aSTottaranAma
śrībālāṣṭottaraśatanāmastotram 1
श्रीबालाष्टोत्तरशतनामस्तोत्रम् १
Verse
अगस्त्य उवाच - हयग्रीव दयासिन्धो भगवन्भक्तवत्सल ।
Verse
बालात्रिपुरसुन्दर्या नाम्नामष्टोत्तरं शुभम् । वदस्व मे त्वं कृपया येन ज्ञानं प्रवर्तते ॥१॥
Verse
हयग्रीव उवाच - शृणु सम्यक्प्रवक्ष्यामि श्रीबालाष्टोत्तरं शतम् । सर्वविद्यात्मकं ज्ञेयं श्रीबालाप्रीतिदायकम् ॥२॥
Verse
अस्य श्रीबालात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः ।
Verse
अनुष्टुप्छन्दः ।
Verse
श्री बालात्रिपुरसुन्दरी देवता ।
Verse
ऐं बीजम् ।
Verse
क्लीं शक्तिः ।
Verse
सौः कीलकम् ।
Verse
श्रीबालात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे नामपारायणे विनियोगः ।
Verse
अथ करन्यासः - ॐ ऐं अङ्गुष्ठाभ्यां नमः ।
Verse
क्लीं तर्जनीभ्यां नमः ।
Verse
सौः मध्यमाभ्यां नमः ।
Verse
ऐं अनामिकाभ्यां नमः ।
Verse
क्लीं कनिष्ठिकाभ्यां नमः ।
Verse
सौः करतलकरपृष्ठाभ्यां नमः ।
Verse
अथ हृदयादिन्यासः - ऐं हृदयाय नमः ।
Verse
क्लीं शिरसे स्वाहा ।
Verse
सौः शिखायै वषट् ।
Verse
ऐं कवचाय हुम् ।
Verse
क्लीं नेत्रत्रयाय वौषट् ।
Verse
सौः अस्त्राय फट् ।
Verse
भूर्भुवस्सुवरों इति दिग्बन्धः ।
Verse
ध्यानम्- पाशाङ्कुशे पुस्तकाक्षसूत्रे च दधती करैः । रक्ता त्र्यक्षा चन्द्रफाला पातु बाला सुरार्चिता ॥
Verse
लमित्यादि पञ्चपूजा - लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
Verse
हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।
Verse
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
Verse
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
Verse
वं अमृतात्मिकायै अमृतोपहारं निवेदयामि । सं सर्वात्मिकायै सर्वोपचारपूजाः समर्पयामि ॥
Verse
अथ श्री बाला अष्टोत्तरशतनामस्तोत्रम् ।
Verse
ॐ कल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी । सुन्दरी सौभाग्यवती क्लीङ्कारी सर्वमङ्गला ॥१॥
Verse
ह्रीङ्कारी स्कन्दजननी परा पञ्चदशाक्षरी । त्रिलोकी मोहनाधीशा सर्वेशी सर्वरूपिणी ॥२॥
Verse
सर्वसंक्षोभिणी पूर्णा नवमुद्रेश्वरी शिवा । अनङ्गकुसुमा ख्याता अनङ्गा भुवनेश्वरी ॥३॥
Verse
जप्या स्तव्या श्रुतिर्निता नित्यक्लिन्नाऽमृतोद्भवा । मोहिनी परमाऽऽनन्दा कामेशतरुणा कला ॥४॥
Verse
कलावती भगवती पद्मरागकिरीटिनी । सौगन्धिनी सरिद्वेणी मन्त्रिणि मन्त्ररूपिणि ॥५॥
Verse
तत्त्वत्रयी तत्त्वमयी सिद्धा त्रिपुरवासिनी । श्रीर्मतिश्च महादेवी कौलिनी परदेवता ॥६॥
Verse
कैवल्यरेखा वशिनी सर्वेशी सर्वमातृका । विष्णुस्वसा देवमाता सर्वसम्पत्प्रदायिनी ॥७॥
Verse
किङ्करी माता गीर्वाणी सुरापानानुमोदिनी । (सुधापानविनोदिनी) आधाराहितपत्नीका स्वाधिष्ठानसमाश्रया ॥८॥
Verse
अनाहताब्जनिलया मणिपूरासमाश्रया । आज्ञा पद्मासनासीना विशुद्धस्थलसंस्थिता ॥९॥
Verse
अष्टत्रिंशत्कलामूर्ति स्सुषुम्ना चारुमध्यमा । योगेश्वरी मुनिध्येया परब्रह्मस्वरूपिणी ॥१०॥
Verse
चतुर्भुजा चन्द्रचूडा पुराणागमरूपिनी । ऐंकारादिर्महाविद्या पञ्चप्रणवरूपिणी ॥११॥
Verse
भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी । षोढान्यास महाभूषा कामाक्षी दशमातृका ॥१२॥
Verse
आधारशक्तिः तरुणी लक्ष्मीः त्रिपुरभैरवी । शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी ॥१३॥
Verse
माङ्गल्य दायिनी मान्या सर्वमङ्गलकारिणी । योगलक्ष्मीः भोगलक्ष्मीः राज्यलक्ष्मीः त्रिकोणगा ॥१४॥
Verse
सर्वसौभाग्यसम्पन्ना सर्वसम्पत्तिदायिनी । नवकोणपुरावासा बिन्दुत्रयसमन्विता ॥१५॥
Verse
नाम्नामष्टोत्तरशतं पठेन्न्याससमन्वितम् । सर्वसिद्धिमवाप्नोती साधकोभीष्टमाप्नुयात् ॥१६॥
Verse
इति श्री रुद्रयामलतन्त्रे उमामहेश्वरसंवादे श्री बाला अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
