Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

brahmapārastotram

ब्रह्मपारस्तोत्रम्

Verse

ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम् । जपता कण्डुना देवो येनाऽऽराध्यत केशवः ॥५४॥

Verse

पारं परं विष्णुरपारपारः परः परेभ्यः परमार्थरूपी । स ब्रह्मपारः परपारभूतः परः पराणामपि पारपारः ॥५५॥

Verse

स कारणं कारणतस्ततोऽपि तस्यापि हेतुः परहेतुहेतुः । कार्येषु चैवं सह कर्मकर्तृ- रूपैरशेषैरवतीह सर्वम् ॥५६॥

Verse

ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतोऽसौ । ब्रह्माव्ययं नित्यमजं स विष्णुः अपक्षयाद्यैरखिलैरसङ्गिः ॥५७॥

Verse

ब्रह्माक्षरमजं नित्यं यथाऽसौ पुरुषोत्तमः । तथा रागादयो दोषाः प्रयान्तु प्रशमं मम ॥५८॥

Verse

एतद् ब्रह्मपराख्यं वै संस्तवं परमं जपन् । अवाप परमां सिद्धिं समाराध्य स केशवम् ॥५९॥

Verse

इमं स्तवं यः पठति शृणुयाद् वाऽपि नित्यशः । स कामदोषैरखिलैर्मुक्तः प्राप्नोति वाञ्छितम् ॥

Verse

॥इति श्रीविष्णुपुराणे प्रथमेंऽशे पञ्चदशोऽध्याये ब्रह्मपारस्तोत्रं सम्पूर्णम्॥

saṅkaṣṭanāśana-stotraṃ
lakṣmī-nṛsiṃha-karuṇārasa-stotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms