aSTottaranAma
śrībhuvaneśvaryaṣṭottaraśatanāmastotram
श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम्
Verse
कैलासशिखरे रम्ये नानारत्नोपशोभिते । नरनारीहितार्थाय शिवं पप्रच्छ पार्वती ॥१॥
Verse
देव्युवाच - भुवनेशीमहाविद्यानाम्नामष्टोत्तरं शतम् । कथयस्व महादेव यद्यहं तव वल्लभा ॥२॥
Verse
ईश्वर उवाच - शृणु देवि महाभागे स्तवराजमिदं शुभम् । सहस्रनाम्नामधिकं सिद्धिदं मोक्षहेतुकम् ॥३॥
Verse
शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः । त्रिकालं श्रद्धया युक्तैः सर्वकामफलप्रदम् ॥४॥
Verse
अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रस्य शक्तिरृषिः गायत्री छन्दःभुवनेश्वरी देवता चतुर्वर्गसाधने जपे विनियोगः ।
Verse
ॐ महामाया महाविद्या महाभोगा महोत्कटा । माहेश्वरी कुमारी च ब्रह्माणी ब्रह्मरूपिणी ॥५॥
Verse
वागीश्वरी योगरूपा योगिनीकोटिसेविता । जया च विजया चैव कौमारी सर्वमङ्गला ॥६॥
Verse
हिङ्गुला च विलासी च ज्वालिनी ज्वालरूपिणी । ईश्वरी क्रूरसंहारी कुलमार्गप्रदायिनी ॥७॥
Verse
वैष्णवी सुभगाकारा सुकुल्या कुलपूजिता । वामाङ्गा वामचारा च वामदेवप्रिया तथा ॥८॥
Verse
डाकिनी योगिनीरूपा भूतेशी भूतनायिका । पद्मावती पद्मनेत्रा प्रबुद्धा च सरस्वती ॥९॥
Verse
भूचरी खेचरी माया मातङ्गी भुवनेश्वरी । कान्ता पतिव्रता साक्षी सुचक्षुः कुण्डवासिनी ॥१०॥
Verse
उमा कुमारी लोकेशी सुकेशी पद्मरागिणी । इन्द्राणी ब्रह्म चाण्डाली चण्डिका वायुवल्लभा ॥११॥
Verse
सर्वधातुमयीमूर्तिर्जलरूपा जलोदरी । आकाशी रणगा चैव नृकपालविभूषणा ॥१२॥
Verse
नर्मदा मोक्षदा चैव धर्मकामार्थदायिनी । गायत्री चाथ सावित्री त्रिसन्ध्या तीर्थगामिनी ॥१३॥
Verse
अष्टमी नवमी चैव दशम्येकादशी तथा । पौर्णमासी कुहूरूपा तिथिमूर्तिस्वरूपिणी ॥१४॥
Verse
सुरारिनाशकारी च उग्ररूपा च वत्सला । अनला अर्धमात्रा च अरुणा पीतलोचना ॥१५॥
Verse
लज्जा सरस्वती विद्या भवानी पापनाशिनी । नागपाशधरा मूर्तिरगाधा धृतकुण्डला ॥१६॥
Verse
क्षत्ररूपा क्षयकरी तेजस्विनी शुचिस्मिता । अव्यक्ता व्यक्तलोका च शम्भुरूपा मनस्विनी ॥१७॥
Verse
मातङ्गी मत्तमातङ्गी महादेवप्रिया सदा । दैत्यहा चैव वाराही सर्वशास्त्रमयी शुभा ॥१८॥
Verse
(फलश्रुतिः) य इदं पठते भक्त्या शृणुयाद्वा समाहितः । अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत् ॥१९॥
Verse
मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् । वेदानां पाठको विप्रः क्षत्रियो विजयी भवेत् ॥२०॥
Verse
वैश्यस्तु धनवान्भूयाच्छूद्रस्तु सुखमेधते । अष्टम्याञ्च चतुर्दश्यां नवम्यां चैकचेतसः ॥२१॥
Verse
ये पठन्ति सदा भक्त्या न ते वै दुःखभागिनः । एककालं द्विकालं वा त्रिकालं वा चतुर्थकम् ॥२२॥
Verse
ये पठन्ति सदा भक्त्या स्वर्गलोके च पूजिताः । रुद्रं दृष्ट्वा यथा देवाः पन्नगा गरुडं यथा ॥
Verse
शत्रवः प्रपलायन्ते तस्य वक्त्रविलोकनात् ॥२३॥
Verse
इति श्रीरुद्रयामले देवीशङ्करसंवादे श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम् ॥
