नमः — गुल्फौ पूजयामि
Verse
३.जगद्वन्द्यायै नमः — जङ्घे पूजयामि
Verse
४.जलजासनायै नमः — जानुनी पूजयामि
Verse
५.उत्तमायै नमः — ऊरू पूजयामि
Verse
६.कमलासनप्रियायै नमः — कटिं पूजयामि
Verse
७.नानाविद्यायै नमः — नाभिं पूजयामि
Verse
८.वाण्यै नमः — वक्षः पूजयामि
Verse
९.कुरङ्गाक्ष्यै नमः — कुचौ पूजयामि
Verse
१०.कलारूपिण्यै नमः — कण्ठं पूजयामि
Verse
११.भाषायै नमः — बाहून् पूजयामि
Verse
१२.चिरन्तनायै नमः — चुबुकं पूजयामि
Verse
१३.मुग्धस्मितायै नमः — मुखं पूजयामि
Verse
१४.लोलेक्षणायै नमः — लोचने पूजयामि
Verse
१५.कलायै नमः — ललाटं पूजयामि
Verse
१६.वर्णरूपायै नमः — कर्णौ पूजयामि
Verse
१७.करुणायै नमः — कचान् पूजयामि
Verse
१८.शिवायै नमः — शिरः पूजयामि
Verse
१९.सरस्वत्यै नमः — सर्वाण्यङ्गानि पूजयामि
Verse
Verse
Verse
Verse
श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, नानाविधपरिमलपत्र-पुष्पाणि समर्पयामि।
Verse
गुग्गुलागरु-कस्तूरी-गोरोचन-समन्वितम् धूपं गृहाण देवेशि भक्तिं त्वय्यचलां कुरु श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, धूपमाघ्रापयामि।
Verse
कामधेनुसमुद्भूत-घृतवर्ति-समन्वितम् दीपं गृहाण कल्याणि कमलासनवल्लभे श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, अलङ्कारदीपं सन्दर्शयामि।
Verse
ॐ भूर्भुवः॒ सुवः॑। + ब्र॒ह्मणे॒ स्वाहा᳚।
Verse
नैवेद्यं षड्रसोपेतं शर्करामधुसंयुतम् पायसान्नं च भारत्यै ददामि प्रतिगृह्यताम्
Verse
अपूपान् विविधान् स्वादून् शालिपिष्टोपपाचितान् मृदुलान् गुडसम्मिश्रान् भक्ष्यादींश्च ददामि ते श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, ( ) निवेदयामि। अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि। मध्ये मध्ये अमृतपानीयं समर्पयामि। नैवेद्यानन्तरम् आचमनीयं समर्पयामि।
Verse
पूगीफल-समायुक्तं नागवल्लीदलैर्युतम् कर्पूरचूर्ण-संयुक्तं ताम्बूलं प्रतिगृह्यताम् श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, कर्पूर-ताम्बूलं समर्पयामि।
Verse
नीराजनं गृहाण त्वं जगदानन्ददायिनि जगत्तिमिरमार्तण्डमण्डले ते नमो नमः श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, कर्पूर-नीराजनं सन्दर्शयामि। कर्पूरनीराजनानन्तरम् आचमनीयं समर्पयामि।
Verse
शारदे लोकमातस्त्वम् आश्रिताभीष्टदायिनि पुष्पाञ्जलिं गृहाण त्वं मया भक्त्या समर्पितम् श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
Verse
यानि कानि च पापानि जन्मान्तरकृतानि च तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे प्रदक्षिणं कृत्वा।
Verse
पाहि पाहि जगद्वन्द्ये नमस्ते भक्तवत्सले नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः
Verse
सरस्वति नमस्तुभ्यं वरदे भक्तवत्सले त्राहि मां नरकाद् घोरात् ब्रह्मपत्नि नमोऽस्तु ते श्री-दुर्गा-लक्ष्मी-युक्तायै सरस्वत्यै नमः, नमस्कारान् समर्पयामि।
Verse
या कुन्देन्दु-तुषारहारधवला या शुभ्रवस्त्रावृता या वीणा-वरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा
Verse
सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी
Verse
पाशाङ्कुशधरा वाणी वीणापुस्तकधारिणी मम वक्त्रे वसेन्नित्यं सन्तुष्टाऽस्तु च सर्वदा
Verse
चतुर्दशसु विद्यासु रमते या सरस्वती सा देवी कृपया मह्यं जिह्वासिद्धिं करोतु च
Verse
प्रार्थनाः समर्पयामि।
Verse
ब्राह्मणपूजा।
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Verse
अद्य-पूर्वोक्त-एवं-गुण-सकल-विशेषेण-विशिष्टायां अस्यां नवम्यां शुभतिथौ श्री-दुर्गा-लक्ष्मी-सरस्वती-देवतामुद्दिश्य अद्य मया अनुष्ठित-श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजान्ते श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीत्यर्थं उपायनदानं करिष्ये।
Verse
श्री-दुर्गा-लक्ष्मी-सरस्वती-स्वरूपस्य ब्राह्मणस्य इदम् आसनम्। इमे गन्धाः। सकलाराधनैः स्वर्चितम्।
Verse
भारती प्रतिगृह्णातु भारतीयं ददाति च भारती तारिका द्वाभ्यां भारत्यै ते नमो नमः
Verse
इदम् उपायनं सदक्षिणाकं सताम्बूलं श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीतिं कामयमानः श्री-दुर्गा-लक्ष्मी-सरस्वती-स्वरूपाय ब्राह्मणाय तुभ्यमहं सम्प्रददे न मम।
Verse
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे
Verse
श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजाकाले अस्मिन् मया क्रियमाण-श्री-दुर्गा-लक्ष्मी-सरस्वती-पूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं श्री-दुर्गा-लक्ष्मी-सरस्वती-प्रीतिं कामयमानः मनसोद्दिष्टाय ब्राह्मणाय तुभ्यमहं सम्प्रददे नमः न मम। अनया पूजया श्री-दुर्गा-लक्ष्मी-सरस्वत्यः प्रीयन्ताम्।
Verse
यस्य स्मृत्या च नामोक्त्या तपः-पूजा-क्रियादिषु न्यूनं सम्पूर्णतां याति सद्यो वन्दे
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि
Verse
सर्वं तत्सद्ब्रह्मार्पणमस्तु।
