Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

saṅkaṣṭanāśana-stotraṃ

सङ्कष्टनाशन-स्तोत्रं

Verse

नमो मत्स्यकूर्मादिनानास्वरूपैः सदाभक्तकार्योद्यतायार्तिहन्त्रे । विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदाशङ्खपद्मारिहस्ताय तेऽस्तु ॥१॥

Verse

रमा वल्लभायासुराणां निहन्त्रे भुजङ्गारियानाय पीताम्बराय । मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥२॥

Verse

नमो दैत्यसन्तापितामर्त्यदुःखा- चलध्वंसदम्भोलये विष्णवे ते । भुजङ्गेशतल्पेशयायार्कचन्द्र- द्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥३॥

Verse

सङ्कष्टनाशनं नाम स्तोत्रमेतत् पठेन्नरः । स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः ॥४॥

Verse

॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलन्धरसभायां नारदागमनं नाम षोडशोऽध्याये सङ्कष्टनाशन-स्तोत्रं सम्पूर्णम्॥

viṣṇu-vijayastotram
brahmapārastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms