stotrasangraha
dāmodarāṣṭakam
दामोदराष्टकम्
Verse
नमामीश्वरं सच्चिदानन्दरूपं लसत् कुण्डलं गोकुले भ्राजमानम् । यशोदाभियोलूखलाद् धावमानं परामृष्टमत्यन्ततो द्रुत्य गोप्या ॥१॥
Verse
रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं कराम्भोजयुग्मेन सातङ्कनेत्रम् । मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ- स्थितग्रैव-दामोदरं भक्तिबद्धम् ॥२॥
Verse
इतीदृक् स्वलीलाभिरानन्दकुण्डे स्वघोषं निमज्जन्तमाख्यापयन्तम् । तदीयेषिताज्ञेषु भक्तैर्जितत्वं पुनः प्रेमतस्तं शतावृत्ति वन्दे ॥३॥
Verse
वरं देव मोक्षं न मोक्षावधिं वा न चान्यं वृणेऽहं वरेषादपीह । इदं ते वपुर्नाथ गोपालबालं सदा मे मनस्याविरास्तां किमन्यैः ॥४॥
Verse
इदं ते मुखाम्भोजमत्यन्तनीलैर्- वृतं कुन्तलैः स्निग्ध-रक्तैश्च गोप्या । मुहुश्चुम्बितं बिम्बरक्ताधरं मे मनस्याविरास्ताम् अलं लक्षलाभैः ॥५॥
Verse
नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो दुःखजालाब्धिमग्नम् । कृपादृष्टिवृष्ट्यातिदीनं बतानु गृहाणेश माम् अज्ञमेध्यक्षिदृश्यः ॥६॥
Verse
कुवेरात्मजौ बद्धमूर्त्यैव यद्वत् त्वया मोचितौ भक्तिभाजौ कृतौ च । तथा प्रेमभक्तिं स्वकं मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥७॥
Verse
नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने त्वदीयोदरायाथ विश्वस्य धाम्ने । नमो राधिकायै त्वदीयप्रियायै नमोऽनन्तलीलाय देवाय तुभ्यम् ॥८॥
Verse
॥इति श्रीमद्पद्मपुराणे श्री-दामोदराष्टकं सम्पूर्णम्॥
