Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

gaṇeśabhujaṅgam

गणेशभुजङ्गम्

Verse

रणत् क्षुद्रघण्टानिनादाभिरामं चलत् ताण्डवोद् दण्डवत्पद्मतालम् । लसत् तुन्दिलाङ्गोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ॥१॥

Verse

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्‌बीजपूरम् । गलद्दर्पसौगन्ध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे ॥२॥

Verse

प्रकाशज्जपारक्तरत्नप्रसून- प्रवालप्रभातारुणज्योतिरेकम् । प्रलम्बोदरं वक्रतुण्डैकदन्तं गणाधीशमीशानसूनुं तमीडे ॥३॥

Verse

विचित्रस्फुरद्रत्नमालाकिरीटं किरीटोल्लसच्चन्द्ररेखाविभूषम् । विभूषैकभूषं भवध्वंसहेतुं गणाधीशमीशानसूनुं तमीडे ॥४॥

Verse

उदञ्चद्भुजावल्लरीदृश्यमूलोच्- चलद्‌-भ्रूलता-विभ्रमभ्राजदक्षम् । मरुत् सुन्दरीचामरैः सेव्यमानं गणाधीशमीशानसूनुं तमीडे ॥५॥

Verse

स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं कृपाकोमलोदारलीलावतारम् । कलाबिन्दुगं गीयते योगिवर्यैर्- गणाधीशमीशानसूनुं तमीडे ॥६॥

Verse

यमेकाक्षरं निर्मलं निर्विकल्पं गुणातीतमानन्दमाकारशून्यम् । परं पारमोङ्कारमाम्नायगर्भं वदन्ति प्रगल्भं पुराणं तमीडे ॥७॥

Verse

चिदानन्दसान्द्राय शान्ताय तुभ्यं नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् । नमोऽनन्तलीलाय कैवल्यभासे नमो विश्वबीज प्रसीदेशसूनो ॥८॥

Verse

इमं सुस्तवं प्रातरुत्थाय भक्त्या पठेद् यस्तु मर्त्यो लभेत्सर्वकामान् । गणेशप्रसादेन सिद्ध्यन्ति वाचो गणेशे विभौ दुर्लभं किं प्रसन्ने ॥९॥

Verse

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-गणेशभुजङ्गं सम्पूर्णम्॥

gaṇapatistavaḥ
mahāgaṇapati navārṇavedapāda stavaḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms