pujavidhanam
śrī-saṅkaṣṭacaturthīvrata-siddhivināyaka-pūjā
श्री-सङ्कष्टचतुर्थीव्रत-सिद्धिविनायक-पूजा
Verse
श्रावणकृष्णचतुर्थ्यां सङ्कष्टचतुर्थीव्रतम्। तच्च चन्द्रोदयव्यापिन्यां कार्यम्। श्रावणे बहुले पक्षे चतुर्थ्यां तु विधूदये। गणेशं पूजयित्वा तु चन्द्रायार्घ्यं प्रदापयेत् इति कथायां तत्र व्रतपूजाविधानात्।
Verse
द्विनद्वये तद्व्याप्तौ पूर्वेव। “मातृविद्धा गणेश्वर” इति वचनात्। दिनद्वयेऽव्याप्तौ परैव। हेमाद्रौ चन्द्रोदयाभावे चतुर्थी निशि षट्घटिकाव्याप्ता परैव व्रते। इति।
Verse
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Verse
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे दक्षिणायने वर्ष-ऋतौ ( )-मासे कृष्णपक्षे चतुर्थ्यां शुभतिथौ [[vasara]] वासरयुक्तायाम् [[nakshatra]] नक्षत्र [[yoga]] नाम योग [[karana]]-करण युक्तायां च एवं गुण विशेषण विशिष्टायाम् अस्यां चतुर्थ्यां शुभतिथौ विद्याधनपुत्रपौत्रप्राप्त्यर्थं समस्तरोगमुक्तिकामः श्री-गणेश-प्रीत्यर्थं अस्माकं सकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम् धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री-सिद्धिविनायक-प्रसादसिद्ध्यर्थं यथाशक्ति-ध्यानावाहनादिषोडशोपचारैः श्री-सिद्धिविनायक-पूजां सङ्कष्टचतुर्थीव्रतमहं करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
Verse
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)
Verse
Verse
Verse
Verse
Verse
Verse
Verse
सौवर्णरौप्यताम्रमृन्मयाद्यन्यतमां गणपतिमूर्तिं कृत्वा जलपूर्णं पूर्णपात्रं वस्त्रयुतकुम्भोपरि स्थापयित्वा षोडशोपचारैः पूजयेत्।
Verse
लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम् नानारत्नैः सुवेषाढ्यं प्रसन्नास्यं विचिन्तयेत्
Verse
ध्यायेद्गजाननं देवं तप्तकाञ्चनसुप्रभम् चतुर्बाहुं महाकायं सूर्यकोटिसमप्रभम्
Verse
अस्मिन् बिम्बे/प्रतिमायां/चित्रपटे श्री-सिद्धिविनायकं ध्यायामि।
Verse
आगच्छ त्वं जगन्नाथ सुरासुरनमस्कृत अनाथनाथ सर्वज्ञ विघ्नराज कृपां कुरु
Verse
स॒हस्र॑शीर्षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात् स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम् गजास्याय नमः, अस्मिन् बिम्बे/प्रतिमायां/चित्रपटे गजास्यमावाहयामि।
Verse
गोप्ता त्वं सर्वलोकानामिन्द्रादीनां विशेषतः भक्तदारिद्र्यविच्छेत्ता एकदन्त नमोऽस्तु ते
Verse
पुरु॑ष ए॒वेदꣳ सर्वम्᳚। यद्भू॒तं यच्च॒ भव्यम्᳚ उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति विघ्नराजाय नमः, आसनं समर्पयामि।
Verse
मोदकान्धारयन्हस्ते भक्तानां वरदायक देवदेव नमस्तेऽस्तु भक्तानां फलदो भव
Verse
ए॒तावा॑नस्य महि॒मा। अतो॒ ज्यायाꣴ॑श्च॒ पूरु॑षः पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑। त्रि॒पाद॑स्या॒मृतं॑ दि॒वि लम्बोदराय नमः, पाद्यं समर्पयामि।
Verse
महाकाय महारूप अनन्तफलदो भव देवदेव नमस्तेऽस्तु सर्वेषां पापनाशन
Verse
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः। पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ ततो॒ विश्व॒ङ्व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि शङ्करसूनवे नमः, अर्घ्यं समर्पयामि।
Verse
कुरुष्वाचमनं देव सुरवन्द्य सुवाहन सर्वाघदलनस्वामिन्नीलकण्ठ नमोऽस्तु ते
Verse
तस्मा᳚द्वि॒राड॑जायत। वि॒राजो॒ अधि॒ पूरु॑षः स जा॒तो अत्य॑रिच्यत। प॒श्चाद्भूमि॒मथो॑ पु॒रः उमासुताय नमः, आचमनीयं समर्पयामि।
Verse
स्नानं पञ्चामृतेनैव गृहाण गणनायक अनाथनाथ सर्वज्ञ नमो मूषकवाहन
Verse
पयो-दधि-घृतं चैव शर्करामधुसंयुतम् पञ्चामृतेन स्नपनं प्रीत्यर्थं प्रतिगृह्यताम्
Verse
यत्पुरु॑षेण ह॒विषा᳚। दे॒वा य॒ज्ञमत॑न्वत व॒स॒न्तो अ॑स्याऽऽसी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः वक्रतुण्डाय नमः, पञ्चामृतस्नानम् समर्पयामि।
Verse
गङ्गा च यमुना चैव गोदावरिसरस्वती नर्मदा सिन्धुकावेरी जलं स्नानाय कल्पितम्
Verse
स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम् हेरम्बाय नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
Verse
रक्तवस्त्रसुयुग्मं च देवानामपि दुर्लभम् गृहाण मङ्गलं देव लम्बोदर हरात्मज
Verse
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑। पुरु॑षं जा॒तम॑ग्र॒तः तेन॑ दे॒वा अय॑जन्त। सा॒ध्या ऋष॑यश्च॒ ये शूर्पकर्णाय नमः, वस्त्रं समर्पयामि।
Verse
ब्रह्मसूत्रं सोत्तरीयं गृहाण गणनायक आरक्तं ब्रह्मसूत्रं च कनकस्योत्तरीयकम्
Verse
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। सम्भृ॑तं पृषदा॒ज्यम् प॒शूꣴस्ताꣴश्च॑क्रे वाय॒व्यान्॑। आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये कुब्जाय नमः, यज्ञोपवीतं समर्पयामि।
Verse
उद्यद्भास्करसङ्काशं सन्ध्यावदरुणं प्रभो वीरालङ्करणं दिव्यं सिन्दूरं प्रतिगृह्यताम् श्री-सिद्धिविनायकाय नमः, सिन्दूरं समर्पयामि।
Verse
नानाविधानि दिव्यानि नानारत्नोज्ज्वलानि च भूषणानि गृहाणेश पार्वतीप्रियनन्दन श्री-सिद्धिविनायकाय नमः, आभरणानि समर्पयामि। [ ]
Verse
गृहाणेश्वर सर्वज्ञ दिव्यचन्दनमुत्तमम् करुणाकर गुञ्जाक्ष गौरीसुत नमोऽस्तु ते
Verse
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। ऋचः॒ सामा॑नि जज्ञिरे छन्दाꣳसि जज्ञिरे॒ तस्मा᳚त्। यजु॒स्तस्मा॑दजायत गणेश्वराय नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
Verse
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः मया निवेदिता भक्त्या गृहाण गणनायक श्री-सिद्धिविनायकाय नमः, अक्षतान् समर्पयामि।
Verse
सुगन्धिदिव्यमालां च गृहाण गणनायक विनायक नमस्तुभ्यं शिवसूनो नमोऽस्तु ते [ ]
Verse
माल्यादीनि सुगन्धीनि मालत्यादीनि मे प्रभो मयाऽऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् श्री-सिद्धिविनायकाय नमः, पुष्पमालां समर्पयामि।
Verse
करवीरैर्जातिकुसुमैश्चम्पकैर्बकुलैः शुभैः शतपत्रैश्च कह्लारैरर्चयेद् गणनायकम्
Verse
तस्मा॒दश्वा॑ अजायन्त। ये के चो॑भ॒याद॑तः गावो॑ ह जज्ञिरे॒ तस्मा᳚त्। तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ विघ्ननाशिने नमः, पुष्पाणि समर्पयामि। पुष्पैः पूजयामि।
Verse
विघ्ननाशिने नमः, दूर्वाकुङ्कुमादि समर्पयामि। [अनेनैव नाम्ना दूर्वाकुङ्कुमादि दद्यात्।]
Verse
१.गणेश्वराय नमः — पादौ पूजयामि
Verse
२.विघ्नराजाय नमः — जानुनी पूजयामि
Verse
३.आखुवाहनाय नमः — ऊरू पूजयामि
Verse
४.हेरम्बाय नमः — कटिं पूजयामि
Verse
५.कामारिसूनवे नमः — नाभिं पूजयामि
Verse
६.लम्बोदराय नमः — उदरं पूजयामि
Verse
७.गौरीसुताय नमः — स्तनौ पूजयामि
Verse
८.गणनायकाय नमः — हृदयं पूजयामि
Verse
९.स्थूलकण्ठाय नमः — कण्ठं पूजयामि
Verse
१०.स्कन्दाग्रजाय नमः — स्कन्धौ पूजयामि
Verse
११.पाशहस्ताय नमः — हस्तौ पूजयामि
Verse
१२.गजवक्त्राय नमः — वक्त्रं पूजयामि
Verse
१३.विघ्नहर्त्रे नमः — ललाटं पूजयामि
Verse
१४.सर्वेश्वराय नमः — शिरः पूजयामि
Verse
१५.श्रीगणाधिपाय नमः — सर्वाण्यङ्गानि पूजयामि
Verse
१.गणाधिपाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
२.पाशाङ्कुशधराय नमः — दूर्वायुग्मं समर्पयामि।
Verse
३.आखुवाहनाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
४.विनायकाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
५.ईशपुत्राय नमः — दूर्वायुग्मं समर्पयामि।
Verse
६.सर्वसिद्धि-प्रदाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
७.एकदन्ताय नमः — दूर्वायुग्मं समर्पयामि।
Verse
८.इभवक्त्राय नमः — दूर्वायुग्मं समर्पयामि।
Verse
९.मूषिकवाहनाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
१०.कुमारगुरवे नमः — दूर्वायुग्मं समर्पयामि।
Verse
११.कपिलवर्णाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
१२.ब्रह्मचारिणे नमः — दूर्वायुग्मं समर्पयामि।
Verse
१३.मोदकहस्ताय नमः — दूर्वायुग्मं समर्पयामि।
Verse
१४.सुरश्रेष्ठाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
१५.गजनासिकाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
१६.कपित्थफल-प्रियाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
१७.गजमुखाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
१८.सुप्रसन्नाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
१९.सुराग्रजाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
२०.उमापुत्राय नमः — दूर्वायुग्मं समर्पयामि।
Verse
२१.स्कन्दप्रियाय नमः — दूर्वायुग्मं समर्पयामि।
Verse
Verse
दशाङ्गं गुग्गुलं धूपमुत्तमं गणनायक गृहाण देव देवेश उमासुत नमोऽस्तु ते
Verse
यत्पुरु॑षं॒ व्य॑दधुः। क॒ति॒धा व्य॑कल्पयन् मुखं॒ किम॑स्य॒ कौ बा॒हू। कावू॒रू पादा॑वुच्येते विकटाय नमः, धूपमाघ्रापयामि।
Verse
सर्वज्ञ सर्वरत्नाढ्य सर्वेश विबुधप्रिय गृहाण मङ्गलं दीपं घृतवर्तिसमन्वितम्
Verse
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत्। बा॒हू रा॑ज॒न्यः॑ कृ॒तः ऊ॒रू तद॑स्य॒ यद्वैश्यः॑। प॒द्भ्याꣳ शू॒द्रो अ॑जायत वामनाय नमः, अलङ्कारदीपं सन्दर्शयामि। दीपानन्तरम् आचमनीयं समर्पयामि।
Verse
ॐ भूर्भुवः॒ सुवः॑। + ब्र॒ह्मणे॒ स्वाहा᳚।
Verse
नैवेद्यं गृह्यतां देव नानामोदकसंयुतम् पक्वान्नफलसंयुक्तं षड्रसैश्च समन्वितम्
Verse
च॒न्द्रमा॒ मन॑सो जा॒तः। चक्षोः॒ सूर्यो॑ अजायत मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑। प्रा॒णाद्वा॒युर॑जायत सर्वदेवाय नमः, ( ) निवेदयामि, अमृतापिधानमसि।
Verse
कृष्णावेण्यागौतमीनां पयोष्णीनर्मदाजलैः आचम्यतां विघ्नराज प्रसन्नो भव सर्वदा निवेदनानन्तरम् आचमनीयं समर्पयामि।
Verse
फलान्यमृतकल्पानि सुगन्धीन्यघनाशन आनीतानि यथाशक्त्या गृहाण गणनायक सर्वार्तिनाशिने नमः, फलं समर्पयामि।
Verse
एकविंशतिसङ्ख्याकान् मोदकान् घृतपाचितान् नैवेद्यं सफलं दद्यान्नमस्ते विघ्ननाशिने श्री-सिद्धिविनायकाय नमः, मोदकान् समर्पयामि।
Verse
ताम्बूलं गृह्यतां देव नागवल्ल्या दलैर्युतम् कर्पूरेण समायुक्तं सुगन्धं मुखभूषणम्
Verse
नाभ्या॑ आसीद॒न्तरि॑क्षम्। शी॒र्ष्णो द्यौः सम॑वर्तत प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त्। तथा॑ लो॒काꣳ अ॑कल्पयन् विघ्नहर्त्रे नमः, कर्पूरताम्बूलं समर्पयामि।
Verse
सर्वदेवाधिदेव त्वं सर्वसिद्धिप्रदायक भक्त्या दत्तां मया देव गृहाण दक्षिणां विभो सर्वेश्वराय नमः, दक्षिणां समर्पयामि।
Verse
पञ्चवर्तिसमायुक्तं वह्निना योजितं मया गृहाण मङ्गलं दीपं विघ्नराज नमोऽस्तु ते
Verse
चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैव च त्वमेव सर्वतेजांसि आर्तिक्यं प्रतिगृह्यताम्
Verse
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚। आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑। नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ श्री-सिद्धिविनायकाय नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि। कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि। रक्षां धारयामि। पुष्पैः पूजयामि।
Verse
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑। श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते
Verse
यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।
Verse
ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा। ओं᳚ तथ्स॒त्यम्। ओं᳚ तथ्सर्वम्᳚। ओं᳚ तत्पुरो॒र्नमः॥
Verse
अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु। त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः। त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्॥
Verse
यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः॒ परः॑ स म॒हेश्व॑रः श्री-सिद्धिविनायकाय नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।
Verse
यानि कानि च पापानि जन्मान्तरकृतानि च तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे प्रदक्षिणं कृत्वा।
Verse
नमस्ते विघ्नसंहत्रे नमस्ते ईप्सितप्रद नमस्ते देवदेवेश नमस्ते गणनायक
Verse
विनायकेशपुत्रस्त्वं गजराज सुरोत्तम देहि मे सकलान् कामान् वन्दे सिद्धिविनायक
Verse
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः
Verse
स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम् श्री-सिद्धिविनायकाय नमः, नमस्कारान् समर्पयामि।
Verse
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते। यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः श्री-सिद्धिविनायकाय नमः, छत्रचामर-नृत्त-गीत-वाद्यादि समस्तराजोपचारान् समर्पयामि।
Verse
यन्मयाऽऽचरितं देव व्रतमेतत् सुदुर्लभम् गणेश त्वं प्रसन्नः सन् सफलं कुरु सर्वदा
Verse
विनायक गणेशान सर्वदेवनमस्कृत पार्वतीप्रिय विघ्नेश मम विघ्नान्निवारय
Verse
नमो नमो गणेशाय नमस्ते विश्वरूपिणे निर्विघ्नं कुरु मे कामं नमामि त्वां गजानन
Verse
अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदं तं भक्तानाम् एकदन्तमुपास्महे
Verse
विनायक वरं देहि महात्मन् मोदकप्रिय अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा
Verse
प्रार्थनाः समर्पयामि।
Verse
एवं पूजा प्रकर्तव्या षोडशैरुपचारकैः मोदकान्कारयेन्मातस्तिलजान्दश पार्वति
Verse
देवाग्रे स्थापयेत्पञ्च पञ्च विप्राय कल्पयेत् पूजयित्वा तु तं विप्रं भक्तिभावेन देववत्
Verse
दक्षिणां च यथाशक्त्या दत्त्वा वै पञ्चमोदकान् पूजयेन्निशि चन्द्रं च अर्घ्यं दत्त्वा यथाविधि
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-सिद्धिविनायक-प्रीत्यर्थं श्री-सङ्कष्टचतुर्थीव्रत-पूजान्ते क्षीरार्घ्यप्रदानं करिष्ये॥
Verse
क्षीरसागरसम्भूत सुधारूप निशाकर गृहाणार्घ्यं मया दत्तं गणेशप्रीतिवर्धनम् रोहिणीसहितचन्द्रमसे नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
Verse
क्षीरोदार्णवसम्भूत सुधारूप निशाकर गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् रोहिणीसहितचन्द्रमसे नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
Verse
गणेशाय नमस्तुभ्यं सर्वसिद्धिप्रदायक सङ्कष्टं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते सङ्कष्टहरगणेशाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
Verse
कृष्णपक्षे चतुर्थ्यां तु पूजितोऽसि विधूदये क्षिप्रं प्रसादितो देव गृहाणार्घ्यं नमोऽस्तु ते सङ्कष्टहरगणेशाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
Verse
तिथीनामुत्तमे देवि गणेशप्रियवल्लभे सर्वसङ्कष्टनाशाय चतुर्थ्यर्घ्यं नमोऽस्तु ते चतुर्थ्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।
Verse
अद्यपूर्वोक्त-एवङ्गुण-विशेषण-विशिष्टायामस्यां चतुर्थ्यां शुभतिथौ श्री-सिद्धिविनायक-पूजा-फलसिद्ध्यर्थं ब्राह्मणपूजाम् उपायन-दानं च करिष्ये॥
Verse
श्री-महागणपति-स्वरूपस्य ब्राह्मणस्य इदमासनम्। गन्धादि-सकलाराधनैः स्वर्चितम्॥
Verse
[अथैकविंशतिं गृह्य मोदकान् घृतपाचितान् स्थापयित्वा गणाध्यक्षसमीपे कुरुनन्दन
Verse
दश विप्राय दातव्याः स्थापयेद् दश आत्मनि एकं गणाधिपे दद्यात् सघृतं मोदकं शुभम्]
Verse
विप्रवर्य नमस्तुभ्यं मोदकान्वै ददाम्यहम् मोदकान्सफलान् पञ्च दक्षिणाभिः समन्वितान् आपदुद्धरणार्थाय गृहाण द्विजसत्तम
Verse
अबुद्धमतिरिक्तं वा द्रव्यहीनं मया कृतम् सत्सर्वं पूर्णतां यातु विप्ररूप गणेश्वर
Verse
ब्राह्मणान् भोजयेद् देवि यथान्नेन यथासुखम् स्वयं भुञ्जीत पञ्चैव मोदकान्फलसंयुतान्
Verse
अशक्तश्चैकमन्नं वा भुञ्जीत दधिसंयुतम् अथवा भोजनं कार्यमेकवारं हिमागजे
Verse
प्रतिमां गुरवे दद्यादाचार्याय सदक्षिणाम् वस्त्रकुम्भसमायुक्तामादौ मन्त्रमिमं जपेत्
Verse
ॐ नमो हेरम्ब मदमोहित सङ्कष्टान्निवारय निवारय। इति मूलमन्त्रमेकविंशतिवारं जपेत्।
Verse
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे
Verse
श्री-सङ्कष्टचतुर्थीव्रत-पूजा-पुण्यकाले अस्मिन् मया क्रियमाण-श्री-सिद्धिविनायक-पूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं श्री-सिद्धिविनायक-प्रीतिं कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।
Verse
गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने त्वं गणेश्वर व्रतेनानेन देवेश यथोक्तफलदो भव
Verse
अनया पूजया श्री-सिद्धिविनायकः प्रीयताम्।
Verse
यस्य स्मृत्या च नामोक्त्या तपः-पूजा-क्रियादिषु न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम्
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि
Verse
सर्वं तत्सद्ब्रह्मार्पणमस्तु।
Verse
मुद्गलपुराणान्तर्गत-चतुर्थीव्रत-माहात्म्यानि
Verse
चतुर्थी-तपो-वर्णनम्
Verse
शुक्ल--कृष्ण-चतुर्थी-वरदान-वर्णनम्
Verse
प्रतिपदादिव्रत-वर्णनम्
Verse
दशरथ-व्रतोपदेशः
Verse
चतुर्थीविवेक-वर्णनम्
Verse
चन्द्रदर्शन-दोष-हरण-चरित-वर्णनम्
Verse
भाद्रपद-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
आश्विन-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
कार्तिक-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
मार्गशीर्ष-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
पौष-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
माघ-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
फाल्गुन-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
चैत्र-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
वैशाख-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
ज्येष्ठ-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
आषाढ-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
श्रावण-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
मलमास-शुक्ल-चतुर्थी-माहात्म्य-वर्णनम्
Verse
माघ-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
फाल्गुन-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
चैत्र-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
वैशाख-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
ज्येष्ठ-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
आषाढ-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
श्रावण-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
भाद्रपद-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
आश्विन-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
कार्तिक-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
मार्गशीर्ष-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
पौष-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
मलमास-कृष्ण-चतुर्थी-माहात्म्य-वर्णनम्
Verse
शमी-मूल-चतुर्थी-व्रताचरण-वर्णनम्
Verse
वसिष्ठ-दशरथ-संवाद-समाप्ति-वर्णनम्
Verse
चतुर्थ्युद्यापन-निरूपणम्
