Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrībudhāṣṭottaraśatanāmastotram

श्रीबुधाष्टोत्तरशतनामस्तोत्रम्

Verse

बुध बीज मन्त्र - ॐ ब्राँ ब्रीं ब्रौं सः बुधाय नमः ॥

Verse

बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः । दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥१॥

Verse

सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः । सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥२॥

Verse

वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्करः । विद्याविचक्षण विदुर् विद्वत्प्रीतिकरो ऋजः ॥३॥

Verse

विश्वानुकूलसञ्चारी विशेषविनयान्वितः । विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥४॥

Verse

त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः । बुद्धिमान् बहुशास्त्रज्ञो बली बन्धविमोचकः ॥५॥

Verse

वक्रातिवक्रगमनो वासवो वसुधाधिपः । प्रसादवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥६॥

Verse

सत्यवान् सत्यसंकल्पः सत्यबन्धिः सदादरः । सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥७॥

Verse

वाणिज्यनिपुणो वश्यो वातांगी वातरोगहृत् । स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥८॥

Verse

अप्रकाशः प्रकाशात्मा घनो गगनभूषणः । विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥९॥

Verse

चारुशीलः स्वप्रकाशो चपलश्च जितेन्द्रियः । उदऽग्मुखो मखासक्तो मगधाधिपतिर्हरः ॥१०॥

Verse

सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी । सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवंकरः ॥११॥

Verse

पीताम्बरो पीतवपुः पीतच्छत्रध्वजांकितः । खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥१२॥

Verse

आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः । चाम्पेयपुष्पसंकाशः चारणः चारुभूषणः ॥१३॥

Verse

वीतरागो वीतभयो विशुद्धकनकप्रभः । बन्धुप्रियो बन्धयुक्तो वनमण्डलसंश्रितः ॥१४॥

Verse

अर्केशानप्रदेषस्थः तर्कशास्त्रविशारदः । प्रशान्तः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥१५॥

Verse

मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः । कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥१६॥

Verse

बुधस्येवम्प्रकारेण नाम्नामष्टोत्तरं शतम् । सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥१७॥

Verse

॥ इति बुध अष्टोत्तरशतनामस्तोत्रम् ॥

bilvāṣṭottaraśatanāmastotram
śrībhadrakālyaṣṭottaraśatanāmastotram

Read next

More on श्रीबुधाष्टोत्तरशतनामस्तोत्रम्

  • बवर्णादि श्रीबुद्धाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms