stotrasangraha
mahāgaṇapati navārṇavedapāda stavaḥ
महागणपति नवार्णवेदपाद स्तवः
Verse
श्रीकण्ठतनय श्रीश श्रीकर श्रीदलार्चित । श्रीविनायक सर्वेश श्रियं वासय मे कुले ॥१॥
Verse
गजानन गणाधीश द्विजराज-विभूषित । भजे त्वां सच्चिदानन्द ब्रह्मणां ब्रह्मणस्पते ॥२॥
Verse
णषष्ठवाच्यनाशाय रोगाटविकुठारिणे । घृणापालितलोकाय वनानां पतये नमः ॥३॥
Verse
धियं प्रयच्छते तुभ्यम् ईप्सितार्थप्रदायिने । दीप्तभूषणभूषाय दिशां च पतये नमः ॥४॥
Verse
पञ्चब्रह्मस्वरूपाय पञ्चपातकहारिणे । पञ्चतत्त्वात्मने तुभ्यं पशूनां पतये नमः ॥५॥
Verse
तटित्कोटि-प्रतीकाश-तनवे विश्वसाक्षिणे । तपस्वि-ध्यायिने तुभ्यं सेनानिभ्यश्च वो नमः ॥६॥
Verse
ये भजन्त्यक्षरं त्वां ते प्राप्नुवन्त्यक्षरात्मताम् । नैकरूपाय महते मुष्णतां पतये नमः ॥७॥
Verse
नगजावरपुत्राय सुरराजार्चिताय च । सगुणाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥८॥
Verse
महापातकसङ्घात महारणभयापह । त्वदीय कृपया देव सर्वानव यजामहे ॥९॥
Verse
नवार्णरत्ननिगमपादसम्पुटितां स्तुतिम् । भक्त्या पठन्ति ये तेषां तुष्टो भव गणाधिप ॥
Verse
॥इति श्री-महागणपति नवार्णवेदपादस्तवः सम्पूर्णः॥
