aSTottaranAma
śrībhadrakālyaṣṭottaraśatanāmastotram
श्रीभद्रकाल्यष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीनन्दिकेश्वर उवाच - भद्रकालीमहं वन्दे वीरभद्रसतीं शिवाम् । सुताम्रार्चितपादाब्जं सुखसौभाग्यदायिनीम् ॥
Verse
अथ स्तोत्रम् ।
Verse
ॐ भद्रकाली कामरूपा महाविद्या यशस्विनी । महाश्रया महाभागा दक्षयागविभेदिनी ॥१॥
Verse
रुद्रकोपसमुद्भूता भद्रा मुद्रा शिवङ्करी । चन्द्रिका चन्द्रवदना रोषताम्राक्षशोभिनी ॥२॥
Verse
इन्द्रादिदमनी शान्ता चन्द्रलेखाविभूषिता । भक्तार्तिहारिणी मुक्ता चण्डिकानन्ददायिनी ॥३॥
Verse
सौदामिनी सुधामूर्तिः दिव्यालङ्कारभूषिता । सुवासिनी सुनासा च त्रिकालज्ञा धुरन्धरा ॥४॥
Verse
सर्वज्ञा सर्वलोकेशी देवयोनिरयोनिजा । निर्गुणा निरहङ्कारा लोककल्याणकारिणी ॥५॥
Verse
सर्वलोकप्रिया गौरी सर्वगर्वविमर्दिनी । तेजोवती महामाता कोटिसूर्यसमप्रभा ॥६॥
Verse
वीरभद्रकृतानन्दभोगिनी वीरसेविता । नारदादिमुनिस्तुत्या नित्या सत्या तपस्विनी ॥७॥
Verse
ज्ञानरूपा कलातीता भक्ताभीष्टफलप्रदा । कैलासनिलया शुभ्रा क्षमा श्रीः सर्वमङ्गला ॥८॥
Verse
सिद्धविद्या महाशक्तिः कामिनी पद्मलोचना । देवप्रिया दैत्यहन्त्री दक्षगर्वापहारिणी ॥९॥
Verse
शिवशासनकर्त्री च शैवानन्दविधायिनी । भवपाशनिहन्त्री च सवनाङ्गसुकारिणी ॥१०॥
Verse
लम्बोदरी महाकाली भीषणास्या सुरेश्वरी । महानिद्रा योगनिद्रा प्रज्ञा वार्ता क्रियावती ॥११॥
Verse
पुत्रपौत्रप्रदा साध्वी सेनायुद्धसुकाङ्क्षिणी इच्छा शम्भोः कृपासिन्धुः चण्डी चण्डपराक्रमा ॥१२॥
Verse
शोभा भगवती माया दुर्गा नीला मनोगतिः । खेचरी खड्गिनी चक्रहस्ता शुलविधारिणी ॥१३॥
Verse
सुबाणा शक्तिहस्ता च पादसञ्चारिणी परा । तपःसिद्धिप्रदा देवी वीरभद्रसहायिनी ॥१४॥
Verse
धनधान्यकरी विश्वा मनोमालिन्यहारिणी । सुनक्षत्रोद्भवकरी वंशवृद्धिप्रदायिनी ॥१५॥
Verse
ब्रह्मादिसुरसंसेव्या शाङ्करी प्रियभाषिणी । भूतप्रेतपिशाचादिहारिणी सुमनस्विनी ॥१६॥
Verse
पुण्यक्षेत्रकृतावासा प्रत्यक्षपरमेश्वरी । एवं नाम्नां भद्रकाल्याः शतमष्टोत्तरं विदुः ॥१७॥
Verse
पुण्यं यशो दीर्घमायुः पुत्रपौत्रं धनं बहु । ददाति देवी तस्याशु यः पठेत् स्तोत्रमुत्तमम् ॥१८॥
Verse
भौमवारे भृगौ चैव पौर्णमास्यां विशेषतः । प्रातः स्नात्वा नित्यकर्म विधाय च सुभक्तिमान् ॥१९॥
Verse
वीरभद्रालये भद्रां सम्पूज्य सुरसेविताम् । पठेत् स्तोत्रमिदं दिव्यं नाना भोगप्रदं शुभम् ॥२०॥
Verse
अभीष्टसिद्धिं प्राप्नोति शीघ्रं विद्वान् परन्तप । अथवा स्वगृहे वीरभद्रपत्नीं समर्चयेत् ॥२१॥
Verse
स्तोत्रेणानेन विधिवत् सर्वान् कामानवाप्नुयात् । रोगा नश्यन्ति तस्याशु योगसिद्धिं च विन्दति ॥२२॥
Verse
सनत्कुमारभक्तानामिदं स्तोत्रं प्रबोधय । रहस्यं सारभूतं च सर्वज्ञः सम्भविष्यसि ॥२३॥
Verse
इति श्रीभद्रकाल्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
