stotrasangraha
guruvātapurīśapañcaratnam
गुरुवातपुरीशपञ्चरत्नम्
Verse
कल्याणरूपाय कलौ जनानां कल्याणदात्रे करुणासुधाब्धे । कम्ब्वादिदिव्यायुधसत्कराय वातालयाधीश नमो नमस्ते ॥१॥
Verse
नारायणेत्यादि जपद्भिरुच्चैः भक्तैः सदापूर्णमहालयाय । स्वतीर्थगाङ्गोपम-वारिमग्न निवर्तिताशेषरुजे नमस्ते ॥२॥
Verse
ब्राह्मे मुहूर्ते परिधः स्वभक्तैः सन्दृष्टसर्वोत्तमविश्वरूप । स्वतैलसंसेवकरोगहर्त्रे वातालयाधीश नमो नमस्ते ॥३॥
Verse
बालान् स्वकीयान् तवसन्निधाने दिव्यान्नदानात्परिपालयद्भिः । सदा पठद्भिश्च पुराणरत्नं संसेवितायास्तु नमो हरे ते ॥४॥
Verse
नित्यान्नदात्रे च महीसुरेभ्यः नित्यं दिविस्थैर्निशि पूजिताय । मात्रा च पित्रा च तथोद्धवेन सम्पूजितायास्तु नमो नमस्ते ॥५॥
Verse
अनन्तरामाख्य-मखिप्रणीतं स्तोत्रं पठेद् यस्तु नरस्त्रिकालम् । वातालयेशस्य कृपाफलेन लभेत सर्वाणि च मङ्गलानि ॥
Verse
गुरुवातपुरीशपञ्चकाख्यं स्तुतिरत्नं पठतां सुमङ्गलं स्यात् । हृदि चापि विशेद्धरिः स्वयं तु रतिनाथायुततुल्यदेहकान्तिः ॥
Verse
॥इति श्री-अनन्तराम-दीक्षितेन विरचितं श्री-गुरुवातपुरीशपञ्चरत्नं सम्पूर्णम्॥
Verse
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे वरमौक्तिकं करतले वेणुः करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥
Verse
अस्ति स्वस्तरुणीकराग्रविगलत् कल्पप्रसूनाप्लुतं वस्तुप्रस्तुतवेणुनादलहरी निर्वाणनिर्व्याकुलम् । स्रस्तस्रस्तनिबद्धनीविविलसत् गोपीसहस्रावृतं हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥
