Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

viṣṇu-vijayastotram

विष्णु-विजयस्तोत्रम्

Verse

नताः स्म विष्णुं जगदादिभूतं सुरासुरेन्द्रं जगतां प्रपालकम् । यन्नाभिपद्मात् किल पद्मयोनिर्- बभूव तं वै शरणं गताः स्मः ॥८९॥

Verse

नमो नमो मत्स्यवपुर्धराय नमोऽस्तु ते कच्छपरूपधारिणे । नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः ॥९०॥

Verse

नमोऽस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने । प्रलम्बहन्त्रे शितिवाससे नमो नमोऽस्तु बुद्धाय च दैत्यमोहिने ॥९१॥

Verse

म्लेच्छान्तकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय । जगद्धितार्थं च युगे युगे भवान् बिभर्ति रूपं त्वसुराभवाय ॥९२॥

Verse

निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः । यश्चेन्द्रमुख्यान् किललोकपालान् संहेलया चैव तिरश्चकार ॥९३॥

Verse

स वै त्वया देवहितार्थमेव निपातितो देववर प्रसीद । त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव ॥९४॥

Verse

पाता त्वमेवास्य युगेयुगे च रूपाणि धत्से सुमनोहराणि । त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चान्तकाले ॥९५॥

Verse

अतो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश । यत् किं च भूतं च भविष्यरूपं प्रवर्त्तमानं च तथैव रूपम् ॥९६॥

Verse

सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किञ्चित् । अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम् ॥९७॥

Verse

ततो भवन्तं कतमोऽपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः । ऋते भवत्पादपरायणं जनं तेनागता स्मः शरणं शरण्यम् ॥९८॥

Verse

ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः । तुष्टोऽस्मि देवा भद्रं वो युष्मत्स्तोत्रेण साम्प्रतम् ॥९९॥

Verse

य इदं प्रपठेद् भक्त्या विजयस्तोत्रमादरात् । न तस्य दुर्लभं देवास्त्रिषु लोकेषु किञ्चन ॥१००॥

Verse

गवां शतसहस्रस्य सम्यग् दत्तस्य यत्फलम् । तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः ॥१०१॥

Verse

सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम् । अतः परं महाज्ञानं न भूतं न भविष्यति ॥१०२॥

Verse

॥इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे देवासुरसङ्ग्रामसमाप्तौ विजयस्तोत्रं नाम पञ्चसप्ततितमोऽध्यायः॥

viṣṇubhujaṅgaprayātastotram
saṅkaṣṭanāśana-stotraṃ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms