stotrasangraha
veṅkaṭeśa prapattiḥ
वेङ्कटेश प्रपत्तिः
Verse
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षःस्थल-नित्य-वासरसिकां तत्क्षान्ति-संवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥१॥
Verse
श्रीमन् कृपाजलनिधे कृतसर्वलोक सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् । स्वामिन् सुशील सुलभाश्रितपारिजात श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥२॥
Verse
आनूपुरार्पितसुजातसुगन्धिपुष्प- सौरभ्यसौरभकरौ समसन्निवेशौ । सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥३॥
Verse
सद्योविकासिसमुदित्वरसान्द्रराग- सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् । सम्यक्षु साहसपदेषु विलेखयन्तौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥४॥
Verse
रेखामयध्वजसुधाकलशातपत्र- वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः । भव्यैरलङ्कृततलौ परतत्त्वचिह्नैः श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥५॥
Verse
ताम्रोदरद्युतिपराजितपद्मरागौ बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ । उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥६॥
Verse
सप्रेमभीति कमलाकरपल्लवाभ्यां संवाहनेऽपि सपदि क्लममादधानौ । कान्ताववाङ्मन-सगोचर-सौकुमार्यौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥७॥
Verse
लक्ष्मीमहीतदनुरूपनिजानुभाव- नीलादिदिव्यमहिषीकरपल्लवानाम् । आरुण्यसङ्क्रमणतः किल सान्द्ररागौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥८॥
Verse
नित्यानमद्विधिशिवादिकिरीटकोटि- प्रत्युप्त-दीप्त-नवरत्न-महःप्ररोहैः । नीराजनाविधिमुदारमुपाददानौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥९॥
Verse
विष्णोः पदे परम इत्युतिदप्रशंसौ यौ मध्व उत्स इति भोग्यतयाऽप्युपात्तौ । भूयस्तथेति तव पाणितलप्रदिष्टौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१०॥
Verse
पार्थाय तत्सदृश-सारथिना त्वयैव यौ दर्शितौ स्वचरणौ शरणं व्रजेति । भूयोऽपि मह्यमिह तौ करदर्शितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥११॥
Verse
मन्मूर्ध्नि कालियफणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् । चित्तेऽप्यनन्यमनसां सममाहितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१२॥
Verse
अम्लानहृष्यदवनीतलकीर्णपुष्पौ श्रीवेङ्कटाद्रि-शिखराभरणायमानौ । आनन्दिताखिल-मनो-नयनौ तवैतौ श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१३॥
Verse
प्रायः प्रपन्न-जनता-प्रथमावगाह्यौ मातुः स्तनाविव शिशोरमृतायमानौ । प्राप्तौ परस्परतुलामतुलान्तरौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१४॥
Verse
सत्त्वोत्तरैः सतत-सेव्यपदाम्बुजेन संसार-तारक-दयार्द्र-दृगञ्चलेन । सौम्यौ पयन्तृमुनिना मम दर्शितौ ते श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१५॥
Verse
श्रीश श्रिया घटिकया त्वदुपायभावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या । नित्याश्रिताय निरवद्यगुणाय तुभ्यं स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥१६॥
Verse
॥इति श्रीवेङ्कटेश प्रपत्तिः सम्पूर्णा॥
