stotrasangraha
viṣṇubhujaṅgaprayātastotram
विष्णुभुजङ्गप्रयातस्तोत्रम्
Verse
चिदंशं विभुं निर्मलं निर्विकल्पं निरीहं निराकारमोङ्कारगम्यम् । गुणातीतमव्यक्तमेकं तुरीयं परं ब्रह्म यं वेद तस्मै नमस्ते ॥१॥
Verse
विशुद्धं शिवं शान्तमाद्यन्तशून्यं जगज्जीवनं ज्योतिरानन्दरूपम् । अदिग्देशकालव्यवच्छेदनीयं त्रयी वक्ति यं वेद तस्मै नमस्ते ॥२॥
Verse
महायोगपीठे परिभ्राजमाने धरण्यादितत्त्वात्मके शक्तियुक्ते । गुणाहस्करे वह्निबिम्बार्धमध्ये समासीनमोङ्कर्णिकेऽष्टाक्षराब्जे ॥३॥
Verse
समानोदितानेकसूर्येन्दुकोटि- प्रभापूरतुल्यद्युतिं दुर्निरीक्षम् । न शीतं न चोष्णं सुवर्णावदात- प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥४॥
Verse
सुनासापुटं सुन्दरभ्रूललाटं किरीटोचिताकुञ्चितस्निग्धकेशम् । स्फुरत् पुण्डरीकाभिरामायताक्षं समुत्फुल्लरत्नप्रसूनावतंसम् ॥५॥
Verse
लसत् कुण्डलामृष्टगण्डस्थलान्तं जपारागचोराधरं चारुहासम् । अलिव्याकुलामोलिमन्दारमालं महोरस्फुरत्कौस्तुभोदारहारम् ॥६॥
Verse
सुरत्नाङ्गदैरन्वितं बाहुदण्डैः चतुर्भिश्चलत्कङ्कणालङ्कृताग्रैः । उदारोदरालङ्कृतं पीतवस्त्रं पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥७॥
Verse
स्वभक्तेषु सन्दर्शिताकारमेवं सदा भावयन् सन्निरुद्धेन्द्रियाश्वः । दुरापं नरो याति संसारपारं परस्मै परेभ्योऽपि तस्मै नमस्ते ॥८॥
Verse
श्रिया शातकुम्भद्युतिस्निग्धकान्त्या धरण्या च दूर्वादलश्यामलाङ्ग्या । कलत्रद्वयेनामुना तोषिताय त्रिलोकीगृहस्थाय विष्णो नमस्ते ॥९॥
Verse
शरीरं कलत्रं सुतं बन्धुवर्गं वयस्यं धनं सद्म भृत्यं भुवं च । समस्तं परित्यज्य हा कष्टमेको गमिष्यामि दुःखेन दूरं किलाहम् ॥१०॥
Verse
जरेयं पिशाचीव हा जीवतो मे वसामक्ति रक्तं च मांसं बलं च । अहो देव सीदामि दीनानुकम्पिन् किमद्यापि हन्त त्वयोदासितव्यम् ॥११॥
Verse
कफव्याहतोष्णोल्बणश्वासवेग- व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् । विचिन्त्याहमन्त्यामसङ्ख्यामवस्थां बिभेमि प्रभो किं करोमि प्रसीद ॥१२॥
Verse
लपन्नच्युतानन्त गोविन्द विष्णो मुरारे हरे नाथ नारायणेति । यथाऽनुस्मरिष्यामि भक्त्या भवन्तं तथा मे दयाशील देव प्रसीद ॥१३॥
Verse
भुजङ्गप्रयातं पठेद् यस्तु भक्त्या समाधाय चित्ते भवन्तं मुरारे । स मोहं विहायाऽऽशु युष्मत्प्रसादात् समाश्रित्य योगं व्रजत्यच्युतं त्वाम् ॥१४॥
Verse
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-विष्णुभुजङ्गप्रयातस्तोत्रं सम्पूर्णम्॥
