aSTottaranAma
bavarṇādi śrībuddhāṣṭottaraśatanāmastotram
बवर्णादि श्रीबुद्धाष्टोत्तरशतनामस्तोत्रम्
Verse
बुद्धो बुधजनानन्दी बुद्धिमान् बुद्धिचोदनः । बुद्धप्रियो बुद्धषट्को बोधिताद्वैतसंहितः ॥१॥
Verse
बुद्धिदूरो बोधरूपो बुद्धसर्वो बुधान्तरः । बुद्धिकृत्बुद्धिविद्बुद्धिर्बुद्धिभिद्बुद्धिसत्बुधः ॥२॥
Verse
बुद्ध्यालयो बुद्धिलयो बुद्धिगम्यो बुधेश्वरः । बुद्ध्यकामो बुद्धवपुर्बुद्धिभोक्ता बुधावनः ॥३॥
Verse
बुद्धिप्रतिगतानन्दो बुद्धिमुद्बुद्धिभासकः । बुद्धिप्रियो बुद्ध्यवश्यो बुद्धिशोधी बुधाशयः ॥४॥
Verse
बुद्धीश्वरो बुद्धिसखो बुद्धिदो बुद्धिबान्धवः । बुद्धिनिर्मितभूतौघो बुद्धिसाक्षी बुधोत्तमः ॥५॥
Verse
बहुरूपो बहुगुणो बहुमायो बहुक्रियः । बहुभोगो बहुमतो बहुनामा बहुप्रदः ॥६॥
Verse
बुधेतरवराचार्यो बहुभद्रो बहुप्रधः । वृन्दारकावनो ब्रह्म ब्रह्मदूषणकैतवः ॥७॥
Verse
बह्वैश्वर्यो बहुबलो बहुवीर्यो बहुप्रभः । बहुवैराग्यभरितो बहुश्री बहुधर्मवित् ॥८॥
Verse
बहुलोकजयी बन्धमोचको बाधितस्मरः । बृहस्पतिगुरुर्ब्रह्मस्तुतो ब्रह्मादिनायकः ॥९॥
Verse
ब्रह्माण्डनायको ब्रध्नभास्वरो ब्रह्मतत्परः । बलभद्रसखो बद्धसुभद्रो बहुजीवनः ॥१०॥
Verse
बहुभुग्बहिरन्तस्थो बहिरिन्द्रियदुर्गमः । बलाहकाभो बाधाच्छिद्बिसपुष्पाभलोचनः ॥११॥
Verse
बृहद्वक्षा बृहत्क्रीडो बृहद्रामो बृहत्प्रियः । बृहत्तृप्तो ब्रह्मरथो ब्रह्मविद्ब्रह्मपारकृत् ॥१२॥
Verse
बाधितद्वैतविषयो बहुवर्णविभागहृत् । बृहज्जगद्भेददूषी बह्वाश्चर्यरसोदधिः ॥१३॥
Verse
बृहत्क्षमो बहुकृपो बहुशीलो बलिप्रियः । बाधिताशिष्टनिकरो बाधातीतो बहूदयः ॥१४॥
Verse
बाधितान्तश्शत्रुजालो बद्धचित्तहयोत्तमः । बहुधर्मप्रवचनो बहुमन्तव्यभाषितः ॥१५॥
Verse
बर्हिर्मुखशरण्यं ब्रह्मण्यो ब्राह्मणप्रियः । ब्रह्मस्तुतो ब्रह्मबन्धुर्ब्रह्मसूर्ब्रह्मशोऽवतु ॥१६॥
Verse
॥ इति बकारादि श्री बुद्धावताराष्टोत्तरशतनामावलिः रियं पराभव श्रावणबहुल द्वितीयायां रामेण लिखिता समर्पिता च श्री हयग्रीवायदेवाय विजयतान्तराम् ॥
