Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

bilvāṣṭottaraśatanāmastotram

बिल्वाष्टोत्तरशतनामस्तोत्रम्

Verse

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥१॥

Verse

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥२॥

Verse

सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् । सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥३॥

Verse

नागाधिराजवलयं नागहारेण भूषितम् । नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥४॥

Verse

अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् । चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥५॥

Verse

त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् । विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥६॥

Verse

त्रिशूलधारिणं देवं नागाभरणसुन्दरम् । चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥७॥

Verse

गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् । कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥८॥

Verse

शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् । सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥९॥

Verse

सच्चिदानन्दरूपं च परानन्दमयं शिवम् । वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥१०॥

Verse

शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् । हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥११॥

Verse

अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् । ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥१२॥

Verse

हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् । अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥१३॥

Verse

पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् । नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥१४॥

Verse

सुराश्रयं विषहरं वर्मिणं च वरूधिनम् महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥१५॥

Verse

कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् । तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥१६॥

Verse

दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् । अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥१७॥

Verse

नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् । महापापसंहारं एकबिल्वं शिवार्पणम् ॥१८॥

Verse

चूडामणीकृतविभुं वलयीकृतवासुकिम् । कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥१९॥

Verse

कर्पूरकुन्दधवलं नरकार्णवतारकम् । करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥२०॥

Verse

महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् । महापापहरं देवं एकबिल्वं शिवार्पणम् ॥२१॥

Verse

भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् । वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥२२॥

Verse

फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् । नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥२३॥

Verse

कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् । वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥२४॥

Verse

सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् । मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥२५॥

Verse

दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् । मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥२६॥

Verse

सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् । निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥२७॥

Verse

सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् । सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥२८॥

Verse

सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् । सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥२९॥

Verse

मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् । कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥३०॥

Verse

तेजोमयं महाभीमं उमेशं भस्मलेपनम् । भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥३१॥

Verse

स्वर्गापवर्गफलदं रघुनाथवरप्रदम् । नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥३२॥

Verse

मञ्जीरपादयुगलं शुभलक्षणलक्षितम् । फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥३३॥

Verse

निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् । तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥३४॥

Verse

सर्वलोकैकपितरं सर्वलोकैकमातरम् । सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥३५॥

Verse

चित्राम्बरं निराभासं वृषभेश्वरवाहनम् । नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥३६॥

Verse

रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् । नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥३७॥

Verse

दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् । नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥३८॥

Verse

रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् । भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥३९॥

Verse

वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् । पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥४०॥

Verse

सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् । सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥४१॥

Verse

नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् । विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥४२॥

Verse

अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् । धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥४३॥

Verse

गौरीविलाससदनं जीवजीवपितामहम् । कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥४४॥

Verse

सुखदं सुखनाशं च दुःखदं दुःखनाशनम् । दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥४५॥

Verse

सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् । अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥४६॥

Verse

सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् । सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥४७॥

Verse

जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् । जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥४८॥

Verse

विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् । वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥४९॥

Verse

गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् । जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥५०॥

Verse

त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् । दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥५१॥

Verse

कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् । कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥५२॥

Verse

कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् । शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥५३॥

Verse

जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् । पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥५४॥

Verse

सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् । ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥५५॥

Verse

मन्दारमूलनिलयं मन्दारकुसुमप्रियम् । वृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥५६॥

Verse

महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् । सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥५७॥

Verse

बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् । परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥५८॥

Verse

युगाकारं युगाधीशं युगकृद्युगनाशनम् । परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥५९॥

Verse

धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् । कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥६०॥

Verse

सुरावासं जनावासं योगीशं योगिपुङ्गवम् । योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥६१॥

Verse

उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् । भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥६२॥

Verse

विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् । विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥६३॥

Verse

कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् । ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥६४॥

Verse

लावण्यमधुराकारं करुणारसवारधिम् । भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥६५॥

Verse

जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् । कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥६६॥

Verse

शिवं शान्तं उमानाथं महाध्यानपरायणम् । ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६७॥

Verse

वासुक्युरगहारं च लोकानुग्रहकारणम् । ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥६८॥

Verse

शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् । शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥६९॥

Verse

शरणागतदीनार्तपरित्राणपरायणम् । गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥

Verse

भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् । करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥७१॥

Verse

क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् । व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥७२॥

Verse

भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् । हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥७३॥

Verse

दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् । हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥७४॥

Verse

महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् । वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥७५॥

Verse

स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् । जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥७६॥

Verse

रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् । रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥७७॥

Verse

फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् । दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥७८॥

Verse

नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् । मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥७९॥

Verse

मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् । सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥८०॥

Verse

निधनेशं धनाधीशं अपमृत्युविनाशनम् । लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥८१॥

Verse

भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् । कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥८२॥

Verse

घोरपातकदावाग्निं जन्मकर्मविवर्जितम् । कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥८३॥

Verse

मातङ्गचर्मवसनं विराड्रूपविदारकम् । विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥८४॥

Verse

यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् । यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥८५॥

Verse

कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् । योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥८६॥

Verse

महोन्नतमहाकायं महोदरमहाभुजम् । महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥८७॥

Verse

सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् । महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् ॥८८॥

Verse

समस्तजगदाधारं समस्तगुणसागरम् । सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥८९॥

Verse

माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः । दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥९०॥

Verse

तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे । प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥९१॥

Verse

तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥९२॥

Verse

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥९३॥

Verse

तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा । पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥९४॥

Verse

अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् । मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥९५॥

Verse

सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् । साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥९६॥

Verse

दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् । सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् ॥९७॥

Verse

चतुर्वेदसहस्राणि भारतादिपुराणकम् । साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥९८॥

Verse

सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् । तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥९९॥

Verse

अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके । अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥१००॥

Verse

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥१०१॥

Verse

अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा । त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥१०२॥

Verse

दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम् । सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् ॥१०३॥

Verse

पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् । अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥१०४॥

Verse

विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् । तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥१०५॥

Verse

त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत् । जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥१०६॥

Verse

अनेकदानफलदं अनन्तसुकृतादिकम् । तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥१०७॥

Verse

त्वं मां पालय सर्वत्र पदध्यानकृतं तव । भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥१०८॥

Verse

उमयासहितं देवं सवाहनगणं शिवम् । भस्मानुलिप्तसर्वाङ्गं एकबिल्वं शिवार्पणम् ॥१०९॥

Verse

सालग्रामसहस्राणि विप्राणां शतकोटिकम् । यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥११०॥

Verse

अज्ञानेन कृतं पापं ज्ञानेनाभिकृतं च यत् । तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥१११॥

Verse

अमृतोद्भववृक्षस्य महादेवप्रियस्य च । मुच्यन्ते कण्टकाघातात् कण्टकेभ्यो हि मानवाः ॥११२॥

Verse

एकैकबिल्वपत्रेण कोटियज्ञफलं भवेत् । महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥११३॥

Verse

एककाले पठेन्नित्यं सर्वशत्रुनिवारणम् ।

Verse

द्विकाले च पठेन्नित्यं मनोरथफलप्रदम् ।

Verse

त्रिकाले च पठेन्नित्यं आयुर्वर्ध्यो धनप्रदम् । अचिरात्कार्यसिद्धिं च लभते नात्र संशयः ॥११४॥

Verse

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । लक्ष्मीप्राप्तिश्शिवावासः शिवेन सह मोदते ॥११५॥

Verse

कोटिजन्मकृतं पापं अर्चनेन विनश्यति ।

Verse

सप्तजन्मकृतं पापं श्रवणेन विनश्यति ।

Verse

जन्मान्तरकृतं पापं पठनेन विनश्यति ।

Verse

दिवारात्रकृतं पापं दर्शनेन विनश्यति ।

Verse

क्षणेक्षणेकृतं पापं स्मरणेन विनश्यति । पुस्तकं धारयेद्देही आरोग्यं भयनाशनम् ॥११६॥

Verse

इति बिल्वाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

śrībālāṣṭottaraśatanāmastotram 5
śrībudhāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms