Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

veṅkaṭeśa maṅgalāśāsanam

वेङ्कटेश मङ्गलाशासनम्

Verse

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥१॥

Verse

लक्ष्मी-सविभ्रमालोक-सुभ्रू-विभ्रमचक्षुषे । चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥२॥

Verse

श्रीवेङ्कटाद्रि-शृङ्गाग्र-मङ्गलाभरणाङ्घ्रये । मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम् ॥३॥

Verse

सर्वावयवसौन्दर्य-सम्पदा सर्वचेतसाम् । सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥४॥

Verse

नित्याय निरवद्याय सत्यानन्दचिदात्मने । सर्वान्तरात्मने श्रीमद्-वेङ्कटेशाय मङ्गलम् ॥५॥

Verse

स्वतस्सर्वविदे सर्वशक्तये सर्वशेषिणे । सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥६॥

Verse

परस्मै ब्रह्मणे पूर्णकामाय परमात्मने । प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥७॥

Verse

आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम् । अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् ॥८॥

Verse

प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना । कृपयाऽऽदिशते श्रीमद्-वेङ्कटेशाय मङ्गलम् ॥९॥

Verse

दयामृत-तरङ्गिण्यास्तरङ्गैरिव शीतलैः । अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥१०॥

Verse

स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये । सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥११॥

Verse

श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे । रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥१२॥

Verse

श्रीमत् सुन्दरजामातृमुनिमानसवासिने । सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥१३॥

Verse

मङ्गलाशासनपरैर्मदाचार्य-पुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥१४॥

Verse

॥इति श्री-वेङ्कटेश-मङ्गलाशासनं सम्पूर्णम्॥

veṅkaṭeśa prapattiḥ
veṅkaṭeśa karāvalambastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms