Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

ekādaśīvratam — śrī-mahāviṣṇupūjā

एकादशीव्रतम् — श्री-महाविष्णुपूजा

Verse

(मूलम्—पूजा-विधानम् (“अण्णा”, रामकृष्ण-मठः))

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे [[ayana]] [[ritu]] -ऋतौ [[masa]] -मासे [[paksha]] पक्षे (एकादश्यां / द्वादश्यां) शुभतिथौ [[vasara]] -वासरयुक्तायां [[nakshatra]] -नक्षत्र- [[yoga]] -योग- [[karana]] -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् (एकादश्यां / द्वादश्यां) शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं

Verse

श्री-भूमि-नीला-समेत-श्री-महाविष्णु-प्रीत्यर्थं

Verse

यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-भूमि-नीला-समेत-श्री-महाविष्णु-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

ध्यायेच्चतुर्भुजं देवं शङ्खचक्रगदाधरम् पीताम्बरयुगोपेतं लक्ष्मीयुक्तं विभूषितम् लसत्कौस्तुभशोभाढ्यं मेघश्यामं सुलोचनम् अस्मिन् बिम्बे श्री-भूमि-नीला-समेतं महाविष्णुं ध्यायामि।

Verse

स॒हस्र॑शीर्‌षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात् स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम् अस्मिन् बिम्बे श्री-भूमि-नीला-समेतं महाविष्णुम् आवाहयामि।

Verse

पुरु॑ष ए॒वेदꣳ सर्वम्᳚। यद्भू॒तं यच्च॒ भव्यम्᳚ उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, आसनं समर्पयामि।

Verse

ए॒तावा॑नस्य महि॒मा। अतो॒ ज्यायाꣴ॑श्च॒ पूरु॑षः पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑। त्रि॒पाद॑स्या॒मृतं॑ दि॒वि श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, पाद्यं समर्पयामि।

Verse

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः। पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ ततो॒ विश्व॒ङ्व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, अर्घ्यं समर्पयामि।

Verse

तस्मा᳚द्वि॒राड॑जायत। वि॒राजो॒ अधि॒ पूरु॑षः स जा॒तो अत्य॑रिच्यत। प॒श्चाद्भूमि॒मथो॑ पु॒रः श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, आचमनीयं समर्पयामि।

Verse

यत्पुरु॑षेण ह॒विषा᳚। दे॒वा य॒ज्ञमत॑न्वत व॒स॒न्तो अ॑स्याऽऽसी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, मधुपर्कं समर्पयामि।

Verse

स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम् श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।

Verse

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑। पुरु॑षं जा॒तम॑ग्र॒तः तेन॑ दे॒वा अय॑जन्त। सा॒ध्या ऋष॑यश्च॒ ये श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, वस्त्रं समर्पयामि।

Verse

तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। सम्भृ॑तं पृषदा॒ज्यम् प॒शूꣴस्ताꣴश्च॑क्रे वाय॒व्यान्॑। आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, यज्ञोपवीतं समर्पयामि।

Verse

तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। ऋचः॒ सामा॑नि जज्ञिरे छन्दासि जज्ञिरे॒ तस्मा᳚त्। यजु॒स्तस्मा॑दजायत श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि।

Verse

तस्मा॒दश्वा॑ अजायन्त। ये के चो॑भ॒याद॑तः गावो॑ ह जज्ञिरे॒ तस्मा᳚त्। तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, पुष्पाणि समर्पयामि। पुष्पैः पूजयामि।

Verse

१.ॐ वराहाय नमः — पादौ पूजयामि

Verse

२.सङ्कर्षणाय नमः — गुल्फौ पूजयामि

Verse

३.कालात्मने नमः — जानुनी पूजयामि

Verse

४.विश्वरूपाय नमः — जङ्घे पूजयामि

Verse

५.क्रोढाय नमः — ऊरू पूजयामि

Verse

६.भोक्त्रे नमः — कटिं पूजयामि

Verse

७.विष्णवे नमः — मेढ्रं पूजयामि

Verse

८.हिरण्यगर्भाय नमः — नाभिं पूजयामि

Verse

९.श्रीवत्सधारिणे नमः — कुक्षिं पूजयामि

Verse

१०.परमात्मने नमः — हृदयं पूजयामि

Verse

११.सर्वास्त्रधारिणे नमः — वक्षः पूजयामि

Verse

१२.वनमालिने नमः — कण्ठं पूजयामि

Verse

१३.सर्वात्मने नमः — मुखं पूजयामि

Verse

१४.सहस्राक्षाय नमः — नेत्राणि पूजयामि

Verse

१५.सुप्रभाय नमः — ललाटं पूजयामि

Verse

१६.चम्पकनासिकाय नमः — नासिकां पूजयामि

Verse

१७.सर्वेशाय नमः — कर्णौ पूजयामि

Verse

१८.सहस्रशिरसे नमः — शिरः पूजयामि

Verse

१९.नीलमेघनिभाय नमः — केशान् पूजयामि

Verse

२०.महापुरुषाय नमः — सर्वाणि अङ्गानि पूजयामि

Verse

१.विशोकाय नमः — पादौ पूजयामि

Verse

२.विश्वरूपिणे नमः — जानुनी पूजयामि

Verse

३.उग्राय नमः — ऊरू पूजयामि

Verse

४.दामोदराय नमः — कटिं पूजयामि

Verse

५.पद्मनाभाय नमः — उदरं पूजयामि

Verse

६.श्रीवत्सधारिणे नमः — उरसं पूजयामि

Verse

७.चक्रिणे नमः — वामबाहुं पूजयामि

Verse

८.गदिने नमः — दक्षिणबाहुं पूजयामि

Verse

९.वैकुण्ठाय नमः — कण्ठं पूजयामि

Verse

१०.यज्ञमुखाय नमः — आस्यं पूजयामि

Verse

११.विशोकनिधये नमः — नासिकां पूजयामि

Verse

१२.वासुदेवाय नमः — अक्षिणी पूजयामि

Verse

१३.वामनाय नमः — ललाटं पूजयामि

Verse

१४.रामाय नमः — भ्रुवौ पूजयामि

Verse

१५.सर्वात्मने नमः — शीर्षं पूजयामि

Verse

१.तन्मास-नाम्ने नमः — चरणौ पूजयामि

Verse

२.विष्णुरूपिणे नमः — जानुनी पूजयामि

Verse

३.भूतपतये नमः — गुह्यं पूजयामि

Verse

४.पीतवाससे नमः — कटिं पूजयामि

Verse

५.ब्रह्ममूर्तिभृते नमः — नाभिं पूजयामि

Verse

६.विश्वयोनये नमः — उदरं पूजयामि

Verse

७.ज्ञानगम्याय नमः — हृदयं पूजयामि

Verse

८.वैकुण्ठमूर्तये नमः — कण्ठं पूजयामि

Verse

९.ऊर्ध्वगाय नमः — ललाटं पूजयामि

Verse

१०.दक्षान्तकारिणे नमः — बाहू पूजयामि

Verse

११.सुरेशाय नमः — उत्तमाङ्गं पूजयामि

Verse

१२.सर्वमूर्तये नमः — सर्वाङ्गं पूजयामि

Verse

१.शङ्खाय नमः — शङ्खं पूजयामि

Verse

२.चक्राय नमः — चक्रं पूजयामि

Verse

३.गदायै नमः — गदां पूजयामि

Verse

४.पद्माय नमः — पद्मं पूजयामि

Verse

ॐ केशवाय नमः

Verse

ॐ नारायणाय नमः

Verse

ॐ माधवाय नमः

Verse

ॐ गोविन्दाय नमः

Verse

ॐ विष्णवे नमः

Verse

ॐ मधुसूदनाय नमः

Verse

ॐ त्रिविक्रमाय नमः

Verse

ॐ वामनाय नमः

Verse

ॐ श्रीधराय नमः

Verse

ॐ हृषीकेशाय नमः

Verse

ॐ पद्मनाभाय नमः

Verse

ॐ दामोदराय नमः

Verse

ॐ सङ्कर्षणाय नमः

Verse

ॐ वासुदेवाय नमः

Verse

ॐ प्रद्युम्नाय नमः

Verse

ॐ अनिरुद्धाय नमः

Verse

ॐ पुरुषोत्तमाय नमः

Verse

ॐ अधोक्षजाय नमः

Verse

ॐ नृसिंहाय नमः

Verse

ॐ अच्युताय नमः

Verse

ॐ जनार्दनाय नमः

Verse

ॐ उपेन्द्राय नमः

Verse

ॐ हरये नमः

Verse

ॐ श्रीकृष्णाय नमः

Verse

Verse

Verse

यत्पुरु॑षं॒ व्य॑दधुः। क॒ति॒धा व्य॑कल्पयन् मुखं॒ किम॑स्य॒ कौ बा॒हू। कावू॒रू पादा॑वुच्येते श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, धूपमाघ्रापयामि।

Verse

ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत्। बा॒हू रा॑ज॒न्यः॑ कृ॒तः ऊ॒रू तद॑स्य॒ यद्वैश्यः॑। प॒द्भ्याꣳ शू॒द्रो अ॑जायत उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑। प॒शूꣴश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश॥ मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त्। अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय॥ श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, अलङ्कारदीपं सन्दर्शयामि।

Verse

ॐ भूर्भुवः॒ सुवः॑। + ब्र॒ह्मणे॒ स्वाहा᳚।

Verse

च॒न्द्रमा॒ मन॑सो जा॒तः। चक्षोः॒ सूर्यो॑ अजायत मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑। प्रा॒णाद्वा॒युर॑जायत श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, [[blank]] निवेदयामि। अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।

Verse

नाभ्या॑ आसीद॒न्तरि॑क्षम्। शी॒र्ष्णो द्यौः सम॑वर्तत प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त्। तथा॑ लो॒काꣳ अ॑कल्पयन्

Verse

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, कर्पूरताम्बूलं समर्पयामि।

Verse

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚। आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑। नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि। कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि।

Verse

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑। श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते

Verse

यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति। य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।

Verse

ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा। ओं᳚ तथ्स॒त्यम्‌। ओं᳚ तथ्सर्वम्᳚‌। ओं᳚ तत्पुरो॒र्नमः॥

Verse

अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु। त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः। त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्‌॥ श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।

Verse

सुवर्णरजतैर्युक्तं चामीकरविनिर्मितम् स्वर्णपुष्पं प्रदास्यामि गृह्यतां मधुसूदन श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, स्वर्णपुष्पं समर्पयामि।

Verse

प्रदक्षिणं करोम्यद्य पापानि नुत माधव मयार्पितान्यशेषाणि परिगृह्य कृपां कुरु

Verse

यानि कानि च पापानि जन्मान्तरकृतानि च तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे प्रदक्षिणं कृत्वा।

Verse

नमस्ते देवदेवेश नमस्ते भक्तवत्सल नमस्ते पुण्डरीकाक्ष वासुदेवाय ते नमः

Verse

नमः सर्वहितार्थाय जगदाधाररूपिणे साष्टाङ्गोऽयं प्रणामोऽस्तु जगन्नाथ मया कृतः श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।

Verse

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते। यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

Verse

Verse

कल्याणरूपाय कलौ जनानां कल्याणदात्रे करुणासुधाब्धे कम्ब्वादिदिव्यायुधसत्कराय वातालयाधीश नमो नमस्ते

Verse

नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण नारायण

Verse

अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै- रावीतं नारदाद्यैर्विलसदुपनिषत्सुन्दरीमण्डलैश्च

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् एकादशीपुण्यकाले महाविष्णुपूजान्ते क्षीरार्घ्यप्रदानं करिष्ये॥

Verse

एकादश्यामुपोष्यैव पारणात् पूर्वकालतः इदमर्घ्यं प्रदास्यामि गृहाण सुरवन्दित महाविष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥

Verse

नमोऽस्तु केशवादिभ्यः सर्वलोकैकवन्दिताः इदमर्घ्यं प्रदास्यामि सुप्रीतो भव सर्वदा केशवादिभ्यः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्।

Verse

कूर्मरूपाय देवाय मत्स्यरूप नमोऽस्तुते नीलमेघस्वरूपाय अर्घ्यं दत्तं मया प्रभो विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥

Verse

क्षीरोद्भवे महालक्ष्मि सुप्रसन्ने सुरेश्वरि सर्वप्रदे जगद्वन्द्ये गृह्णीदार्घ्यमिदं रमे महालक्ष्म्यै नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्। अनेन अर्घ्यप्रदानेन भगवान् सर्वात्मकः श्री-भूमि-नीला-समेतः श्री-महाविष्णुः प्रीयताम्।

Verse

शङ्खोपरि जले कृत्वा गन्धपुष्पाक्षतान्वितम् सूत्रेणावेष्टितं कृत्वा दद्यादर्घ्यं विधानतः

Verse

देवदेव महादेव श्रीकेशव जनार्दन सुब्रह्मण्य नमस्तेऽस्तु पुण्यराशिविवर्धन विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥

Verse

शोकमोहमहापापान्मामुद्धर भवार्णवात् सुकृतं न कृतं किञ्चिज्जन्मकोटिशतैरपि विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥

Verse

तथाऽपि मां महास्वामिन् मामुद्धर भवार्णवात् व्रतेनानेन देवेश ये चान्ये मम पूर्वजाः विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥

Verse

वियोनिं च गताश्चान्ये पापमृत्युवशं गताः ये भविष्यन्ति येऽतीताः प्रेतलोकान् समुद्धर विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥

Verse

आर्तस्य मम दीनस्य भक्तिरव्यभिचारिणी दत्तमर्घ्यं मया तुभ्यं भक्त्या गृह्ण गदाधर विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥

Verse

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे

Verse

एकादशीपुण्यकाले अस्मिन् मया क्रियमाण महाविष्णुपूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं श्री-भूमि-नीला-समेत-श्री-महाविष्णु-प्रीतिं कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम। अनया पूजया श्री-भूमि-नीला-समेतः श्री-महाविष्णुः प्रीयताम्।

Verse

यस्य स्मृत्या च नामोक्त्या तपः-पूजा-क्रियादिषु न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम्

Verse

इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्द्दन

Verse

अस्मात् बिम्बात् श्री-भूमि-नीला-समेत-श्री-महाविष्णुं यथास्थानं प्रतिष्ठापयामि (अक्षतानर्पित्वा देवमुत्सर्जयेत्।) अनया पूजया श्री-भूमि-नीला-समेतः श्री-महाविष्णुः प्रीयताम्।

Verse

कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि

Verse

ॐ तत्सद्ब्रह्मार्पणमस्तु।

Verse

सालग्रामशिलावारि पापहारि शरीरिणाम् आजन्मकृतपापानां प्रायश्चित्तं दिने दिने

Verse

अकालमृत्युहरणं सर्वव्याधिनिवारणम् सर्वपापक्षयकरं विष्णुपादोदकं शुभम् इति तीर्थं पीत्वा शिरसि प्रसादं धारयेत्।

Verse

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव

Verse

त्रिस्पृशाख्यानम्

Verse

उन्मीलनीव्रतम्

Verse

पक्षवर्धिनी-एकादशी-माहात्म्यम्

Verse

द्वादशी-एकादशी-जागरणमहिमावर्णनम्

Verse

मार्गशीर्ष-कृष्ण-उत्पन्ना-एकादशी-कृत-मुरवधः

Verse

मार्गशीर्ष-शुक्ल-मोक्षदा-एकादशी-माहात्म्यम्

Verse

पौष-कृष्ण-सफला-एकादशी-माहात्म्यम्

Verse

पौष-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्

Verse

माघ-कृष्ण-षट्तिला-एकादशी-माहात्म्यम्

Verse

माघ-शुक्ल-जया-एकादशी-माहात्म्यम्

Verse

फाल्गुन-कृष्ण-विजया-एकादशी-माहात्म्यम्

Verse

फाल्गुन-शुक्लामलकी-एकादशी-माहात्म्यम्

Verse

चैत्र-कृष्ण-पापमोचनी-एकादशी-माहात्म्यम्

Verse

चैत्र-शुक्ल-कामदा-एकादशी-माहात्म्यम्

Verse

वैशाख-कृष्ण-वरूथिनी-एकादशी-माहात्म्यम्

Verse

वैशाख-शुक्ल-मोहिनी-एकादशी-माहात्म्यम्

Verse

ज्येष्ठ-कृष्णापरा-एकादशी-माहात्म्यम्

Verse

ज्येष्ठ-शुक्ल-निर्जला-एकादशी-माहात्म्यम्

Verse

आषाढ-कृष्ण-योगिनी-एकादशी-माहात्म्यम्

Verse

आषाढ-शुक्ल-शयनी-एकादशी-माहात्म्यम्

Verse

श्रावण-कृष्ण-कामिका-एकादशी-माहात्म्यम्

Verse

श्रावण-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्

Verse

भाद्रपद-कृष्णाजा-एकादशी-माहात्म्यम्

Verse

भाद्रपद-शुक्ल-पद्मा-एकादशी-माहात्म्यम्

Verse

आश्विन-कृष्णेन्दिरा-एकादशी-माहात्म्यम्

Verse

आश्विन-शुक्ल-पाशाङ्कुशा-एकादशी-माहात्म्यम्

Verse

कार्त्तिक-कृष्ण-रमा-एकादशी-माहात्म्यम्

Verse

कार्त्तिक-शुक्ल-प्रबोधिनी-एकादशी-माहात्म्यम्

Verse

पुरुषोत्तम-मासस्य शुक्ल-कमला-एकादशी-माहात्म्यम्

Verse

पुरुषोत्तम-मासस्य कृष्ण-कामदा-एकादशी-माहात्म्यम्

Verse

Verse

व्रतराजतः विविधपुराणान्तर्गत-एकादशी-माहात्म्यानि

Verse

मार्गशीर्ष-कृष्ण-एकादशी-माहात्म्यम्

Verse

मार्गशीर्ष-शुक्ल-मोक्षदा-एकादशी-माहात्म्यम्

Verse

पौष-कृष्ण-सफला-एकादशी-माहात्म्यम्

Verse

पौष-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्

Verse

माघ-कृष्ण-षट्तिला-एकादशी-माहात्म्यम्

Verse

माघ-शुक्ल-जया-एकादशी-माहात्म्यम्

Verse

फाल्गुन-कृष्ण-विजया-एकादशी-माहात्म्यम्

Verse

फाल्गुन-शुक्लामलकी-एकादशी-माहात्म्यम्

Verse

चैत्र-कृष्ण-पापमोचनी-एकादशी-माहात्म्यम्

Verse

चैत्र-शुक्ल-कामदा-एकादशी-माहात्म्यम्

Verse

वैशाख-कृष्ण-वरूथिनी-एकादशी-माहात्म्यम्

Verse

वैशाख-शुक्ल-मोहिनी-एकादशी-माहात्म्यम्

Verse

ज्येष्ठ-कृष्णापरा-एकादशी-माहात्म्यम्

Verse

ज्येष्ठ-शुक्ल-निर्जला-एकादशी-माहात्म्यम्

Verse

आषाढ-कृष्ण-योगिनी-एकादशी-माहात्म्यम्

Verse

आषाढ-शुक्ल-शयनी-एकादशी-माहात्म्यम्

Verse

आषाढ-शुक्ल-शयनी-एकादशी-माहात्म्यम् (भविष्य-पुराणम्)

Verse

श्रावण-कृष्ण-कामिका-एकादशी-माहात्म्यम्

Verse

श्रावण-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्

Verse

भाद्रपद-कृष्णाजा-एकादशी-माहात्म्यम्

Verse

भाद्रपद-शुक्ल-पद्मा-एकादशी-माहात्म्यम्

Verse

आश्विन-कृष्णेन्दिरा-एकादशी-माहात्म्यम्

Verse

आश्विन-शुक्ल-पाशाङ्कुशा-एकादशी-माहात्म्यम्

Verse

कार्त्तिक-कृष्ण-रमा-एकादशी-माहात्म्यम्

Verse

कार्त्तिक-शुक्ल-प्रबोधिनी-एकादशी-माहात्म्यम्

Verse

पुरुषोत्तम-मासस्य शुक्ल-कमला-एकादशी-माहात्म्यम्

Verse

पुरुषोत्तम-मासस्य कृष्ण-परमा-एकादशी-माहात्म्यम्

Verse

sūrya-arghya-pradānam
śrī-saṅkaṣṭacaturthīvrata-siddhivināyaka-pūjā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms