aSTottaranAma
śrībhuvaneśvaryaṣṭottaraśatanāmastotram
श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम्
Verse
(अथ श्रीकालीविलासतन्त्रे दशमः पटलः ।) श्रीदेव्युवाच ।
Verse
देवदेव महादेव योगीन्द्र वृषभध्वज । अस्याः श्रीभुवनेश्वर्याः शतनाम वद प्रभो ॥१॥
Verse
श्रीईशान उवाच ।
Verse
सहस्रेण महेशानि कलिकाले न सिद्ध्यति । शतनाम्नः परं नाम कलौ नास्ति महेश्वरि ॥२॥
Verse
अस्य श्रीभुवनेश्वरी शतनामस्तोत्रस्य शक्तिरृषि विराट्च्छन्दः श्रीभुवनेश्वरी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥
Verse
ॐ आद्या श्रीभुवनाभव्या भवबन्धविमोहिनी । भगरूपा भगवती भेरण्डा भाग्यशालिनी ॥३॥
Verse
ईश्वरी ईश्वरानन्दा वन्दनीया विलासिनी । उमा ऊमा च (१)उन्मत्ता इन्दिरा इन्द्रपूजिता ॥४॥
Verse
ऊर्ध्व-तेजस्विनी ऊर्ध्वा ऊर्ध्वगा ऊर्ध्वरूपिणी । नन्दिनी नन्दमथिनी नन्दा नन्दकरूपिणी ॥५॥
Verse
नित्या च निष्कलङ्का च निर्मला मलनाशिनी । निरीहोल्लासिनी नत्या निर्मला नित्यनूतना(२) ॥६॥
Verse
निशुम्भनाशिनी चैव तथा शुम्भविनाशिनी । शुक्लरूपा च शुक्लार्हा शाम्भवी शम्भुवल्वभा ॥७॥
Verse
शिवाख्या शिवरूपा च शिवपूज्या शिवार्चिता । शिववादा (३)च श्यामा च श्यामाङ्गी श्याममूर्त्तिका ॥८॥
Verse
शोभा च सुभगा चैव शोभना भुवनेश्वरी । रक्ताङ्गी रक्तनयना रक्ताक्षी रक्तलोचना ॥९॥
Verse
रेवती रुक्मिणी राधा रौद्री रामा रजोगुणा । रम्या च रमणीया च रामक्रीडावती तथा ॥१०॥
Verse
रामार्चिता रामपूज्या रङ्गिनी रामवल्लभा(४) । रक्ताक्षी रक्तहास्या च रुधिरा रुधिरप्रिया ॥११॥
Verse
रक्तारक्तमयी राज्ञी रसयुक्ता रसप्रिया । रसमाला रसमयी तथा रसवती रतिः ॥१२॥
Verse
रूपमाला रूपवती रूपाङ्गदविभूषणा । रेणुका रेत(५)रूपा च रसरूपा रसाश्रया(६) ॥१३॥
Verse
भागीरथी तथोन्नासां(७)वशिनी वेशरूपिणी । रेवा च शाम्भवी चैव मृदापारण(८)पण्डिता ॥१४॥
Verse
शतनाम इदं देवि कथितं भक्तितस्तव । गुह्याद् गुह्यतरं गुह्यं कलिकालस्य सम्मतम् ॥१५॥
Verse
अष्टोत्तरशतं जप्त्वा दशधा वापि सुन्दरि । पठित्वा फलमाप्नोति अयुतं वरवर्णनि ॥१६॥
Verse
अयुतावर्त्तनाद्देवि चाश्वमेधफलं लभेत् । गोमेधशतयज्ञानां फलमाप्नोति निश्चितम् ॥१७॥
Verse
प्रपठेद् यदि शुद्धात्मा स्वकीयस्त्रीषु संरतः । वामभागे स्त्रियं स्थाप्य धूपामोद सुगन्धितः ॥१८॥
Verse
ताम्बूल-पूरितमुखी यदि स्याज्जपतत्परः । यद्यप्यदीक्षिता नारी दूरतः परिवर्जयेत् ॥१९॥
Verse
दीक्षिता-परनारीषु यदि मैथुनमाचरेत् । न विन्दोः पातनं कार्यं कृते च ब्रह्महा भवेत् ॥२०॥
Verse
मृदापारगां मृत्तिकाविदारणमित्यर्थः ।
Verse
यदि न प्रपतेद्दिन्दुः परनारीषु पार्वति । सर्वसिद्धीश्वरो भूत्वा विहरेत् क्षितिमण्डले ॥२१॥
Verse
इति श्रीकालीविलासतन्त्रे श्रीभुवनेश्वरी शतनामस्तोत्रं समाप्तम् ।
Verse
ॐ तत्सदित्यादि ।
