Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stuti

durgā-stutiḥ (arjuna-kṛtā)

दुर्गा-स्तुतिः (अर्जुन-कृता)

Verse

धार्तराष्ट्रबलं दृष्ट्वा युद्धाय समुपस्थितम् । अर्जुनस्य हितार्थाय कृष्णो वचनमब्रवीत् ॥१॥

Verse

शुचिर्भूत्वा महाबाहो सङ्ग्रामाभिमुखे स्थितः । पराजयाय शत्रूणां दुर्गास्तोत्रमुदीरय ॥२॥

Verse

एवमुक्तोऽर्जुनः सङ्ख्ये वासुदेवेन धीमता । अवतीर्य रथात् पार्थः स्तोत्रमाह कृताञ्जलिः ॥३॥

Verse

नमस्ते सिद्धसेनानि आर्ये मन्दरवासिनि । कुमारि कालि कापालि कपिले कृष्णपिङ्गले ॥४॥

Verse

भद्रकालि नमस्तुभ्यं महाकालि नमोऽस्तु ते । चण्डि चण्डे नमस्तुभ्यं तारिणि वरवर्णिनि ॥५॥

Verse

कात्यायनि महाभागे करालि विजये जये । शिखिपिच्छध्वजधरे नानाभरणभूषिते ॥६॥

Verse

अट्टशूलप्रहरणे खड्गखेटकधारिणि । गोपेन्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे ॥७॥

Verse

महिषासृक्प्रिये नित्यं कौशिकि पीतवासिनि । अट्टहासे कोकमुखे नमस्तेऽस्तु रणप्रिये ॥८॥

Verse

उमे शाकम्भरि श्वेते कृष्णे कैटभनाशिनि । हिरण्याक्षि विरूपाक्षि सुधूम्राक्षि नमोऽस्तु ते ॥९॥

Verse

वेदश्रुति महापुण्ये ब्रह्मण्ये जातवेदसि । जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥१०॥

Verse

त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहिनाम् । स्कन्दमातर्भगवति दुर्गे कान्तारवासिनि ॥११॥

Verse

स्वाहाकारः स्वधा चैव कला काष्ठा सरस्वती । सावित्री वेदमाता च तथा वेदान्त उच्यते ॥१२॥

Verse

स्तुताऽसि त्वं महादेवि विशुद्धेनान्तरात्मना । जयो भवतु मे नित्यं त्वत्प्रसादाद् रणाजिरे ॥१३॥

Verse

कान्तारभयदुर्गेषु भक्तानां चाऽऽलयेषु च । नित्यं वससि पाताले युद्धे जयसि दानवान् ॥१४॥

Verse

त्वं जम्भनी मोहिनी च माया ह्रीः श्रीस्तथैव च । सन्ध्या प्रभावती चैव सावित्री जननी तथा ॥१५॥

Verse

तुष्टिः पुष्टिर्धृतिर्दीप्तिश्चन्द्रादित्यविवर्धिनी । भूतिर्भूतिमतां सङ्ख्ये वीक्ष्यसे सिद्धचारणैः ॥१६॥

Verse

ततः पार्थस्य विज्ञाय भक्तिं मानववत्सला । अन्तरिक्षगतोवाच गोविन्दस्याग्रतः स्थिता ॥१७॥

Verse

स्वल्पेनैव तु कालेन शत्रूञ्जेष्यसि पाण्डव । नरस्त्वमसि दुर्धर्ष नारायणसहायवान् ॥१८॥

Verse

अजेयस्त्वं रणेऽरीणामपि वज्रभृतः स्वयम् । इत्येवमुक्त्वा वरदा क्षणेनान्तरधीयत ॥१९॥

Verse

लब्ध्वा वरं तु कौन्तेयो मेने विजयमात्मनः । आरुरोह ततः पार्थो रथं परमसम्मतम् ॥२०॥

Verse

कृष्णार्जुनावेकरथौ दिव्यौ शङ्खौ प्रदध्मतुः । य इदं पठते स्तोत्रं कल्य उत्थाय मानवः ॥२१॥

Verse

यक्षरक्षःपिशाचेभ्यो न भयं विद्यते सदा । न चापि रिपवस्तेभ्यः सर्पाद्या ये च दंष्ट्रिणः ॥२२॥

Verse

न भयं विद्यते तस्य सदा राजकुलादपि । विवादे जयमाप्नोति बद्धो मुच्यति बन्धनात् ॥२३॥

Verse

दुर्गं तरति चावश्यं तथा चोरैर्विमुच्यते । सङ्ग्रामे विजयेन्नित्यं लक्ष्मीं प्राप्नोति केवलाम् ॥२४॥

Verse

आरोग्यबलसम्पन्नो जीवेद् वर्षशतं तथा । एतद् दृष्टं प्रसादात् तु मया व्यासस्य धीमतः ॥२५॥

Verse

मोहादेतौ न जानन्ति नरनारायणावृषी । तव पुत्रा दुरात्मानः सर्वे मन्युवशानुगाः ॥२६॥

Verse

प्राप्तकालमिदं वाक्यं कालपाशेन कुण्ठिताः । द्वैपायनो नारदश्च कण्वो रामस्तथाऽनघः । अवारयंस्तव सुतं न चासौ तद्गृहीतवान् ॥२७॥

Verse

यत्र धर्मो द्युतिः कान्तिर्यत्र ह्रीः श्रीस्तथा मतिः । यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥२८॥

Verse

॥इति श्रीमन्महाभारते भीष्मपर्वणि श्रीमद्भगवद्गीतापर्वणि त्रयोविंशोऽध्यायः॥

durgācandrakalāstutiḥ
mahālakṣmīstutiḥ (agastyakṛtā)

Read next

More on दुर्गा-स्तुतिः (अर्जुन-कृता)

  • दुर्गा-स्तुतिः (अर्जुन-कृता)Stotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms