Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stuti

durgācandrakalāstutiḥ

दुर्गाचन्द्रकलास्तुतिः

Verse

वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे । हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ॥१॥

Verse

अभ्यर्थनेन सरसीरुहसम्भवस्य त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् । विश्वेश्वरी विपदपाकरणे पुरस्तात् माता ममास्तु मधुकैटभयोर्निहन्त्री ॥२॥

Verse

प्राङ्निर्जरेषु निहितैर्निजशक्तिलेशैः एकीभवद्भिरुदिताऽखिललोकगुप्त्यै । सम्पन्नशस्त्रनिकरा च तदायुधस्थैः माता ममास्तु महिषान्तकरी पुरस्तात् ॥३॥

Verse

प्रालेयशैलतनयातनुकान्तिसम्पत्- कोशोदिता कुवलयच्छविचारुदेहा । नारायणी नमदभीप्सितकल्पवल्ली सुप्रीतिमावहतु शुम्भनिशुम्भहन्त्री ॥४॥

Verse

विश्वेश्वरीति महिषान्तकरीति यस्याः नारायणीत्यपि च नामभिरङ्कितानि । सूक्तानि पङ्कजभुवा च सुरर्षिभिश्च दृष्टानि पावकमुखैश्च शिवां भजे ताम् ॥५॥

Verse

उत्पत्तिदैत्यहननस्तवनात्मकानि संरक्षकाण्यखिलभूतहिताय यस्याः । सूक्तान्यशेषनिगमान्तविदः पठन्ति तां विश्वमातरमजस्रमभिष्टवीमि ॥६॥

Verse

ये वैप्रचित्तपुनरुत्थितशुम्भमुख्यैः दुर्भिक्षघोरसमयेन च कारितासु । आविष्कृतास्त्रिजगदार्तिषु रूपभेदाः तैरम्बिका समभिरक्षतु मां विपद्भ्यः ॥७॥

Verse

सूक्तं यदीयमरविन्दभवादिदृष्टम् आवर्त्य देव्यनुपदं सुरथः समाधिः । द्वावप्यवापतुरभीष्टमनन्यलभ्यं तामादिदेवतरुणीं प्रणमामि मूर्ध्ना ॥८॥

Verse

माहिष्मतीतनुभवं च रुरुं च हन्तुम् आविष्कृतैर्निजरसादवतारभेदैः । अष्टादशाहतनवाहतकोटिसङ्ख्यैः अम्बा सदा समभिरक्षतु मां विपद्भ्यः ॥९॥

Verse

एतच्चरित्रमखिलं लिखितं हि यस्याः सम्पूजितं सदन एव निवेशितं वा । दुर्गं च तारयति दुस्तरमप्यशेषं श्रेयः प्रयच्छति च सर्वमुमां भजे ताम् ॥१०॥

Verse

यत्पूजनस्तुतिनमस्कृतिभिर्भवन्ति प्रीताः पितामहरमेशहरास्त्रयोऽपि । तेषामपि स्वकगुणैर्ददती वपूंषि तामीश्वरस्य तरुणीं शरणं प्रपद्ये ॥११॥

Verse

कान्तारमध्यदृढलग्नतयाऽवसन्नाः मग्नाश्च वारिधिजले रिपुभिश्च रुद्धाः । यस्याः प्रपद्य चरणौ विपदस्तरन्ति सा मे सदाऽस्तु हृदि सर्वजगत्सवित्री ॥१२॥

Verse

बन्धे वधे महति मृत्युभये प्रसक्ते वित्तक्षये च विविधे य महोपतापे । यत्पादपूजनमिह प्रतिकारमाहुः सा मे समस्तजननी शरणं भवानी ॥१३॥

Verse

बाणासुरप्रहितपन्नगबन्धमोक्षः तद् बाहुदर्पदलनादुषया च योगः । प्राद्युम्निना द्रुतमलभ्यत यत्प्रसादात् सा मे शिवा सकलमप्यशुभं क्षिणोतु ॥१४॥

Verse

पापः पुलस्त्यतनयः पुनरुत्थितो माम् अद्यापि हर्तुमयमागत इत्युदीतम् । यत्सेवनेन भयमिन्दिरयाऽवधूतं तामादिदेवतरुणीं शरणं गतोऽस्मि ॥१५॥

Verse

यद् ध्यानजं सुखमवाप्यमनन्तपुण्यैः साक्षात् तमच्युतपरिग्रहमाश्ववापुः । गोपाङ्गनाः किल यदर्चनपुण्यमात्राः सा मे सदा भगवती भवतु प्रसन्ना ॥१६॥

Verse

रात्रिं प्रपद्य इति मन्त्रविदः प्रपन्नान् उद्बोध्य मृत्यवधिमन्यफलैः प्रलोभ्य । बुद्ध्वा च तद्विमुखतां प्रतनं नयन्तीम् आकाशमादिजननीं जगतां भजे ताम् ॥१७॥

Verse

देशकालेषु दुष्टेषु दुर्गाचन्द्रकलास्तुतिः । सन्ध्ययोरनुसन्धेया सर्वापद्विनिवृत्तये ॥१८॥

Verse

॥इति श्रीमदप्पय्यदीक्षितविरचिता श्रीदुर्गाचन्द्रकलास्तुतिः सम्पूर्णा॥

śivaśivāstutiḥ
durgā-stutiḥ (arjuna-kṛtā)

Read next

More on दुर्गाचन्द्रकलास्तुतिः

  • दुर्गाचन्द्रकलास्तुतिःStotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms