stotrasangraha
vātapuranāthāṣṭakam
वातपुरनाथाष्टकम्
Verse
कुन्दसुमवृन्दसममन्दहसितास्यं नन्दकुलनन्दभरतुन्दलनकन्दम् । पूतनिजगीतलवधूतदुरितं तं वातपुरनाथमिममातनु हृदब्जे ॥१॥
Verse
नीलतरजालधरभालहरिरम्यं लोलतरशीलयुतबालजनलीलम् । जालनतिशीलमपि पालयितुकामं वातपुरनाथमिममातनु हृदब्जे ॥२॥
Verse
कंसरणहिंसमिह संसरणजात- क्लान्तिभरशान्तिकरकान्तिझरवीतम् । वातमुखधातुजनिपातभयघातं वातपुरनाथमिममातनु हृदब्जे ॥३॥
Verse
जातुधुरिपातुकमिहातुरजनं द्राक् शोकभरमूकमपि तोकमिव पान्तम् । भृङ्गरुचिसङ्गरकृदङ्गलतिकं तं वातपुरनाथमिममातनु हृदब्जे ॥४॥
Verse
पापभवतापभरकोपशमनार्था- श्वासकरभासमृदुहासरुचिरास्यम् । रोगचयभोगभयवेगहरमेकं वातपुरनाथमिममातनु हृदब्जे ॥५॥
Verse
घोषकुलदोषहरवेषमुपयान्तं पूषशतदूषकविभूषणगणाढ्यम् । भुक्तिमपिमुक्तिमतिभक्तिषु ददानं वातपुरनाथमिममातनु हृदब्जे ॥६॥
Verse
पापकदुरापमतितापहरशोभ- स्वापघनमामतदुमापतिसमेतम् । दूनतरदीनसुखदानकृतदीक्षं वातपुरनाथमिममातनु हृदब्जे ॥७॥
Verse
पादपतदादरणमोदपरिपूर्णं जीवमुखदेवजनसेवनफलाङ्घ्रिम् । रूक्षभवमोक्षकृतदीक्षनिजवीक्षं वातपुरनाथमिममातनु हृदब्जे ॥८॥
Verse
भृत्यगणपत्युदितनुत्युचितमोदं स्पष्टमिदमष्टकमदुष्टकरणार्हम् । आदधतमादरदमादिलयशून्यं वातपुरनाथमिममातनु हृदब्जे ॥
Verse
॥इति महामहोपाध्याय-ब्रह्मश्री-पैङ्गानाडु-गणपतीशास्त्रिभिः विरचितं श्रीवातपुरनाथाष्टकं सम्पूर्णम्॥
