aSTottaranAma
makārādi śrīmatsyāṣṭottaraśatanāmastotram
मकारादि श्रीमत्स्याष्टोत्तरशतनामस्तोत्रम्
Verse
मत्स्यो महालयाम्भोधिसञ्चारी मनुपालकः । महीनौकाप्ऱिष्टदेशो महासुरविनाशनः ॥१॥
Verse
महाम्नायगणाहर्त्रा महनीयगुणाद्भुतः । मरालवाहव्यपनच्छेत्ता मथितसागरः ॥२॥
Verse
महासत्वो महायादो गणभुङ्मधुराकृतिः । मदोल्लुंठनसङ्क्षुब्ध सिन्धुभङ्गहतोर्थ्वखः ॥३॥
Verse
महाशयो महाधीरो महौषधिसमुद्धरः । महायशा महानन्दो महातेजा महावपुः ॥४॥
Verse
महीपङ्कवृषत्पृष्ठो महाकल्पार्णवह्रदः । मित्रशुभ्रांशुवलयनेत्रो मुखमहानभाः ॥५॥
Verse
महालक्ष्मीनेत्ररूपगर्वसर्वङ्कषाकृतिः । महामायो महाभूतपालको मृत्युमारकः ॥६॥
Verse
महाजवो महापृच्छच्छिन्नमीनादिराशिकः । महातलतलो मर्त्यलोकगर्भो मरुत्पतिः ॥७॥
Verse
मरुत्पतिस्थानपृष्टो महादेवसभाजितः । महेन्द्राद्यखिलप्राणिमारणो मृदिताखिलः ॥८॥
Verse
मनोमयो माननीयो मनस्वी मानवर्धनः । मनीषिमानसाम्भोधि शायी मनुविभीषणः ॥९॥
Verse
मृदुगर्भो मृगाङ्काभो मृग्यपादो महोदरः । महाकर्तरिकापुच्छो मनोदुर्गमवैभवः ॥१०॥
Verse
मनीषी मध्यरहितो मृषाजन्मा मृतव्ययः । मोघेतरोरुसङ्कल्पो मोक्षदायी महागुरुः ॥११॥
Verse
मोहासङ्गसमुज्जृम्भत्सच्चिदानन्दविग्रहः । मोहको मोहसंहर्ता मोहदूरो महोदयः ॥१२॥
Verse
मोहितोत्तारितमनुर्मोचिताश्रितकश्मलः । महर्षिनिकरस्तुत्यो मनुज्ञानोपदेशकः ॥१३॥
Verse
महीनौबन्धनाहीन्द्ररज्जुबद्धैकशृङ्गकः । महोवातहतोर्वीनौस्तम्भनो महिमाकरः ॥१४॥
Verse
महाम्बुधितरङ्गाप्तसैकतीभूतविग्रहागः । मरालवाहनिद्रान्तसाक्षी मधुनिषूदनः ॥१५॥
Verse
महाब्धिवसनो मत्तो महामारुतवीजितः । महाकाशालयो मूर्छत्तमोम्बुधिकृताप्लवः ॥१६॥
Verse
मृदिताब्जारिविभवो मुषितप्राणिचेतनः । मृदुचित्तो मधुरवाङ्मृष्टकामो महेश्वरः ॥१७॥
Verse
मरालवाहस्वापान्त दत्तवेदो महाकृतिः । महीश्लिष्टो महीनाथो मरुन्मालामहामणिः ॥१८॥
Verse
महीभारपरीहर्ता महाशक्तिर्महोदयः । महन्महान्मग्नलोको महाशान्तिर्महन्मनाः ॥१९॥
Verse
महावेदाभिसञ्चारी महात्मा मोहितात्मभूः । मन्त्रस्मृतिभ्रंशहेतुर्मन्त्रकृन्मन्त्रशेवधिः ॥२०॥
Verse
मन्त्रमन्त्रार्थ तत्त्वज्ञो मन्त्रार्थो मन्त्रदैवतम् । मन्त्रोक्तकारिप्रणयी मन्त्रराशिफलप्रदः ॥२१॥
Verse
मन्त्रतात्पर्यविषयो मनोमन्त्राद्यगोचरः । मन्त्रार्थवित्कृतक्षेमो रामं रक्षतु सर्वतः ॥२२॥
Verse
॥ इति मकारादि श्री मत्स्याष्टोत्तरशतनामस्तोत्रम् पराभव श्रावणशुद्ध पूर्णिमायां लिखिता रामेण समर्पिता च श्री हयग्रीव भगवच्चरणारविन्दयोर्विजयतान्तराम् ॥
