Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

veṅkaṭeśa suprabhātam

वेङ्कटेश सुप्रभातम्

Verse

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१॥

Verse

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥२॥

Verse

मातः समस्तजगतां मधुकैटभारेः वक्षोविहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥३॥

Verse

तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदयिते दयानिधे ॥४॥

Verse

अत्र्यादिसप्तऋषयः समुपास्य सन्ध्याम् आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥५॥

Verse

पञ्चाननाब्जभवषण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासरशुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥६॥

Verse

ईषत्प्रफुल्ल-सरसीरुह-नारिकेल- पूगद्रुमादि-सुमनोहरपालिकानाम् । आवाति मन्दमनिलः सह दिव्यगन्धैः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥७॥

Verse

उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥८॥

Verse

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि । भाषासमग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥९॥

Verse

भृङ्गावली च मकरन्दरसानुविद्ध- झङ्कारगीत निनदैः सह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१०॥

Verse

योषागणेन वरदध्निविमथ्यमाने घोषालयेषु दधिमन्थनतीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥११॥

Verse

पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१२॥

Verse

श्रीमन्नभीष्टवरदाखिललोकबन्धो श्रीश्रीनिवास जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तरदिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१३॥

Verse

श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः । द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१४॥

Verse

श्रीशेषशैल-गरुडाचल-वेङ्कटाद्रि- नारायणाद्रि-वृषभाद्रि-वृषाद्रि-मुख्याम् । आख्यां त्वदीय वसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१५॥

Verse

सेवापराः शिव-सुरेश-कृशानु-धर्म- रक्षोऽम्बुनाथ-पवमान-धनाधिनाथाः । बद्धाञ्जलि-प्रविलसन्निजशीर्ष-देशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१६॥

Verse

धाटीषु ते विहगराज-मृगाधिराज- नागाधिराज-गजराज-हयाधिराजाः । स्वस्वाधिकार-महिमाऽधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१७॥

Verse

सूर्येन्दु-भौम-बुध-वाक्पति-काव्य-सौरि- स्वर्भानु-केतु-दिविषत्परिषत्प्रधानाः । त्वद्दास-दास-चरमावधि-दासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१८॥

Verse

त्वत् पादधूलिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्ष-निजान्तरङ्गाः । कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥

Verse

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२०॥

Verse

श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्त-गरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१॥

Verse

श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिह्न शरणागत-पारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२२॥

Verse

कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते कान्ताकुचाम्बुरुह-कुड्मल-लोलदृष्टे । कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२३॥

Verse

मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्वथ तपोधन रामचन्द्र । शेषांशराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४॥

Verse

एला-लवङ्ग-घनसार-सुगन्धि-तीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाऽद्य वैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥२५॥

Verse

भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः । श्रीवैष्णवाः सततमर्थित-मङ्गलास्ते धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् ॥२६॥

Verse

ब्रह्मादयः सुरवराः समहर्षयस्ते सन्तः सनन्दन मुखास्तव योगिवर्याः । धामान्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥

Verse

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो संसार-सागर-समुत्तरणैकसेतो । वेदान्तवेद्य निजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२८॥

Verse

इत्थं वृषाचलपतेरिह सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥२९॥

Verse

॥इति श्री-वेङ्कटेश सुप्रभातं सम्पूर्णम्॥

mahāgaṇapati navārṇavedapāda stavaḥ
veṅkaṭeśa-stotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms